| |
|

This overlay will guide you through the buttons:

गरळं तरळानलं पुरस्ताज्जलधेरुद्विजगाळ काळकूटम् । अमरस्तुतिवादमोदनिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥ 28.1 ॥
गरळम् तरल-अनलम् पुरस्तात् जलधेः उद्विजगाल काळकूटम् । अमर-स्तुतिवाद-मोद-निघ्नः गिरिशः तत् निपपौ भवत्-प्रिय-अर्थम् ॥ २८।१ ॥
garal̤am tarala-analam purastāt jaladheḥ udvijagāla kāl̤akūṭam . amara-stutivāda-moda-nighnaḥ giriśaḥ tat nipapau bhavat-priya-artham .. 28.1 ..
विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् । हयरत्नमभूदथेभरत्नं द्यूतरुश्चाप्सरसः सुरेषु तानि ॥ 28.2 ॥
विमथत्सु सुर-असुरेषु जाता सुरभिः ताम् ऋषिषु न्यधाः त्रिधामन् । हय-रत्नम् अभूत् अथ इभ-रत्नम् द्यूतरुः च अप्सरसः सुरेषु तानि ॥ २८।२ ॥
vimathatsu sura-asureṣu jātā surabhiḥ tām ṛṣiṣu nyadhāḥ tridhāman . haya-ratnam abhūt atha ibha-ratnam dyūtaruḥ ca apsarasaḥ sureṣu tāni .. 28.2 ..
जगदीश भवत्परा तदानीं कमनीया कमला बभूव देवी । अमलामवलोक्य यां विलोकः सकलोऽपि स्पृहयाम्बभूव लोकः ॥ 28.3 ॥
जगदीश भवत्-परा तदानीम् कमनीया कमला बभूव देवी । अमलाम् अवलोक्य याम् विलोकः सकलः अपि स्पृहयाम्बभूव लोकः ॥ २८।३ ॥
jagadīśa bhavat-parā tadānīm kamanīyā kamalā babhūva devī . amalām avalokya yām vilokaḥ sakalaḥ api spṛhayāmbabhūva lokaḥ .. 28.3 ..
त्वयि दत्तहृद्दे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् । सकलोपहृताभिषेचनीयैरृषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥ 28.4 ॥
त्वयि तदा एव देव्यै त्रिदश-इन्द्रः मणि-पीठिकाम् व्यतारीत् । सकल-उपहृत-अभिषेचनीयैः ऋषयः ताम् श्रुति-गीर्भिः अभ्यषिञ्चन् ॥ २८।४ ॥
tvayi tadā eva devyai tridaśa-indraḥ maṇi-pīṭhikām vyatārīt . sakala-upahṛta-abhiṣecanīyaiḥ ṛṣayaḥ tām śruti-gīrbhiḥ abhyaṣiñcan .. 28.4 ..
अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम् । मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्दभूषन् ॥ 28.5 ॥
अभिषेक-जल-अनुपाति-मुग्ध-त्वद्-अपाङ्गैः अवभूषित-अङ्ग-वल्लीम् । मणि-कुण्डल-पीत-चेल-हार-प्रमुखैः ताम् अमर-आदयः अन्दभूषन् ॥ २८।५ ॥
abhiṣeka-jala-anupāti-mugdha-tvad-apāṅgaiḥ avabhūṣita-aṅga-vallīm . maṇi-kuṇḍala-pīta-cela-hāra-pramukhaiḥ tām amara-ādayaḥ andabhūṣan .. 28.5 ..
वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना । पदशिञ्जितमञ्जुनूपुरा त्वां कलितव्रीळविलासमाससाद ॥ 28.6 ॥
वरण-स्रजम् आत्त-भृङ्ग-नादाम् दधती सा कुच-कुम्भ-मन्दयाना । पद-शिञ्जित-मञ्जु-नूपुरा त्वाम् कलित-व्रीळ-विलासम् आससाद ॥ २८।६ ॥
varaṇa-srajam ātta-bhṛṅga-nādām dadhatī sā kuca-kumbha-mandayānā . pada-śiñjita-mañju-nūpurā tvām kalita-vrīl̤a-vilāsam āsasāda .. 28.6 ..
गिरिश द्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् । अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥ 28.7 ॥
गिरिश द्रुहिण-आदि-सर्व-देवान् गुण-भाजः अपि अ विमुक्त-दोष-लेशान् । अवमृश्य सदा एव सर्व-रम्ये निहिता त्वयि अनया अपि दिव्य-माला ॥ २८।७ ॥
giriśa druhiṇa-ādi-sarva-devān guṇa-bhājaḥ api a vimukta-doṣa-leśān . avamṛśya sadā eva sarva-ramye nihitā tvayi anayā api divya-mālā .. 28.7 ..
उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् । त्वदुरोविलसत्तदीक्षणश्री परिवृष्ट्या परिपुष्टमास विश्वम् ॥ 28.8 ॥
उरसा तरसा मम अनिथ एनाम् भुवनानाम् जननीम् अनन्य-भावाम् । त्वद्-उरः-विलसत्-तद्-ईक्षण-श्री परिवृष्ट्या परिपुष्टम् आस विश्वम् ॥ २८।८ ॥
urasā tarasā mama anitha enām bhuvanānām jananīm ananya-bhāvām . tvad-uraḥ-vilasat-tad-īkṣaṇa-śrī parivṛṣṭyā paripuṣṭam āsa viśvam .. 28.8 ..
अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् । तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥ 28.9 ॥
अति मोहन-विभ्रमा तदानीम् मदयन्ती खलु वारुणी निरागात् । तमसः पदवीम् अदाः त्वम् एनाम् अति सम्माननया महा-असुरेभ्यः ॥ २८।९ ॥
ati mohana-vibhramā tadānīm madayantī khalu vāruṇī nirāgāt . tamasaḥ padavīm adāḥ tvam enām ati sammānanayā mahā-asurebhyaḥ .. 28.9 ..
तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः । अमृतं कलशे वहन्कराभ्यामखिलार्तिं हर मारुतालयेश ॥ 28.10 ॥
तरुण-अम्बुद-सुन्दरः तदा त्वम् ननु धन्वन्तरिः उत्थितः अम्बुराशेः । अमृतम् कलशे वहन् कराभ्याम् अखिल-आर्तिम् हर मारुतालय-ईश ॥ २८।१० ॥
taruṇa-ambuda-sundaraḥ tadā tvam nanu dhanvantariḥ utthitaḥ amburāśeḥ . amṛtam kalaśe vahan karābhyām akhila-ārtim hara mārutālaya-īśa .. 28.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In