| |
|

This overlay will guide you through the buttons:

प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत्सर्वथाऽपित्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद । मत्तः किं ते समभिलषितं विप्रसूनो वद त्वंवित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ॥ 31.1 ॥
प्रीत्या दैत्यः तव तनुम् अहर्-प्रेक्षणीत् सर्वथा अपि त्वाम् आराध्यन् अजित रचयन् अञ्जलिम् सन् जगाद । मत्तः किम् ते समभिलषितम् विप्र-सूनो वद त्वम् वित्तम् भक्तम् भवनम् अवनीम् वा अपि सर्वम् प्रदास्ये ॥ ३१।१ ॥
prītyā daityaḥ tava tanum ahar-prekṣaṇīt sarvathā api tvām ārādhyan ajita racayan añjalim san jagāda . mattaḥ kim te samabhilaṣitam vipra-sūno vada tvam vittam bhaktam bhavanam avanīm vā api sarvam pradāsye .. 31.1 ..
तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽप्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् । भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वंसर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥ 31.2 ॥
ताम् अक्षीणाम् बलि-गिरम् उपाकर्ण्य कारुण्य-पूर्णः अपि अस्य उत्सेकम् शमयितु-मनाः दैत्य-वंशम् प्रशंसन् । भूमिम् पाद-त्रय-परिमिताम् प्रार्थयामासिथ त्वम् सर्वम् देहि इति तु निगदिते कस्य हास्यम् न वा स्यात् ॥ ३१।२ ॥
tām akṣīṇām bali-giram upākarṇya kāruṇya-pūrṇaḥ api asya utsekam śamayitu-manāḥ daitya-vaṃśam praśaṃsan . bhūmim pāda-traya-parimitām prārthayāmāsitha tvam sarvam dehi iti tu nigadite kasya hāsyam na vā syāt .. 31.2 ..
विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वंसर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् । यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान्बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥ 31.3 ॥
विश्वेशम् माम् त्रिपदम् इह किम् याचसे बालिशः त्वम् सर्वाम् भूमिम् वृणु किम् अमुना इति आलपत् त्वाम् स दृप्यन् । यस्मात् दर्पात् त्रिपद-परिपूर्ति-अक्षमः क्षेप-वादान् बन्धम् च असौ अगमत् अ तद्-अर्हः अपि गाढ-उपशान्त्यै ॥ ३१।३ ॥
viśveśam mām tripadam iha kim yācase bāliśaḥ tvam sarvām bhūmim vṛṇu kim amunā iti ālapat tvām sa dṛpyan . yasmāt darpāt tripada-paripūrti-akṣamaḥ kṣepa-vādān bandham ca asau agamat a tad-arhaḥ api gāḍha-upaśāntyai .. 31.3 ..
पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्येदित्युक्तेऽस्मिन्वरद भवते दातुकामेऽथ तोयम् । दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तंमा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥ 31.4 ॥
पाद-त्रय्या यदि न मुदितः विष्टपैः ना अपि तुष्येत् इति उक्ते अस्मिन् वर-द भवते दातु-कामे अथ तोयम् । दैत्य-आचार्यः तव खलु परीक्षा-अर्थिनः प्रेरणात् तम् मा मा देयम् हरिः अयम् इति व्यक्तम् एव आबभाषे ॥ ३१।४ ॥
pāda-trayyā yadi na muditaḥ viṣṭapaiḥ nā api tuṣyet iti ukte asmin vara-da bhavate dātu-kāme atha toyam . daitya-ācāryaḥ tava khalu parīkṣā-arthinaḥ preraṇāt tam mā mā deyam hariḥ ayam iti vyaktam eva ābabhāṣe .. 31.4 ..
याचत्येवं यदि स भगवान्पूर्णकामोऽस्मि सोऽहंदास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः । विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यंचित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥ 31.5 ॥
याचति एवम् यदि स भगवान् पूर्ण-कामः अस्मि सः अहम् दास्यामि एव स्थिरम् इति वदन् काव्य-शप्तः अपि दैत्यः । विन्ध्यावल्या निज-दयितया दत्त-पाद्याय तुभ्यम् चित्रम् चित्रम् सकलम् अपि स प्रार्पयत् तोय-पूर्वम् ॥ ३१।५ ॥
yācati evam yadi sa bhagavān pūrṇa-kāmaḥ asmi saḥ aham dāsyāmi eva sthiram iti vadan kāvya-śaptaḥ api daityaḥ . vindhyāvalyā nija-dayitayā datta-pādyāya tubhyam citram citram sakalam api sa prārpayat toya-pūrvam .. 31.5 ..
निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद्व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षम् । दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजामुच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् ॥ 31.6 ॥
निस्सन्देहम् दिति-कुल-पतौ त्वयि अशेष-अर्पणम् तत् व्यातन्वाने मुमुचुः ऋषयः स अमराः पुष्प-वर्षम् । दिव्यम् रूपम् तव च तत् इदम् पश्यताम् विश्व-भाजाम् उच्चैस् उच्चैस् अवृधत् अवधीकृत्य विश्वाण्ड-भाण्डम् ॥ ३१।६ ॥
nissandeham diti-kula-patau tvayi aśeṣa-arpaṇam tat vyātanvāne mumucuḥ ṛṣayaḥ sa amarāḥ puṣpa-varṣam . divyam rūpam tava ca tat idam paśyatām viśva-bhājām uccais uccais avṛdhat avadhīkṛtya viśvāṇḍa-bhāṇḍam .. 31.6 ..
त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौकुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् । हर्षोत्कर्षात् सुबहु खेचरैरुत्सवेऽस्मिन्भेरीं निघ्नन्भुवनमचरज्जाम्बवान् भक्तिशाली ॥ 31.7 ॥
त्वद्-पाद-अग्रम् निज-पद-गतम् पुण्डरीकोद्भवः असौकुण्डी-तोयैः असिचत् अपुनात् यत् जलम् विश्व-लोकान् । हर्ष-उत्कर्षात् सु बहु खेचरैः उत्सवे अस्मिन् भेरीम् निघ्नन् भुवनम् अचरत् जाम्बवान् भक्ति-शाली ॥ ३१।७ ॥
tvad-pāda-agram nija-pada-gatam puṇḍarīkodbhavaḥ asaukuṇḍī-toyaiḥ asicat apunāt yat jalam viśva-lokān . harṣa-utkarṣāt su bahu khecaraiḥ utsave asmin bherīm nighnan bhuvanam acarat jāmbavān bhakti-śālī .. 31.7 ..
तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धादेवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् । कालात्मायं वसति पुरतो यद्वशात्प्राग्जिताः स्मःकिं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥ 31.8 ॥
तावत् दैत्याः तु अनुमतिम् ऋते भर्तुः आरब्ध-युद्धात् एव उपेतैः भवत्-अनुचरैः सङ्ग-ता भङ्गम् आपन् । काल-आत्मा अयम् वसति पुरतस् यद्-वशात् प्राक् जिताः स्मः किम् वः युद्धैः इति बलि-गिरा ते अथ पातालम् आपुः ॥ ३१।८ ॥
tāvat daityāḥ tu anumatim ṛte bhartuḥ ārabdha-yuddhāt eva upetaiḥ bhavat-anucaraiḥ saṅga-tā bhaṅgam āpan . kāla-ātmā ayam vasati puratas yad-vaśāt prāk jitāḥ smaḥ kim vaḥ yuddhaiḥ iti bali-girā te atha pātālam āpuḥ .. 31.8 ..
पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादीस्तार्त्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि । पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तंप्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥ 31.9 ॥
पाशैः बद्धम् पतग-पतिना दैत्यम् उच्चैस् अवादीः तार्त्तीयीकम् दिश मम पदम् किम् न विश्वेश्वरः असि । पादम् मूर्ध्नि प्रणय भगवन् नित्य-कम्पम् वदन्तम् प्रह्लादः तम् स्वयम् उपगतः मानयन् अस्तवीत् त्वाम् ॥ ३१।९ ॥
pāśaiḥ baddham pataga-patinā daityam uccais avādīḥ tārttīyīkam diśa mama padam kim na viśveśvaraḥ asi . pādam mūrdhni praṇaya bhagavan nitya-kampam vadantam prahlādaḥ tam svayam upagataḥ mānayan astavīt tvām .. 31.9 ..
दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यैर्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् । मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तंविप्रैस्सन्तानितमखवरः पाहि वातालयेश ॥ 31.10 ॥
दर्प-उच्छित्त्यै विहितम् अखिलम् दैत्य सिद्धः असि पुण्यैः लोकः ते अस्तु त्रिदिव-विजयी वासव-त्वम् च पश्चात् । मद्-सायुज्यम् भज च पुनर् इति अन्वगृह्णाः बलिम् तम् विप्रैः सन्तानित-मख-वरः पाहि वातालया ईश ॥ ३१।१० ॥
darpa-ucchittyai vihitam akhilam daitya siddhaḥ asi puṇyaiḥ lokaḥ te astu tridiva-vijayī vāsava-tvam ca paścāt . mad-sāyujyam bhaja ca punar iti anvagṛhṇāḥ balim tam vipraiḥ santānita-makha-varaḥ pāhi vātālayā īśa .. 31.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In