| |
|

This overlay will guide you through the buttons:

नीतस्सुग्रीवमैत्रीं तदनु दुन्दुभेः कायमुच्चैःक्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत्पत्रिणा सप्त सालान् । हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्यावर्षावेलामनैषीर्विरहतरळितस्त्वं मतङ्गाश्रमान्ते ॥ 35.1 ॥
नीतः सुग्रीव-मैत्रीम् तदनु दुन्दुभेः कायम् उच्चैस् क्षिप्त्वा अङ्गुष्ठेन भूयस् लुलविथ युगपद् पत्रिणा सप्त सालान् । हत्वा सुग्रीव-घात-उद्यतम् अतुल-बलम् वालिनम् व्याज-वृत्त्या वर्षा-वेलाम् अनैषीः विरह-तरळितः त्वम् मतङ्ग-आश्रम-अन्ते ॥ ३५।१ ॥
nītaḥ sugrīva-maitrīm tadanu dundubheḥ kāyam uccais kṣiptvā aṅguṣṭhena bhūyas lulavitha yugapad patriṇā sapta sālān . hatvā sugrīva-ghāta-udyatam atula-balam vālinam vyāja-vṛttyā varṣā-velām anaiṣīḥ viraha-taral̤itaḥ tvam mataṅga-āśrama-ante .. 35.1 ..
सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं तामृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् । सन्देशं चान्गुलीयं पवनसुतकरे प्रादिशो मोदशालीमार्गे मार्गे ममार्गे कपिभिरपि तदी त्वत्प्रिया सप्रयासैः ॥ 35.2 ॥
सुग्रीवेण अनुज-उक्त्या स भयम् अभियता व्यूहिताम् वाहिनीम् ताम् ऋक्षाणाम् वीक्ष्य दिक्षु द्रुतम् अथ दयिता-मार्गणाय अवनम्राम् । सन्देशम् च अन्गुलीयम् पवनसुत-करे प्रादिशः मोद-शाली-मार्गे मार्गे ममार्गे कपिभिः अपि तदी त्वद्-प्रिया स प्रयासैः ॥ ३५।२ ॥
sugrīveṇa anuja-uktyā sa bhayam abhiyatā vyūhitām vāhinīm tām ṛkṣāṇām vīkṣya dikṣu drutam atha dayitā-mārgaṇāya avanamrām . sandeśam ca angulīyam pavanasuta-kare prādiśaḥ moda-śālī-mārge mārge mamārge kapibhiḥ api tadī tvad-priyā sa prayāsaiḥ .. 35.2 ..
त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्यप्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाऽङ्गुलीयम् । प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यंदृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान्मौलिरत्नं ददौ ते ॥ 35.3 ॥
त्वद्-वार्त्ता-आकर्णन-उद्यत्-गरुत्-उरु-जव-सम्पाति-सम्पाति-वाक्य-प्रोत्तीर्ण-अर्णः-धिः अन्तर् नगरि जनकजाम् वीक्ष्य दत्त्वा अङ्गुलीयम् । प्रक्षुद्य उद्यानम् अक्ष-क्षपण-चण-रणः सोढ-बन्धो दशास्यम् दृष्ट्वा प्लुष्ट्वा च लङ्काम् झटिति स हनुमान् मौलि-रत्नम् ददौ ते ॥ ३५।३ ॥
tvad-vārttā-ākarṇana-udyat-garut-uru-java-sampāti-sampāti-vākya-prottīrṇa-arṇaḥ-dhiḥ antar nagari janakajām vīkṣya dattvā aṅgulīyam . prakṣudya udyānam akṣa-kṣapaṇa-caṇa-raṇaḥ soḍha-bandho daśāsyam dṛṣṭvā pluṣṭvā ca laṅkām jhaṭiti sa hanumān mauli-ratnam dadau te .. 35.3 ..
