| |
|

This overlay will guide you through the buttons:

गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेऽष्वृश्यषृङ्गेपुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् । तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातोरामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥ 34.1 ॥
गीर्वाणैः अर्थ्यमानः दशमुख-निधनम् कोसले अष्वृशि-अषृङ्गे-पुत्रीयाम् इष्टिम् इष्ट्वा ददुषि दशरथ-क्ष्माभृते पायस-अग्र्यम् । तद्-भुक्त्या तद्-पुरन्ध्रीषु अपि तिसृषु समम् जात-गर्भासु जात-उरामः त्वम् लक्ष्मणेन स्वयम् अथ भरतेन अपि शत्रुघ्न-नाम्ना ॥ ३४।१ ॥
gīrvāṇaiḥ arthyamānaḥ daśamukha-nidhanam kosale aṣvṛśi-aṣṛṅge-putrīyām iṣṭim iṣṭvā daduṣi daśaratha-kṣmābhṛte pāyasa-agryam . tad-bhuktyā tad-purandhrīṣu api tisṛṣu samam jāta-garbhāsu jāta-urāmaḥ tvam lakṣmaṇena svayam atha bharatena api śatrughna-nāmnā .. 34.1 ..
कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातोयातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः । नॄणां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वालब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव सिद्धाश्रमाख्यम् ॥ 34.2 ॥
कोदण्डी कौशिकस्य क्रतु-वरम् अवितुम् लक्ष्मणेन अनुयातः यातः अभूः तात-वाचा मुनि-कथित-मनु-द्वन्द्व-शान्त-अध्व-खेदः । नॄणाम् त्राणाय बाणैः मुनि-वचन-बलात् ताटकाम् पाटयित्वा अ लब्ध्वा अस्मात् अस्त्र-जालम् मुनि-वनम् अगमः देव सिद्धाश्रम-आख्यम् ॥ ३४।२ ॥
kodaṇḍī kauśikasya kratu-varam avitum lakṣmaṇena anuyātaḥ yātaḥ abhūḥ tāta-vācā muni-kathita-manu-dvandva-śānta-adhva-khedaḥ . nṝṇām trāṇāya bāṇaiḥ muni-vacana-balāt tāṭakām pāṭayitvā a labdhvā asmāt astra-jālam muni-vanam agamaḥ deva siddhāśrama-ākhyam .. 34.2 ..
मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन्कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् । भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वाराज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ॥ 34.3 ॥
मारीचम् द्रावयित्वा मख-शिरसि शरैः अन्य-रक्षांसि निघ्नन् कल्याम् कुर्वन् अहल्याम् पथि पद-रजसा प्राप्य वैदेह-गेहम् । भिन्दानः चान्द्रचूडम् धनुः-अवनि-सुताम् इन्दिराम् एव लब्ध्वा राज्यम् प्रातिष्ठथाः त्वम् त्रिभिः अपि च समम् भ्रातृ-वीरैः स दारैः ॥ ३४।३ ॥
mārīcam drāvayitvā makha-śirasi śaraiḥ anya-rakṣāṃsi nighnan kalyām kurvan ahalyām pathi pada-rajasā prāpya vaideha-geham . bhindānaḥ cāndracūḍam dhanuḥ-avani-sutām indirām eva labdhvā rājyam prātiṣṭhathāḥ tvam tribhiḥ api ca samam bhrātṛ-vīraiḥ sa dāraiḥ .. 34.3 ..
आरुन्धाने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजोयाते यातोऽस्ययोध्यां सुखमिह निवसन्कान्तया कान्तमूर्ते । शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासंतातारब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥ 34.4 ॥
आरुन्धाने रुषा अन्धे भृगु-कुल-तिलके संक्रमय्य स्व-तेजः-याते यातः असि अयोध्याम् सुखम् इह निवसन् कान्तया कान्त-मूर्ते । शत्रुघ्नेन एकदा अथो गतवति भरते मातुलस्य अधिवासम् तात आरब्धः अभिषेकः तव किल विहतः केकय-अधीश-पुत्र्या ॥ ३४।४ ॥
ārundhāne ruṣā andhe bhṛgu-kula-tilake saṃkramayya sva-tejaḥ-yāte yātaḥ asi ayodhyām sukham iha nivasan kāntayā kānta-mūrte . śatrughnena ekadā atho gatavati bharate mātulasya adhivāsam tāta ārabdhaḥ abhiṣekaḥ tava kila vihataḥ kekaya-adhīśa-putryā .. 34.4 ..
तातोक्त्या यातुकामो वनमनुजवधूसंयुतश्चापधारःपौरानारूध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी । नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारान्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥ 34.5 ॥
तात-उक्त्या यातु-कामः वन-मनुज-वधू-संयुतः चाप-धारः पौरान् आरूध्य मार्गे गुह-निलय-गतः त्वम् जटा-चीर-धारी । नावा सन्तीर्य गङ्गाम् अधिपदवि पुनर् तम् भरद्वाज-मारान् नत्वा तद्-वाक्य-हेतोः अति सुखम् अवसः चित्रकूटे गिरि-इन्द्रे ॥ ३४।५ ॥
tāta-uktyā yātu-kāmaḥ vana-manuja-vadhū-saṃyutaḥ cāpa-dhāraḥ paurān ārūdhya mārge guha-nilaya-gataḥ tvam jaṭā-cīra-dhārī . nāvā santīrya gaṅgām adhipadavi punar tam bharadvāja-mārān natvā tad-vākya-hetoḥ ati sukham avasaḥ citrakūṭe giri-indre .. 34.5 ..
