| |
|

This overlay will guide you through the buttons:

शक्रेण संयति हतोऽपि बलिर्महात्माशुक्रेण जीविततनुः क्रतुवर्धितोष्मा । विक्रान्तिमान् भयनिलीनसुरां त्रिलोकींचक्रे वशे स तव चक्रमुखादभीतः ॥ 30.1 ॥
शक्रेण संयति हतः अपि बलिः महात्मा अ शुक्रेण जीवित-तनुः क्रतु-वर्धित-ऊष्मा । विक्रान्तिमान् भय-निलीन-सुराम् त्रिलोकीम् चक्रे वशे स तव चक्र-मुखात् अभीतः ॥ ३०।१ ॥
śakreṇa saṃyati hataḥ api baliḥ mahātmā a śukreṇa jīvita-tanuḥ kratu-vardhita-ūṣmā . vikrāntimān bhaya-nilīna-surām trilokīm cakre vaśe sa tava cakra-mukhāt abhītaḥ .. 30.1 ..
पुत्रार्तिदर्शनवशाददितिर्विषण्णातं काश्यपं निजपतिं शरणं प्रपन्ना । त्वत्पूजनं तदुदितं हि पयोव्रताख्यंसा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥ 30.2 ॥
पुत्र-आर्ति-दर्शन-वशात् अदितिः विषण्णा अतम् काश्यपम् निज-पतिम् शरणम् प्रपन्ना । त्वद्-पूजनम् तत् उदितम् हि पयोव्रत-आख्य-अंसा द्वादश-अहम् अचरत् त्वयि भक्ति-पूर्णा ॥ ३०।२ ॥
putra-ārti-darśana-vaśāt aditiḥ viṣaṇṇā atam kāśyapam nija-patim śaraṇam prapannā . tvad-pūjanam tat uditam hi payovrata-ākhya-aṃsā dvādaśa-aham acarat tvayi bhakti-pūrṇā .. 30.2 ..
तस्यावधौ त्वयि निलीनमतेरमुष्याःश्यामश्चतुर्भुजवपुः स्वयमाविरासीः । नम्रां च तामिह भवत्तनयो भवेयंगोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥ 30.3 ॥
तस्य अवधौ त्वयि निलीन-मतेः अमुष्याः श्यामः चतुर्-भुज-वपुः स्वयम् आविरासीः । नम्राम् च ताम् इह भवत्-तनयः भवेयम् गोप्यम् मद्-ईक्षणम् इति प्रलपन् अयासीः ॥ ३०।३ ॥
tasya avadhau tvayi nilīna-mateḥ amuṣyāḥ śyāmaḥ catur-bhuja-vapuḥ svayam āvirāsīḥ . namrām ca tām iha bhavat-tanayaḥ bhaveyam gopyam mad-īkṣaṇam iti pralapan ayāsīḥ .. 30.3 ..
त्वं काश्यपे तपसि सन्निदधत्तदानींप्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा । प्रासूत च प्रकटवैष्णवदिव्यरूपंसा द्वादशीश्रवणपुण्यदिने भवन्तम् ॥ 30.4 ॥
त्वम् काश्यपे तपसि सन्निदधत् तदानीम् प्राप्तः असि गर्भम् अदितेः प्रणुतः विधात्रा । प्रासूत च द्वादशी-श्रवण-पुण्य-दिने भवन्तम् ॥ ३०।४ ॥
tvam kāśyape tapasi sannidadhat tadānīm prāptaḥ asi garbham aditeḥ praṇutaḥ vidhātrā . prāsūta ca dvādaśī-śravaṇa-puṇya-dine bhavantam .. 30.4 ..
पुण्याश्रमं तमभिवर्षति पुष्पवर्षैर्हर्षाकुले सुरकुले कृततूर्यघोषे । बध्वाञ्जलिं जय जयेति तनुः पितृभ्यांत्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥ 30.5 ॥
पुण्य-आश्रमम् तम् अभिवर्षति पुष्प-वर्षैः हर्ष-आकुले सुर-कुले कृत-तूर्य-घोषे । बध्वा अञ्जलिम् जय जय इति तनुः पितृभ्याम् त्वम् तद्-क्षणे पटुतमम् वटु-रूपम् आधाः ॥ ३०।५ ॥
puṇya-āśramam tam abhivarṣati puṣpa-varṣaiḥ harṣa-ākule sura-kule kṛta-tūrya-ghoṣe . badhvā añjalim jaya jaya iti tanuḥ pitṛbhyām tvam tad-kṣaṇe paṭutamam vaṭu-rūpam ādhāḥ .. 30.5 ..