त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमीचक्रोऽभिक्रम्य पारेजलधि निशिचरेन्द्रानुजाश्रीयमाणः । तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन्प्रार्थनापार्थ्यरोषप्रास्ताग्नेयास्त्रतेजस्त्रसदुदधिगिरा लब्धवान्मध्यमार्गम् ॥ 35.4 ॥
त्वम् सुग्रीव-अङ्गद-आदि-प्रबल-कपि-चमू-चक्र-विक्रान्त-भूमी-चक्रः अभिक्रम्य पारे जलधि निशिचर-इन्द्रानुज-आश्रीयमाणः । तद्-प्रोक्ताम् शत्रु-वार्ताम् रहसि निशमयन् प्रार्थना-अपार्थ्य-रोष-प्रास्त-आग्नेय-अस्त्र-तेजः-त्रसत्-उदधि-गिरा लब्धवान् मध्य-मार्गम् ॥ ३५।४ ॥
tvam sugrīva-aṅgada-ādi-prabala-kapi-camū-cakra-vikrānta-bhūmī-cakraḥ abhikramya pāre jaladhi niśicara-indrānuja-āśrīyamāṇaḥ . tad-proktām śatru-vārtām rahasi niśamayan prārthanā-apārthya-roṣa-prāsta-āgneya-astra-tejaḥ-trasat-udadhi-girā labdhavān madhya-mārgam .. 35.4 ..
कीशैराशान्तरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातोयातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः । व्याकुर्वन्सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रावेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥ 35.5 ॥
कीशैः आशा-अन्तर-उपाहृत-गिरि-निकरैः सेतुम् आधाप्य यातोयातूनि आमर्द्य दंष्ट्रा-नख-शिखरि-शिला-साल-शस्त्रैः स्व-सैन्यैः । व्याकुर्वन् स अनुजः त्वम् समर-भुवि परम् विक्रमम् शक्र-जेतृ-आवेगात् नाग-अस्त्र-बद्धः पतग-पति-गरुत्-मारुतैः मोचितः अभूः ॥ ३५।५ ॥
kīśaiḥ āśā-antara-upāhṛta-giri-nikaraiḥ setum ādhāpya yātoyātūni āmardya daṃṣṭrā-nakha-śikhari-śilā-sāla-śastraiḥ sva-sainyaiḥ . vyākurvan sa anujaḥ tvam samara-bhuvi param vikramam śakra-jetṛ-āvegāt nāga-astra-baddhaḥ pataga-pati-garut-mārutaiḥ mocitaḥ abhūḥ .. 35.5 ..
सौमित्रिस्त्वत्र शक्तिप्रहृतिगळदसुर्वातजानीतशैलघ्राणात्प्रणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् । मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णंसम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥ 35.6 ॥
सौमित्रिः तु अत्र शक्ति-प्रहृति-गळत्-असुः वात-जानीत-शैल-घ्राणात् प्रणान्-उपेतः व्यकृणुत कुसृति-श्लाघिनम् मेघनादम् । माया-क्षोभेषु वैभीषण-वचन-हृत-स्तम्भनः कुम्भकर्णम् सम्प्राप्तम् कम्पित-उर्वी-तलम् अखिल-चमू-भक्षिणम् ॥ ३५।६ ॥
saumitriḥ tu atra śakti-prahṛti-gal̤at-asuḥ vāta-jānīta-śaila-ghrāṇāt praṇān-upetaḥ vyakṛṇuta kusṛti-ślāghinam meghanādam . māyā-kṣobheṣu vaibhīṣaṇa-vacana-hṛta-stambhanaḥ kumbhakarṇam samprāptam kampita-urvī-talam akhila-camū-bhakṣiṇam .. 35.6 ..
गृह्णन् जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन्ब्रह्मास्त्रेणास्य भिन्दन् गळततिमबलामग्निशुद्धां प्रगृह्णन् । देव श्रेणीवरोज्जीवितसमरमृतैरक्षतैरृक्षसङ्घैर्लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥ 35.7 ॥
गृह्णन् जम्भारि-सम्प्रेषित-रथ-कवचौ रावणेन अभियुध्यन् ब्रह्मास्त्रेण अस्य भिन्दन् गळ-ततिम् अबलाम् अग्नि-शुद्धाम् प्रगृह्णन् । देव श्रेणी-वर-उज्जीवित-समर-मृतैः अक्षतैः ऋक्ष-सङ्घैः लङ्का-भर्त्रा च साकम् निज-नगरम् अगाः स प्रियः पुष्पकेण ॥ ३५।७ ॥
gṛhṇan jambhāri-sampreṣita-ratha-kavacau rāvaṇena abhiyudhyan brahmāstreṇa asya bhindan gal̤a-tatim abalām agni-śuddhām pragṛhṇan . deva śreṇī-vara-ujjīvita-samara-mṛtaiḥ akṣataiḥ ṛkṣa-saṅghaiḥ laṅkā-bhartrā ca sākam nija-nagaram agāḥ sa priyaḥ puṣpakeṇa .. 35.7 ..
