| |
|

This overlay will guide you through the buttons:

पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे । निद्रोन्मुखब्रह्ममुखात् दृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ 32.1 ॥
पुरा हयग्रीव-महा-असुरेण षष्ठ-अन्तर-अन्त-उद्यत्-अकाण्ड-कल्पे । निद्रा-उन्मुख-ब्रह्म-मुखात् दृतेषु वेदेषु अधित्सः किल मत्स्य-रूपम् ॥ ३२।१ ॥
purā hayagrīva-mahā-asureṇa ṣaṣṭha-antara-anta-udyat-akāṇḍa-kalpe . nidrā-unmukha-brahma-mukhāt dṛteṣu vedeṣu adhitsaḥ kila matsya-rūpam .. 32.1 ..
सत्यव्रतस्य द्रमिडाधिभर्तुर्नदीजले तर्पयतस्तदानीम् । कराञ्जलौ सञ्ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥ 32.2 ॥
सत्यव्रतस्य द्रमिड-अधिभर्तुः नदी-जले तर्पयतः तदानीम् । कर-अञ्जलौ सञ्ज्वलित-आकृतिः त्वम् अदृश्यथाः कश्चन बाल-मीनः ॥ ३२।२ ॥
satyavratasya dramiḍa-adhibhartuḥ nadī-jale tarpayataḥ tadānīm . kara-añjalau sañjvalita-ākṛtiḥ tvam adṛśyathāḥ kaścana bāla-mīnaḥ .. 32.2 ..
क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रेण मुनिः स्वगेहम् । स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम् ॥ 32.3 ॥
क्षिप्तम् जले त्वाम् चकितम् विलोक्य निन्ये अन्बु-पात्रेण मुनिः स्व-गेहम् । सु अल्पैः अहोभिः कलशीम् च कूपम् वापीम् सरः च अनशिषे विभो त्वम् ॥ ३२।३ ॥
kṣiptam jale tvām cakitam vilokya ninye anbu-pātreṇa muniḥ sva-geham . su alpaiḥ ahobhiḥ kalaśīm ca kūpam vāpīm saraḥ ca anaśiṣe vibho tvam .. 32.3 ..
योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् । पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्वेति वदन्नयासीः ॥ 32.4 ॥
योग-प्रभावात् भवत्-आज्ञया एव नीतः ततस् त्वम् मुनिना पयोधिम् । पृष्टः अमुना कल्प-दिदृक्षुम् एनम् सप्त-अहम् आस्व इति वदन् अयासीः ॥ ३२।४ ॥
yoga-prabhāvāt bhavat-ājñayā eva nītaḥ tatas tvam muninā payodhim . pṛṣṭaḥ amunā kalpa-didṛkṣum enam sapta-aham āsva iti vadan ayāsīḥ .. 32.4 ..
प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः । सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥ 32.5 ॥
प्राप्ते त्वद्-उक्ते अहनि वारि-धारा-परिप्लुते भूमि-तले मुनि-इन्द्रः । सप्तर्षिभिः सार्धम् अपार-वारिणि उद्घूर्णमानः शरणम् ययौ त्वाम् ॥ ३२।५ ॥
prāpte tvad-ukte ahani vāri-dhārā-pariplute bhūmi-tale muni-indraḥ . saptarṣibhiḥ sārdham apāra-vāriṇi udghūrṇamānaḥ śaraṇam yayau tvām .. 32.5 ..
धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते । तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥ 32.6 ॥
धराम् त्वद्-आदेश-करीम् अवाप्ताम् नौ-रूपिणीम् आरुरुहुः तदा ते । तद्-कम्प-कम्प्रेषु च तेषु भूयस् त्वम् अम्बुधेः आविरभूः महीयान् ॥ ३२।६ ॥
dharām tvad-ādeśa-karīm avāptām nau-rūpiṇīm āruruhuḥ tadā te . tad-kampa-kampreṣu ca teṣu bhūyas tvam ambudheḥ āvirabhūḥ mahīyān .. 32.6 ..
झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् । निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गषृङ्गे तरणिं बबन्धुः ॥ 32.7 ॥
झष-आकृतिम् योजन-लक्ष-दीर्घाम् दधानम् उच्चैस्तर-तेजसम् त्वाम् । निरीक्ष्य तुष्टाः मुनयः त्वद्-उक्त्या त्वद्-तुङ्ग-षृङ्गे तरणिम् बबन्धुः ॥ ३२।७ ॥
jhaṣa-ākṛtim yojana-lakṣa-dīrghām dadhānam uccaistara-tejasam tvām . nirīkṣya tuṣṭāḥ munayaḥ tvad-uktyā tvad-tuṅga-ṣṛṅge taraṇim babandhuḥ .. 32.7 ..
आकृष्टनौको मुनिमण्डलाय प्रदर्शयन्विश्वजगद्विभागान् । संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥ 32.8 ॥
आकृष्ट-नौकः मुनि-मण्डलाय प्रदर्शयन् विश्व-जगत्-विभागान् । संस्तूयमानः नृवरेण तेन ज्ञानम् परम् च उपदिशन् अचारीः ॥ ३२।८ ॥
ākṛṣṭa-naukaḥ muni-maṇḍalāya pradarśayan viśva-jagat-vibhāgān . saṃstūyamānaḥ nṛvareṇa tena jñānam param ca upadiśan acārīḥ .. 32.8 ..
कल्पावधौ सप्त मुनीन्पुरोवत्प्रस्ताप्य सत्यव्रतभूमिपं तम् । वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥ 32.9 ॥
कल्प-अवधौ सप्त मुनीन् पुरोवत् प्रस्ताप्य सत्यव्रत-भूमिपम् तम् । वैवस्वत-आख्यम् मनुम् आदधानः क्रोधात् हयग्रीवम् अभिद्रुतः अभूः ॥ ३२।९ ॥
kalpa-avadhau sapta munīn purovat prastāpya satyavrata-bhūmipam tam . vaivasvata-ākhyam manum ādadhānaḥ krodhāt hayagrīvam abhidrutaḥ abhūḥ .. 32.9 ..
स्वतुङ्गषृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान्गृहीत्वा । विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते प्रपायाः ॥ 32.10 ॥
स्व-तुङ्ग-षृङ्ग-क्षत-वक्षसम् तम् निपात्य दैत्यम् निगमान् गृहीत्वा । विरिञ्चये प्रीत-हृदे ददानः प्रभञ्जन-आगारपते प्रपायाः ॥ ३२।१० ॥
sva-tuṅga-ṣṛṅga-kṣata-vakṣasam tam nipātya daityam nigamān gṛhītvā . viriñcaye prīta-hṛde dadānaḥ prabhañjana-āgārapate prapāyāḥ .. 32.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In