| |
|

This overlay will guide you through the buttons:

अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधोजातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन्कान्तया । दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरानष्टैश्वर्यमुखान्प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥ 36.1 ॥
अत्रेः पुत्र-तया पुरा त्वम् अनसूयायाम् हि दत्त-अभिधः जातः शिष्य-अ निषन्ध-तन्द्रित-मनाः स्वस्थः चरन् कान्तया । दृष्टः भक्ततमेन हेहय-महीपालेन तस्मै वरान् अष्ट-ऐश्वर्य-मुखान् प्रदाय ददिथ स्वेन एव च अन्ते वधम् ॥ ३६।१ ॥
atreḥ putra-tayā purā tvam anasūyāyām hi datta-abhidhaḥ jātaḥ śiṣya-a niṣandha-tandrita-manāḥ svasthaḥ caran kāntayā . dṛṣṭaḥ bhaktatamena hehaya-mahīpālena tasmai varān aṣṭa-aiśvarya-mukhān pradāya daditha svena eva ca ante vadham .. 36.1 ..
सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतंब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् । सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरेरामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥ 36.2 ॥
सत्यम् कर्तुम् अथ अर्जुनस्य च वरम् तद्-शक्ति-मात्र-आनतम् ब्रह्म-द्वेषि तदा अखिलम् नृप-कुलम् हन्तुम् च भूमेः भरम् । सञ्जातः जमदग्नितः भृगु-कुले त्वम् रेणुकायाम् हरेः आमः नाम तद्-आत्मजेषु अवरजः पित्रोः अधाः सम्मदम् ॥ ३६।२ ॥
satyam kartum atha arjunasya ca varam tad-śakti-mātra-ānatam brahma-dveṣi tadā akhilam nṛpa-kulam hantum ca bhūmeḥ bharam . sañjātaḥ jamadagnitaḥ bhṛgu-kule tvam reṇukāyām hareḥ āmaḥ nāma tad-ātmajeṣu avarajaḥ pitroḥ adhāḥ sammadam .. 36.2 ..
लब्धाम्नायगणश्चतुर्दशवयाः गन्धर्वराजे मनागासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया । ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात्पितुस्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरन् ॥ 36.3 ॥
लब्ध-आम्नाय-गणः चतुर्दश-वयाः गन्धर्व-राजे मनाक् आसक्ताम् किल मातरम् प्रति पितुः क्रोध-आकुलस्य आज्ञया । तात-अ ज्ञाति-ग-सोदरैः समम् इमाम् छित्वा अथ शान्तात् पितुः तेषाम् जीवन-योगम् आपिथ वरम् माता च ते अदात् वरन् ॥ ३६।३ ॥
labdha-āmnāya-gaṇaḥ caturdaśa-vayāḥ gandharva-rāje manāk āsaktām kila mātaram prati pituḥ krodha-ākulasya ājñayā . tāta-a jñāti-ga-sodaraiḥ samam imām chitvā atha śāntāt pituḥ teṣām jīvana-yogam āpitha varam mātā ca te adāt varan .. 36.3 ..
पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् । लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकंप्राप्तो मित्रमथाकृतवृअणमुनिं प्राप्यागमः स्वाश्रमम् ॥ 36.4 ॥
पित्रा मातृ-मुदे स्तव-आहृत-वियत्-धेनोः निजात् आश्रमात् प्रस्थाय अथ भृगोः गिरा हिमगिरौ आराध्य गौरीपतिम् । लब्ध्वा तद्-परशुम् तद्-उक्त-दनुज-छेदी महा-अस्त्र-आदिकम् प्राप्तः मित्रम् अथ अ कृत-वृअण-मुनिम् प्राप्य अगमः स्व-आश्रमम् ॥ ३६।४ ॥
pitrā mātṛ-mude stava-āhṛta-viyat-dhenoḥ nijāt āśramāt prasthāya atha bhṛgoḥ girā himagirau ārādhya gaurīpatim . labdhvā tad-paraśum tad-ukta-danuja-chedī mahā-astra-ādikam prāptaḥ mitram atha a kṛta-vṛaṇa-munim prāpya agamaḥ sva-āśramam .. 36.4 ..
आखेटेपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणैस्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः । गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनिप्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ॥ 36.5 ॥
आखेटेप-गतः अर्जुनः सुर-गवी-सम्प्राप्त-सम्पद्-गणैः त्वद्-पित्रा परिपूजितः पुर-गतः दुर्मन्त्रि-वाचा पुनर् । गाम् क्रेतुम् सचिवम् न्ययुङ्क्त कुधिया तेन अपि रुन्धत्-मुनि-प्राणक्षेप-स रोष-गो-हत-चमू-चक्रेण वत्सः हृतः ॥ ३६।५ ॥
ākheṭepa-gataḥ arjunaḥ sura-gavī-samprāpta-sampad-gaṇaiḥ tvad-pitrā paripūjitaḥ pura-gataḥ durmantri-vācā punar . gām kretum sacivam nyayuṅkta kudhiyā tena api rundhat-muni-prāṇakṣepa-sa roṣa-go-hata-camū-cakreṇa vatsaḥ hṛtaḥ .. 36.5 ..
शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समंबिभ्रुद्ध्यातमहोदरोपनिहितं चापं कुठारं शरन् । आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन्वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरम् ॥ 36.6 ॥
शुक्र-उज्जीवित-तात-वाक्य-चलित-क्रोधः अथ सख्या चापम् कुठारम् शरन् । आरूढः सह वाह-यन्तृक-रथम् माहिष्मतीम् आविशन् वाग्भिः वत्स-मद-आशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरम् ॥ ३६।६ ॥
śukra-ujjīvita-tāta-vākya-calita-krodhaḥ atha sakhyā cāpam kuṭhāram śaran . ārūḍhaḥ saha vāha-yantṛka-ratham māhiṣmatīm āviśan vāgbhiḥ vatsa-mada-āśuṣi kṣitipatau samprāstuthāḥ saṅgaram .. 36.6 ..
पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महासेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः । सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करोभीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः ॥ 36.7 ॥
पुत्राणाम् अयुतेन सप्तदशभिः च अक्षौहिणीभिः महा-सेना-नीभिः अनेक-मित्र-निवहिः व्याजृम्भिती-योधनः । सद्यस् त्वद्-क-कुठार-बाण-विदलत्-निश्शेष-सैन्य-उत्करः भीति-प्रद्रुत-नष्ट-शिष्ट-नयः त्वाम् आपतत्-हेहयः ॥ ३६।७ ॥
putrāṇām ayutena saptadaśabhiḥ ca akṣauhiṇībhiḥ mahā-senā-nībhiḥ aneka-mitra-nivahiḥ vyājṛmbhitī-yodhanaḥ . sadyas tvad-ka-kuṭhāra-bāṇa-vidalat-niśśeṣa-sainya-utkaraḥ bhīti-pradruta-naṣṭa-śiṣṭa-nayaḥ tvām āpatat-hehayaḥ .. 36.7 ..
लीलावारितनर्मदाजलवलल्लङ्केशगर्वापहश्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् । चक्रे त्वय्यथ वैष्णवेऽपि विकले बुध्वा हरिं त्वां मुदाध्यायन्तं छितस्र्वदोषमवधीः सोऽगात्परं ते पदम् ॥ 36.8 ॥
लीला-वारित-नर्मदा-जल-वलत्-लङ्केश-गर्व-अपह-श्रीमत्-बाहु-सहस्र-मुक्त-बहु-शस्त्र-अस्त्रम् निरुन्धन् अमुम् । चक्रे त्वयि अथ वैष्णवे अपि विकले बुध्वा हरिम् त्वाम् मुदा अध्यायन्तम् शित-स्र्व-दोषम् अवधीः सः अगात् परम् ते पदम् ॥ ३६।८ ॥
līlā-vārita-narmadā-jala-valat-laṅkeśa-garva-apaha-śrīmat-bāhu-sahasra-mukta-bahu-śastra-astram nirundhan amum . cakre tvayi atha vaiṣṇave api vikale budhvā harim tvām mudā adhyāyantam śita-srva-doṣam avadhīḥ saḥ agāt param te padam .. 36.8 ..
भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुकामाघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् । ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान्दिक्चक्रेषु कुठारयन्विशिखयन् निःक्षात्रियां मेदिनीम् ॥ 36.9 ॥
भूयस् अमर्षित-हेहय-आत्मज-गणैः ताते हते रेणु-काम-अघ्नानाम् हृदयम् निरीक्ष्य बहुशस् घोराम् प्रतिज्ञाम् वहन् । ध्यान-आनीत-रथ-आयुधः त्वम् अकृथाः विप्र-द्रुहः क्षत्रियान् दिश्-चक्रेषु कुठारयन् विशिखयन् निःक्षात्रियाम् मेदिनीम् ॥ ३६।९ ॥
bhūyas amarṣita-hehaya-ātmaja-gaṇaiḥ tāte hate reṇu-kāma-aghnānām hṛdayam nirīkṣya bahuśas ghorām pratijñām vahan . dhyāna-ānīta-ratha-āyudhaḥ tvam akṛthāḥ vipra-druhaḥ kṣatriyān diś-cakreṣu kuṭhārayan viśikhayan niḥkṣātriyām medinīm .. 36.9 ..
तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन्सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पितॄन् । यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनःकृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् ॥ 36.10 ॥
तात-उज्जीवन-कृत् नृपालक-कुलम् त्रिस् सप्त-कृत्वस् जयन् सन्तर्प्य अथ समन्तपञ्चक-महा-रक्त-हृद्-औधे पितॄन् । यज्ञे क्ष्माम् अपि काश्यप-आदिषु दिशन् साल्वेन युध्यन् पुनर् कृष्णः अमुम् निहनिष्यति इति शमितः युद्धात् कुमारैः भवान् ॥ ३६।१० ॥
tāta-ujjīvana-kṛt nṛpālaka-kulam tris sapta-kṛtvas jayan santarpya atha samantapañcaka-mahā-rakta-hṛd-audhe pitṝn . yajñe kṣmām api kāśyapa-ādiṣu diśan sālvena yudhyan punar kṛṣṇaḥ amum nihaniṣyati iti śamitaḥ yuddhāt kumāraiḥ bhavān .. 36.10 ..
न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन्पुनर्मज्जितांगोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः । ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं सृवक्षेपणादुत्सार्योद्धृतकेरळो भृगुपते वातेश संरक्ष माम् ॥ 36.11 ॥
न्यस्य अस्त्राणि महा-इन्द्र-भूभृति तपः तन्वन् पुनर् मज्जित-अंगोकर्ण-अवधि सागरेण धरणीम् दृष्ट्वा अर्थितः तापसैः । ध्यात-इष्वास-घृत-अनल-अस्त्र-चकितम् सिन्धुम् सृव-क्षेपणात् उत्सार्य उद्धृत-केरळः भृगु-पते वातेश संरक्ष माम् ॥ ३६।११ ॥
nyasya astrāṇi mahā-indra-bhūbhṛti tapaḥ tanvan punar majjita-aṃgokarṇa-avadhi sāgareṇa dharaṇīm dṛṣṭvā arthitaḥ tāpasaiḥ . dhyāta-iṣvāsa-ghṛta-anala-astra-cakitam sindhum sṛva-kṣepaṇāt utsārya uddhṛta-keral̤aḥ bhṛgu-pate vāteśa saṃrakṣa mām .. 36.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In