प्रीतो दिव्याभिषेकैरयुतसमधिकान्वत्सरान्पर्यरंसीर्मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः । शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशंतावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥ 35.8 ॥
प्रीतः दिव्य-अभिषेकैः अयुत-समधिकान् वत्सरान् पर्यरंसीः मैथिल्याम् पाप-वाचा शिव शिव किल ताम् गर्भिणीम् अभ्यहासीः । शत्रुघ्नेन अर्दयित्वा लवण-निशिचरम् प्रार्दयः शूद्र-पाशंता तावत् वाल्मीकि-गेहे कृत-वसतिः उपासूत सीता सुतौ ते ॥ ३५।८ ॥
prītaḥ divya-abhiṣekaiḥ ayuta-samadhikān vatsarān paryaraṃsīḥ maithilyām pāpa-vācā śiva śiva kila tām garbhiṇīm abhyahāsīḥ . śatrughnena ardayitvā lavaṇa-niśicaram prārdayaḥ śūdra-pāśaṃtā tāvat vālmīki-gehe kṛta-vasatiḥ upāsūta sītā sutau te .. 35.8 ..
वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटेसीतां त्वय्याप्तुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः । हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैःसाकं नाकं प्रयातो निजपदमगमो देव वैकुण्ठमाद्यम् ॥ 35.9 ॥
वाल्मीकेः त्वद्-सुत-उद्गापित-मधुर-कृतेः आज्ञया यज्ञ-वाटे सीताम् त्वयि आप्तु-कामे क्षितिम् अविशत् असौ त्वम् च काल-अर्थितः अभूः । हेतोः सौमित्रि-घाती स्वयम् अथ सरयू-मग्न-निश्शेष-भृत्यैः साकम् नाकम् प्रयातः निज-पदम् अगमः देव वैकुण्ठम् आद्यम् ॥ ३५।९ ॥
vālmīkeḥ tvad-suta-udgāpita-madhura-kṛteḥ ājñayā yajña-vāṭe sītām tvayi āptu-kāme kṣitim aviśat asau tvam ca kāla-arthitaḥ abhūḥ . hetoḥ saumitri-ghātī svayam atha sarayū-magna-niśśeṣa-bhṛtyaiḥ sākam nākam prayātaḥ nija-padam agamaḥ deva vaikuṇṭham ādyam .. 35.9 ..
सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवंविश्लेषार्तिर्निरागस्त्यजनमपि भवेत्कामधर्मातिसक्त्या । नो चेत्स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणेस त्वं सत्त्वैकमूर्ते पवनपुरपते व्याधुनु व्याधितापान् ॥ 35.10 ॥
सः अयम् मर्त्य-अवतारः तव खलु नियतम् मर्त्य-शिक्षा-अर्थम् एवम् विश्लेष-आर्तिः निरागस्त्य-जनम् अपि भवेत् काम-धर्म-अतिसक्त्या । नो चेद् स्व-आत्म-अनुभूतेः क्वनु तव मनसः विक्रिया चक्रपाणे स त्वम् सत्त्व-एक-मूर्ते पवनपुर-पते व्याधुनु व्याधि-तापान् ॥ ३५।१० ॥
saḥ ayam martya-avatāraḥ tava khalu niyatam martya-śikṣā-artham evam viśleṣa-ārtiḥ nirāgastya-janam api bhavet kāma-dharma-atisaktyā . no ced sva-ātma-anubhūteḥ kvanu tava manasaḥ vikriyā cakrapāṇe sa tvam sattva-eka-mūrte pavanapura-pate vyādhunu vyādhi-tāpān .. 35.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In