| |
|

This overlay will guide you through the buttons:

सान्द्राननन्दतनो हरे ननु पुरा दैवासुरे सङ्गरेत्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् । तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिताभूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ 37.1 ॥
सान्द्र-आननन्द-तनो हरे ननु पुरा दैव-असुरे सङ्गरे त्वद्-कृत्ताः अपि कर्म-शेष-वशतः ये ते न याताः गतिम् । तेषाम् भू-तल-जन्मनाम् दितिभुवाम् भारेण दुरार्दित-अभूमिः प्राप विरिञ्चम् आश्रित-पदम् देवैः पुरा एव आगतैः ॥ ३७।१ ॥
sāndra-ānananda-tano hare nanu purā daiva-asure saṅgare tvad-kṛttāḥ api karma-śeṣa-vaśataḥ ye te na yātāḥ gatim . teṣām bhū-tala-janmanām ditibhuvām bhāreṇa durārdita-abhūmiḥ prāpa viriñcam āśrita-padam devaiḥ purā eva āgataiḥ .. 37.1 ..
हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुकाम्एतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् । इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महींदेवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे ॥ 37.2 ॥
हा हा दुर्जन-भूरि-भार-मथिताम् पाथोनिधौ पातु-काम-इताम् पालय हन्त मे विवश-ताम् संपृच्छ देवान् इमान् । इत्यादि-प्रचुर-प्रलाप-विवशाम् आलोक्य धाता महींदेवानाम् वदनानि वीक्ष्य परितस् दध्यौ भवन्तम् हरे ॥ ३७।२ ॥
hā hā durjana-bhūri-bhāra-mathitām pāthonidhau pātu-kāma-itām pālaya hanta me vivaśa-tām saṃpṛccha devān imān . ityādi-pracura-pralāpa-vivaśām ālokya dhātā mahīṃdevānām vadanāni vīkṣya paritas dadhyau bhavantam hare .. 37.2 ..
ऊचे चाम्बुजभूरमूनयि सुराः सत्यं धरित्र्या वचोनन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः । सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिंनत्वा तं स्तुमहे जवादिति युयः साकं तवा,अकेतनम् ॥ 37.3 ॥
ऊचे च अम्बुज-भूरम् अयि सुराः सत्यम् धरित्र्याः भवताम् च रक्षण-विधौ दक्षः हि लक्ष्मीपतिः । सर्वे शर्व-पुरस्सराः वयम् इतस् गत्वा पयः-वारिधिम् नत्वा तम् स्तुमहे जवात् इति युयः साकम् तवा,अ केतनम् ॥ ३७।३ ॥
ūce ca ambuja-bhūram ayi surāḥ satyam dharitryāḥ bhavatām ca rakṣaṇa-vidhau dakṣaḥ hi lakṣmīpatiḥ . sarve śarva-purassarāḥ vayam itas gatvā payaḥ-vāridhim natvā tam stumahe javāt iti yuyaḥ sākam tavā,a ketanam .. 37.3 ..
ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गतायावत्त्वत्पदचिन्तनैकमनसस्तावत्स पाथोजभूः । त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवानाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥ 37.4 ॥
ते मुग्ध-अनिल-शालि-दुग्ध-जलधेः तीरम् गताः सङ्ग-ता-यावत् त्वद्-पद-चिन्तन-एकमनसः तावत् स पाथोज-भूः । त्वद्-वाचम् हृदये निशम्य सकलान् आनन्दयन् नचिवान् आख्यातः परमात्मना स्वयम् अहम् वाक्यम् तत् आकर्ण्यताम् ॥ ३७।४ ॥
te mugdha-anila-śāli-dugdha-jaladheḥ tīram gatāḥ saṅga-tā-yāvat tvad-pada-cintana-ekamanasaḥ tāvat sa pāthoja-bhūḥ . tvad-vācam hṛdaye niśamya sakalān ānandayan nacivān ākhyātaḥ paramātmanā svayam aham vākyam tat ākarṇyatām .. 37.4 ..
जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपैस्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना । देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौमत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥ 37.5 ॥
जाने दीन-दशाम् अहम् दिविषदाम् भूमेः च भीमैः नृपैः तद्-क्षेपाय भवामि यादव-कुले सः अहम् समग्र-आत्मना । देवाः वृष्णि-कुले भवन्तु कलया देव-अङ्गनाः च अवनौमत् सेवा-अर्थम् इति त्वदीय-वचनम् पाथोजभूः ऊचिवान् ॥ ३७।५ ॥
jāne dīna-daśām aham diviṣadām bhūmeḥ ca bhīmaiḥ nṛpaiḥ tad-kṣepāya bhavāmi yādava-kule saḥ aham samagra-ātmanā . devāḥ vṛṣṇi-kule bhavantu kalayā deva-aṅganāḥ ca avanaumat sevā-artham iti tvadīya-vacanam pāthojabhūḥ ūcivān .. 37.5 ..