तावत्प्रजापतिमुखैरुपनीय मौञ्जीदण्डाजिनाक्षवलयादिभिरर्च्यमानः । देदीप्यमानवपुरीश कृताग्निकार्यस्त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥ 30.6 ॥
तावत् प्रजापति-मुखैः उपनीय मौञ्जी-दण्ड-अजिन-अक्ष-वलय-आदिभिः अर्च्यमानः । देदीप्यमान-वपुः ईश कृत-अग्नि-कार्यः त्वम् प्रास्थिथाः बलि-गृहम् प्रकृत-अश्वमेधम् ॥ ३०।६ ॥
tāvat prajāpati-mukhaiḥ upanīya mauñjī-daṇḍa-ajina-akṣa-valaya-ādibhiḥ arcyamānaḥ . dedīpyamāna-vapuḥ īśa kṛta-agni-kāryaḥ tvam prāsthithāḥ bali-gṛham prakṛta-aśvamedham .. 30.6 ..
गात्रेण भाविमहिमोचितगौरवं प्राग्व्यावृण्वतेव धरणीं चलयन्नयासीः । छत्रं परोष्मतिरणार्थमिवादधानोदण्डं च दानवजनेष्विवं सन्निधातुम् ॥ 30.7 ॥
गात्रेण भावि-महिम-उचित-गौरवम् प्राक् व्यावृण्वता इव धरणीम् चलयन् अयासीः । छत्रम् पर-ऊष्म-तिरण-अर्थम् इव आदधानः उदण्डम् च दानव-जनेषु इवम् सन्निधातुम् ॥ ३०।७ ॥
gātreṇa bhāvi-mahima-ucita-gauravam prāk vyāvṛṇvatā iva dharaṇīm calayan ayāsīḥ . chatram para-ūṣma-tiraṇa-artham iva ādadhānaḥ udaṇḍam ca dānava-janeṣu ivam sannidhātum .. 30.7 ..
तां नर्मदित्तरतटे हयमेधशालामासेदुषि त्वयि रुचा तव रुद्धनेत्रैः । भास्वान्किमेष दहनो नु सनत्कुमारोयोगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥ 30.8 ॥
ताम् नर्मदा-इत्तर-तटे हयमेध-शालाम् आसेदुषि त्वयि रुचा तव रुद्ध-नेत्रैः । भास्वान् किम् एष दहनः नु सनत्कुमारः योगी नु कः अयम् इति शुक्र-मुखैः शशङ्के ॥ ३०।८ ॥
tām narmadā-ittara-taṭe hayamedha-śālām āseduṣi tvayi rucā tava ruddha-netraiḥ . bhāsvān kim eṣa dahanaḥ nu sanatkumāraḥ yogī nu kaḥ ayam iti śukra-mukhaiḥ śaśaṅke .. 30.8 ..
आनीतमाशु भृगुभिर्महसाभिभूतैस्त्वां रम्यरूपमसुरः पुळकावृताङ्गः । भक्त्या समेत्य सुकृती परिषिच्य पादौतत्तोयमन्वधृत मूर्धति तीर्थतीर्थम् ॥ 30.9 ॥
आनीतम् आशु भृगुभिः महसा अभिभूतैः त्वाम् रम्य-रूपम् असुरः पुळक-आवृत-अङ्गः । भक्त्या समेत्य सुकृती परिषिच्य पादौ तत् तोयम् अन्वधृत मूर्धति तीर्थ-तीर्थम् ॥ ३०।९ ॥
ānītam āśu bhṛgubhiḥ mahasā abhibhūtaiḥ tvām ramya-rūpam asuraḥ pul̤aka-āvṛta-aṅgaḥ . bhaktyā sametya sukṛtī pariṣicya pādau tat toyam anvadhṛta mūrdhati tīrtha-tīrtham .. 30.9 ..
प्रह्लादवंशजतया क्रतुभिर्द्विजेषुविश्वासतो नु तदिदं दितिजोऽपि लेभे । यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यंस त्वं विभो गुरुपुरालय पालयेथाः ॥ 30.10 ॥
प्रह्लाद-वंश-ज-तया क्रतुभिः द्विजेषु-विश्वासतः नु तत् इदम् दितिजः अपि लेभे । यत् ते पद-अम्बु गिरिशस्य त्वम् विभो गुरु-पुर-आलय पालयेथाः ॥ ३०।१० ॥
prahlāda-vaṃśa-ja-tayā kratubhiḥ dvijeṣu-viśvāsataḥ nu tat idam ditijaḥ api lebhe . yat te pada-ambu giriśasya tvam vibho guru-pura-ālaya pālayethāḥ .. 30.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In