| |
|

This overlay will guide you through the buttons:

वैवस्वताख्यमनुपुत्रनभागजातनाभागनामकनरेन्द्रसुतोऽम्बरीषुः । सप्तार्णवावृतमहीदयितोऽपि रेमेत्वत्सङ्गिषु त्वयि च मग्नमनास्सदैव ॥ 33.1 ॥
वैवस्वत-आख्य-मनु-पुत्र-नभाग-जात-नाभाग-नामक-नरेन्द्र-सुतः अम्बरीषुः । सप्त-अर्णव-आवृत-मही-दयितः अपि रेमे त्वद्-सङ्गिषु त्वयि च मग्न-मनाः सदा एव ॥ ३३।१ ॥
vaivasvata-ākhya-manu-putra-nabhāga-jāta-nābhāga-nāmaka-narendra-sutaḥ ambarīṣuḥ . sapta-arṇava-āvṛta-mahī-dayitaḥ api reme tvad-saṅgiṣu tvayi ca magna-manāḥ sadā eva .. 33.1 ..
त्वत्प्रीतयेसकलमेव वितन्वतोऽस्यभक्त्यैव देव नचिरादभृथाः प्रसादम् । येनास्य याचनमृतेऽप्यभिरक्षणार्थंचक्रं भवान्प्रविततार सहस्रधारम् ॥ 33.2 ॥
त्वद्-प्रीतये सकलम् एव वितन्वतः असि अभक्त्या एव देव नचिरात् अभृथाः प्रसादम् । येन अस्य याचनम् ऋते अपि अभिरक्षण-अर्थंचक्रम् भवान् प्रविततार सहस्रधारम् ॥ ३३।२ ॥
tvad-prītaye sakalam eva vitanvataḥ asi abhaktyā eva deva nacirāt abhṛthāḥ prasādam . yena asya yācanam ṛte api abhirakṣaṇa-arthaṃcakram bhavān pravitatāra sahasradhāram .. 33.2 ..
स द्वादशीव्रतमथो भवदर्चनार्थंवर्षं दधौ मधुवने यमुनोपकण्ठे । पत्न्या समं सुमनसा महतीं वितन्वन्पूजां द्विजेषु विसृजन्पशुषष्टिकोटिम् ॥ 33.3 ॥
स द्वादशीव्रतम् अथो भवत्-अर्चन-अर्थम् वर्षम् मधुवने यमुना-उपकण्ठे । पत्न्या समम् सुमनसा महतीम् वितन्वन् पूजाम् द्विजेषु विसृजन् पशु-षष्टि-कोटिम् ॥ ३३।३ ॥
sa dvādaśīvratam atho bhavat-arcana-artham varṣam madhuvane yamunā-upakaṇṭhe . patnyā samam sumanasā mahatīm vitanvan pūjām dvijeṣu visṛjan paśu-ṣaṣṭi-koṭim .. 33.3 ..
तत्राथ पारणदिने भवदर्चनान्तेदुर्वाससाऽस्य मुनिना भवनं प्रपेदे । भोक्तुं वृतश्च स नृपेण परार्तिशीलोमन्दं जगाम यमुनां नियमान्विधास्यन् ॥ 33.4 ॥
तत्र अथ पारण-दिने भवत्-अर्चन-अन्त-दुर्वाससा अस्य मुनिना भवनम् प्रपेदे । भोक्तुम् वृतः च स नृपेण पर-आर्ति-शीलः उमन्दम् जगाम यमुनाम् नियमान् विधास्यन् ॥ ३३।४ ॥
tatra atha pāraṇa-dine bhavat-arcana-anta-durvāsasā asya muninā bhavanam prapede . bhoktum vṛtaḥ ca sa nṛpeṇa para-ārti-śīlaḥ umandam jagāma yamunām niyamān vidhāsyan .. 33.4 ..
राज्ञाथ पारणमुह्ङ्र्तसमाप्तिखेदाद्वारैव पारणमकारि भवत्परेण । प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन्क्षिप्यन् कृधोद्धृतजटो विततान कृत्याम् ॥ 33.5 ॥
राज्ञा अथ पारण-मुह्ङ्र्त-समाप्ति-खेदा-द्वारा एव पारणम् अकारि भवत्-परेण । प्राप्तः मुनिः तत् अथ दिव्य-दृशा विजानन् क्षिप्यन् विततान कृत्याम् ॥ ३३।५ ॥
rājñā atha pāraṇa-muhṅrta-samāpti-khedā-dvārā eva pāraṇam akāri bhavat-pareṇa . prāptaḥ muniḥ tat atha divya-dṛśā vijānan kṣipyan vitatāna kṛtyām .. 33.5 ..