श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्गयातं स्वतातंतप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च । अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायंहत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः शारभङ्गीम् ॥ 34.6 ॥
श्रुत्वा पुत्र-आर्ति-खिन्नम् खलु भरत-मुखात् स्वर्ग-यातम् दत्त्वा अम्बु तस्मै निदधिथ भरते पादुकाम् मेदिनीम् च । अत्रिम् नत्वा अथ गत्वा वनम् अति विपुलाम् दण्डकाम् चण्डकायम् हत्वा दैत्यम् विराधम् सुगतिम् अकलयः चारु भोः शारभङ्गीम् ॥ ३४।६ ॥
śrutvā putra-ārti-khinnam khalu bharata-mukhāt svarga-yātam dattvā ambu tasmai nidadhitha bharate pādukām medinīm ca . atrim natvā atha gatvā vanam ati vipulām daṇḍakām caṇḍakāyam hatvā daityam virādham sugatim akalayaḥ cāru bhoḥ śārabhaṅgīm .. 34.6 ..
नत्वाऽगस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यःप्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे । ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं दीक्ष्य जटायुंमोदाद्गोदातटान्ते परिरमसि पुरा पञ्चवट्यां वधूट्या ॥ 34.7 ॥
नत्वा अगस्त्यम् समस्त-अशर-निकर-सपत्र-आकृतिम् तापसेभ्यः प्रत्यश्रौषीः प्रिय-एषी तदनु च मुनिना वैष्णवे दिव्य-चापे । ब्रह्मास्त्रे च अपि दत्ते पथि पितृ-सुहृदम् दीक्ष्य जटायुं-मोदात् गोदा-तट-अन्ते परिरमसि पुरा पञ्चवट्याम् वधूट्या ॥ ३४।७ ॥
natvā agastyam samasta-aśara-nikara-sapatra-ākṛtim tāpasebhyaḥ pratyaśrauṣīḥ priya-eṣī tadanu ca muninā vaiṣṇave divya-cāpe . brahmāstre ca api datte pathi pitṛ-suhṛdam dīkṣya jaṭāyuṃ-modāt godā-taṭa-ante pariramasi purā pañcavaṭyām vadhūṭyā .. 34.7 ..
प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मातां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लुननासाम् । दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दुषणं च त्रिमूर्धंव्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥ 34.8 ॥
प्राप्तायाः शूर्पणख्याः मदन-चल-धृतेः अर्थनैः निस्सह-आत्मा-ताम् सौमित्रौ विसृज्य प्रबलतम-अरुषा तेन निर्लुन-नासाम् । दृष्ट्वा एनाम् रुष्ट-चित्तम् खरम् अभिपतितम् दुषणम् च त्रिमूर्धम् व्याहिंसीर अ शरान् अपि अयुत-समधिकान् तद्-क्षणात् अक्षत-ऊष्मा ॥ ३४।८ ॥
prāptāyāḥ śūrpaṇakhyāḥ madana-cala-dhṛteḥ arthanaiḥ nissaha-ātmā-tām saumitrau visṛjya prabalatama-aruṣā tena nirluna-nāsām . dṛṣṭvā enām ruṣṭa-cittam kharam abhipatitam duṣaṇam ca trimūrdham vyāhiṃsīra a śarān api ayuta-samadhikān tad-kṣaṇāt akṣata-ūṣmā .. 34.8 ..
सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमायासारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् । तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत्तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायायलाभात् ॥ 34.9 ॥
सोदर्य-अ प्रोक्त-वार्ता-विवश-दशमुख-आदिष्ट-मारीच-माया-सारङ्गम् सार-साक्ष्या स्पृहितम् अनुगतः प्रावधीः बाण-घातम् । तद्-माया-आक्रन्द-निर्यापित-भवत्-अनुजाम् रावणः ताम् अहार्षीत् तेन आर्तः अपि त्वम् अन्तर् किम् अपि मुदम् अधाः तद्-वध-उपायाय-लाभात् ॥ ३४।९ ॥
sodarya-a prokta-vārtā-vivaśa-daśamukha-ādiṣṭa-mārīca-māyā-sāraṅgam sāra-sākṣyā spṛhitam anugataḥ prāvadhīḥ bāṇa-ghātam . tad-māyā-ākranda-niryāpita-bhavat-anujām rāvaṇaḥ tām ahārṣīt tena ārtaḥ api tvam antar kim api mudam adhāḥ tad-vadha-upāyāya-lābhāt .. 34.9 ..
भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेनेत्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् । गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वंसम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश ॥ 34.10 ॥
भूयस् तन्वीम् विचिन्वन् अहृत दशमुखः त्वद्-वधूम् मद्-वधेन इति उक्त्वा याते जटायौ दिवम् अथ सुहृदः प्रातनोः प्रेतकार्यम् । गृह्णानम् तम् कबन्धम् शबरीम् प्रेक्ष्य पम्पा-तटे त्वम् सम्प्राप्तः वातसूनुम् भृशम् उदित-मनाः पाहि वातालय-ईश ॥ ३४।१० ॥
bhūyas tanvīm vicinvan ahṛta daśamukhaḥ tvad-vadhūm mad-vadhena iti uktvā yāte jaṭāyau divam atha suhṛdaḥ prātanoḥ pretakāryam . gṛhṇānam tam kabandham śabarīm prekṣya pampā-taṭe tvam samprāptaḥ vātasūnum bhṛśam udita-manāḥ pāhi vātālaya-īśa .. 34.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In