| |
|

This overlay will guide you through the buttons:

पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः । चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममू नहं धन्यान्मन्ये समधिगतसर्वाभिलषितान् ॥ 3.1 ॥
पठन्तः नामानि प्रमद-भर-सिन्धौ निपतिताः स्मरन्तः रूपम् ते वर-द कथयन्तः गुण-कथाः । चरन्तः ये भक्ताः त्वयि खलु रमन्ते परम् अमू न अहम् धन्यान् मन्ये समधिगत-सर्व-अभिलषितान् ॥ ३।१ ॥
paṭhantaḥ nāmāni pramada-bhara-sindhau nipatitāḥ smarantaḥ rūpam te vara-da kathayantaḥ guṇa-kathāḥ . carantaḥ ye bhaktāḥ tvayi khalu ramante param amū na aham dhanyān manye samadhigata-sarva-abhilaṣitān .. 3.1 ..
गदक्लिष्टं कष्टं तव चरणसेवारसभरेऽ प्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् । भवत्पादाम्भोजस्मरणरसिको नामनिवहा नहं गायंगायं कुहचन विवत्स्यामि विजने ॥ 3.2 ॥
गद-क्लिष्टम् कष्टम् तव चरण-सेवा-रस-भरे अपि अनासक्तम् चित्तम् भवति बत विष्णो कुरु दयाम् । भवत्-पाद-अम्भोज-स्मरण-रसिकः नाम-निवहा न अहम् गायम् गायम् कुहचन विवत्स्यामि विजने ॥ ३।२ ॥
gada-kliṣṭam kaṣṭam tava caraṇa-sevā-rasa-bhare api anāsaktam cittam bhavati bata viṣṇo kuru dayām . bhavat-pāda-ambhoja-smaraṇa-rasikaḥ nāma-nivahā na aham gāyam gāyam kuhacana vivatsyāmi vijane .. 3.2 ..
कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां मदीयक्लेशौघप्रशमनदशा नाम कियती । न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥ 3.3 ॥
कृपा ते जाता चेद् किम् इव न हि लभ्यम् तनुभृताम् मदीय-क्लेश-ओघ-प्रशमन-दशा नाम कियती । न के के लोके अस्मिन् अनिश-मयि शोक-अभिरहिताः भवत्-भक्ताः मुक्ताः सुख-गतिम् असक्ताः विदधते ॥ ३।३ ॥
kṛpā te jātā ced kim iva na hi labhyam tanubhṛtām madīya-kleśa-ogha-praśamana-daśā nāma kiyatī . na ke ke loke asmin aniśa-mayi śoka-abhirahitāḥ bhavat-bhaktāḥ muktāḥ sukha-gatim asaktāḥ vidadhate .. 3.3 ..
मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो भवत्पादाम्भोजस्मरणविरुजो नारदमुखाः । चरन्तीश स्वैरं सततपरिनिर्भातपरचित् सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥ 3.4 ॥
मुनि-प्रौढाः रूढाः जगति खलु गूढ-आत्म-गतयः भवत्-पाद-अम्भोज-स्मरण-विरुजः नारद-मुखाः । चरन्ति ईश स्वैरम् सतत-परिनिर्भात-पर-चित् सत्-आनन्द-अद्वैत-प्रसर-परिमग्नाः किम् अपरम् ॥ ३।४ ॥
muni-prauḍhāḥ rūḍhāḥ jagati khalu gūḍha-ātma-gatayaḥ bhavat-pāda-ambhoja-smaraṇa-virujaḥ nārada-mukhāḥ . caranti īśa svairam satata-parinirbhāta-para-cit sat-ānanda-advaita-prasara-parimagnāḥ kim aparam .. 3.4 ..
भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये दशेषक्लेशौघं न खलु हृदि सन्देहकणिका । न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ 3.5 ॥
भवत्-भक्तिः स्फीता भवतु मम सा एव प्रशमये दश-इष-क्लेश-ओघम् न खलु हृदि सन्देह-कणिका । न चेद् व्यासस्य उक्तिः तव च वचनम् नैगम-वचः भवेत् मिथ्या रथ्यापुरुष-वचन-प्रायम् अखिलम् ॥ ३।५ ॥
bhavat-bhaktiḥ sphītā bhavatu mama sā eva praśamaye daśa-iṣa-kleśa-ogham na khalu hṛdi sandeha-kaṇikā . na ced vyāsasya uktiḥ tava ca vacanam naigama-vacaḥ bhavet mithyā rathyāpuruṣa-vacana-prāyam akhilam .. 3.5 ..
भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात् किमप्यारूढा चेदखिलपरितापप्रशमनी । पुनश्चान्ते स्वान्ते विमलपरि बोधोदयमिळन् महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥ 3.6 ॥
भवत्-भक्तिः तावत् प्रमुख-मधुरा त्वात् गुण-रसात् किम् अपि आरूढा चेद् अखिल-परिताप-प्रशमनी । पुनर् च अन्ते स्व-अन्ते विमल-परि बोध-उदयम् इळन् महानन्द-अद्वैतम् दिशति किम् अतस् प्रार्थ्यम् अपरम् ॥ ३।६ ॥
bhavat-bhaktiḥ tāvat pramukha-madhurā tvāt guṇa-rasāt kim api ārūḍhā ced akhila-paritāpa-praśamanī . punar ca ante sva-ante vimala-pari bodha-udayam il̤an mahānanda-advaitam diśati kim atas prārthyam aparam .. 3.6 ..
विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ । भवन्मूर्त्यालोके नयनमथ ते पादतुलसी परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥ 3.7 ॥
विधूय क्लेशान् मे कुरु चरण-युग्मम् धृत-रसम् भवत्-क्षेत्र-प्राप्तौ करम् अपि च ते पूजन-विधौ । भवत्-मूर्ति-आलोके नयनम् अथ ते पाद-तुलसी परिघ्राणे घ्राणम् श्रवणम् अपि ते चारु-चरिते ॥ ३।७ ॥
vidhūya kleśān me kuru caraṇa-yugmam dhṛta-rasam bhavat-kṣetra-prāptau karam api ca te pūjana-vidhau . bhavat-mūrti-āloke nayanam atha te pāda-tulasī parighrāṇe ghrāṇam śravaṇam api te cāru-carite .. 3.7 ..
प्रभूताधिव्याधिप्रसभcअलिते मामकहृदि त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् । उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥ 3.8 ॥
प्रभूत-आधि-व्याधि-प्रसभ-चलिते मामक-हृदि त्वदीयम् तद्-रूपम् परम-सुख-चित्-रूपम् उदियात् । उदञ्चत्-रोमाञ्चः गलित-बहु-हर्ष-अश्रु-निवहः यथा विस्मर्यासम् दुरुपशम-पीडा-परिभवान् ॥ ३।८ ॥
prabhūta-ādhi-vyādhi-prasabha-calite māmaka-hṛdi tvadīyam tad-rūpam parama-sukha-cit-rūpam udiyāt . udañcat-romāñcaḥ galita-bahu-harṣa-aśru-nivahaḥ yathā vismaryāsam durupaśama-pīḍā-paribhavān .. 3.8 ..
मरुद्गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् । अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन् भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन ॥ 3.9 ॥
मरुत्-गेह-अधीश त्वयि खलु पराञ्चः अपि सुखिनः भवत्-स्नेही सः अहम् सु बहु परितप्ये च किम् इदम् । अकीर्तिः ते मा भूत् वर-द गद-भारम् प्रशमयन् भवत्-भक्त-उत्तंसम् झटिति कुरु माम् कंसदमन ॥ ३।९ ॥
marut-geha-adhīśa tvayi khalu parāñcaḥ api sukhinaḥ bhavat-snehī saḥ aham su bahu paritapye ca kim idam . akīrtiḥ te mā bhūt vara-da gada-bhāram praśamayan bhavat-bhakta-uttaṃsam jhaṭiti kuru mām kaṃsadamana .. 3.9 ..
किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया दहं तावद्देव प्रहितविविधार्तप्रलपितः । पुरः क्लृप्ते पादे वरद तव नेष्यामि दिवसान् यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥ 3.10 ॥
किम् उक्तैः भूयोभिः तव हि करुणा यावत् उदियाः तावत् देव प्रहित-विविध-आर्त-प्रलपितः । पुरस् क्लृप्ते पादे वर-द तव नेष्यामि दिवसान् यथाशक्ति व्यक्तम् नति-नुति-निषेवाः विरचयन् ॥ ३।१० ॥
kim uktaiḥ bhūyobhiḥ tava hi karuṇā yāvat udiyāḥ tāvat deva prahita-vividha-ārta-pralapitaḥ . puras klṛpte pāde vara-da tava neṣyāmi divasān yathāśakti vyaktam nati-nuti-niṣevāḥ viracayan .. 3.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In