कृत्यां च तामसिधरां भुवनं दहन्तीमग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे । त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं तेकृत्यानलं शलभयन्मुनिमन्वधावीत् ॥ 33.6 ॥
कृत्याम् च ताम् असिधराम् भुवनम् दहन्तीम् अग्रे अभिवीक्ष्य नृपतिः न पदात् चकम्पे । त्वद्-भक्त-बाधम् अभिवीक्ष्य सुदर्शनम् शलभयन् मुनिम् अन्वधावीत् ॥ ३३।६ ॥
kṛtyām ca tām asidharām bhuvanam dahantīm agre abhivīkṣya nṛpatiḥ na padāt cakampe . tvad-bhakta-bādham abhivīkṣya sudarśanam śalabhayan munim anvadhāvīt .. 33.6 ..
धावन्नशेषभुवनेषु भिया स पश्यन्विश्वत्र चक्रमपि ते गतवान्विरिञ्चम् । कः कालचक्रमतिलङ्घयतीत्यपास्तःशर्वं ययौ स च भवन्तमवन्दतैव ॥ 33.7 ॥
धावन् अशेष-भुवनेषु भिया स पश्यन् विश्वत्र चक्रम् अपि ते गतवान् विरिञ्चम् । कः कालचक्रम् अतिलङ्घयति इति अपास्तः शर्वम् ययौ स च भवन्तम् अवन्दत एव ॥ ३३।७ ॥
dhāvan aśeṣa-bhuvaneṣu bhiyā sa paśyan viśvatra cakram api te gatavān viriñcam . kaḥ kālacakram atilaṅghayati iti apāstaḥ śarvam yayau sa ca bhavantam avandata eva .. 33.7 ..
भूयो भवन्निलयमेत्य मुनिं नमन्तंप्रोचे भवानहमृषे ननु भक्तदासः । ज्ञानं तपश्च विनयान्वितमेव मान्यंयाह्यम्बरीषपदमेव भजेति भूमन् ॥ 33.8 ॥
भूयस् भवत्-निलयम् एत्य मुनिम् नमन्तम् प्रोचे भवान् अहम् ऋषे ननु भक्त-दासः । ज्ञानम् तपः च विनय-अन्वितम् एव मान्यम् याहि अम्बरीष-पदम् एव भज इति भूमन् ॥ ३३।८ ॥
bhūyas bhavat-nilayam etya munim namantam proce bhavān aham ṛṣe nanu bhakta-dāsaḥ . jñānam tapaḥ ca vinaya-anvitam eva mānyam yāhi ambarīṣa-padam eva bhaja iti bhūman .. 33.8 ..
तावत्समेत्य मुनिना स गृहीतपादोराजाऽपसृत्य भवदस्त्रमसावनौषीत् । चक्रे गते मुनिरदादखिलाशिषोऽस्मैत्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥ 33.9 ॥
तावत् समेत्य मुनिना स गृहीत-पादः राजा अपसृत्य भवत्-अस्त्रम् असौ अनौषीत् । चक्रे गते मुनिः अदात् अखिल-आशिषः अस्मै त्वद्-भक्तिम् आगसि कृते अपि कृपाम् च शंसन् ॥ ३३।९ ॥
tāvat sametya muninā sa gṛhīta-pādaḥ rājā apasṛtya bhavat-astram asau anauṣīt . cakre gate muniḥ adāt akhila-āśiṣaḥ asmai tvad-bhaktim āgasi kṛte api kṛpām ca śaṃsan .. 33.9 ..
राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान्सम्भोज्य साधु तमृषिं विसृजन्प्रसन्नम् । भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत्सायुज्यमाप च स मां पवनेश पायाः ॥ 33.10 ॥
राजा प्रतीक्ष्य मुनिम् एक-समाम् अनाश्वान् सम्भोज्य साधु तम् ऋषिम् विसृजन् प्रसन्नम् । भुक्त्वा स्वयम् त्वयि ततस् अपि दृढम् रतः अभूत् सायुज्यम् आप च स माम् पवनेश पायाः ॥ ३३।१० ॥
rājā pratīkṣya munim eka-samām anāśvān sambhojya sādhu tam ṛṣim visṛjan prasannam . bhuktvā svayam tvayi tatas api dṛḍham rataḥ abhūt sāyujyam āpa ca sa mām pavaneśa pāyāḥ .. 33.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In