श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापितस्वान्तेष्वीश गतेषुइ तावककृपापीयूषतृप्तात्मसु । विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरेधन्यां देवकनन्दिनीमुदवहद्राजा स शूरात्मजः ॥ 37.6 ॥
श्रुत्वा कर्ण-रसायनम् तव वचः सर्वेषु निर्वापित-स्वान्तेषु ईश गतेषु तावक-कृपा-पीयूष-तृप्त-आत्मसु । विख्याते मथुरा-पुरे किल भवत्-सान्निध्य-पुण्य-उत्तर-इधन्याम् देवकनन्दिनीम् उदवहत् राजा स शूर-आत्मजः ॥ ३७।६ ॥
śrutvā karṇa-rasāyanam tava vacaḥ sarveṣu nirvāpita-svānteṣu īśa gateṣu tāvaka-kṛpā-pīyūṣa-tṛpta-ātmasu . vikhyāte mathurā-pure kila bhavat-sānnidhya-puṇya-uttara-idhanyām devakanandinīm udavahat rājā sa śūra-ātmajaḥ .. 37.6 ..
उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानयन्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा । अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितःसत्त्रासात्स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥ 37.7 ॥
उद्वाह-अवसितौ तदीय-सहजः कंसः अथ सम्मानयन् एतौ सूत-तया गतः पथि रथे व्योम-उत्थया त्वद्-गिरा । अस्याः त्वाम् अति दुष्टम् अष्टम-सुतः हन्ता इति हन्ता ईरितः स त्रासात् स तु हन्तुम् अन्तिक-गताम् तन्वीम् कृपाणीम् अधात् ॥ ३७।७ ॥
udvāha-avasitau tadīya-sahajaḥ kaṃsaḥ atha sammānayan etau sūta-tayā gataḥ pathi rathe vyoma-utthayā tvad-girā . asyāḥ tvām ati duṣṭam aṣṭama-sutaḥ hantā iti hantā īritaḥ sa trāsāt sa tu hantum antika-gatām tanvīm kṛpāṇīm adhāt .. 37.7 ..
गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनैर्नो मुञ्चन्पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् । आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौदुष्टानामपि देव पुष्टकरुणा दृष्टा हि धीरेकदा ॥ 37.8 ॥
गृह्णानः चिकुरेषु ताम् खल-मतिः शौरेः चिरम् सान्त्वनैः नः मुञ्चन् पुनर् आत्मज-अर्पण-गिरा प्रीतः अथ यातः गृहान् । आद्यम् त्वद्-सहजम् तथा अर्पितम् अपि स्नेहेन न अहन् असौ दुष्टानाम् अपि देव पुष्ट-करुणा दृष्टा हि धीः एकदा ॥ ३७।८ ॥
gṛhṇānaḥ cikureṣu tām khala-matiḥ śaureḥ ciram sāntvanaiḥ naḥ muñcan punar ātmaja-arpaṇa-girā prītaḥ atha yātaḥ gṛhān . ādyam tvad-sahajam tathā arpitam api snehena na ahan asau duṣṭānām api deva puṣṭa-karuṇā dṛṣṭā hi dhīḥ ekadā .. 37.8 ..
तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरंयूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो । मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थनादित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥ 37.9 ॥
तावत् त्वद्-मनसा एव नारद-मुनिः प्रोचे स भोजेश्वरम् यूयम् ननु असुराः सुराः च यदवः जानासि किम् न प्रभो । मायावी स हरिः भवत्-वध-कृते भावी सुर-प्रार्थनात् इति आकर्ण्य यत् ऊनत् ऊधुनत् असौ शौरेः च सूनूनहन् ॥ ३७।९ ॥
tāvat tvad-manasā eva nārada-muniḥ proce sa bhojeśvaram yūyam nanu asurāḥ surāḥ ca yadavaḥ jānāsi kim na prabho . māyāvī sa hariḥ bhavat-vadha-kṛte bhāvī sura-prārthanāt iti ākarṇya yat ūnat ūdhunat asau śaureḥ ca sūnūnahan .. 37.9 ..
प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्माययानीते माधव रोहिणीं त्वमपि भोः सच्चित्सुखैकात्मकः । देवक्या जठरं विवेशिथ विभो संस्तूयमानस्सुरैःस त्वं कृष्ण विधूय रोगपटलीं भक्तिं परां देहि मे ॥ 37.10 ॥
प्राप्ते सप्तम-गर्भ-ताम् अहिपतौ त्वद्-प्रेरणात् मायया आनीते माधव रोहिणीम् त्वम् अपि भोः सच्चिद्-सुख-एक-आत्मकः । देवक्याः जठरम् विवेशिथ विभो संस्तूयमानः सुरैः स त्वम् कृष्ण विधूय रोग-पटलीम् भक्तिम् पराम् देहि मे ॥ ३७।१० ॥
prāpte saptama-garbha-tām ahipatau tvad-preraṇāt māyayā ānīte mādhava rohiṇīm tvam api bhoḥ saccid-sukha-eka-ātmakaḥ . devakyāḥ jaṭharam viveśitha vibho saṃstūyamānaḥ suraiḥ sa tvam kṛṣṇa vidhūya roga-paṭalīm bhaktim parām dehi me .. 37.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In