| |
|

This overlay will guide you through the buttons:

भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन्ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् । अहि सलिलसञ्चयः स पुनरैन्द्रजालोदितोजलौघ इव तत्क्षणात्प्रपदमेयतामाययौ ॥ 39.1 ॥
भवन्तम् अयम् उद्वहन् यदुकुलोद्वहः निस्सरन् ददर्श गगन-उच्चलत्-जल-भराम् कलिन्दात्मजाम् । अहि सलिल-सञ्चयः स पुनर् ऐन्द्रजाल-उदितः जल-ओघः इव तद्-क्षणात् प्रपद-मेय-ताम् आययौ ॥ ३९।१ ॥
bhavantam ayam udvahan yadukulodvahaḥ nissaran dadarśa gagana-uccalat-jala-bharām kalindātmajām . ahi salila-sañcayaḥ sa punar aindrajāla-uditaḥ jala-oghaḥ iva tad-kṣaṇāt prapada-meya-tām āyayau .. 39.1 ..
प्रसुप्तपशुपालिकां निभृतमारुदद्बालिकामपावृतकवाटिकां पशुपवाटिकामाविशन् । भवन्तमयमर्पयन् प्रसवतल्पके तत्पदाद्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥ 39.2 ॥
प्रसुप्त-पशुपालिकाम् निभृत-मारुदत्-बालिकाम् अपावृतक-वाटिकाम् पशुप-वाटिकाम् आविशन् । भवन्तम् अयम् अर्पयन् प्रसव-तल्पके तद्-पदात् वहन् कपट-कन्यकाम् स्व-पुरम् आगतः वेगतः ॥ ३९।२ ॥
prasupta-paśupālikām nibhṛta-mārudat-bālikām apāvṛtaka-vāṭikām paśupa-vāṭikām āviśan . bhavantam ayam arpayan prasava-talpake tad-padāt vahan kapaṭa-kanyakām sva-puram āgataḥ vegataḥ .. 39.2 ..
ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् । विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजराडतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥ 39.3 ॥
ततस् त्वद्-अनुजा-रव-क्षपित-निद्रा-वेग-द्रवत्-भटोत्कर-निवेदित-प्रसव-वार्तया एव आर्तिमान् । विमुक्त-चिकुर-उत्करः त्वरितम् आपतन् भोजराज्-अतुष्टः इव दृष्टवान् भगिनिका-करे कन्यकाम् ॥ ३९।३ ॥
tatas tvad-anujā-rava-kṣapita-nidrā-vega-dravat-bhaṭotkara-nivedita-prasava-vārtayā eva ārtimān . vimukta-cikura-utkaraḥ tvaritam āpatan bhojarāj-atuṣṭaḥ iva dṛṣṭavān bhaginikā-kare kanyakām .. 39.3 ..
ध्रुवं कपटशालिनो मधुहरस्य माया भवेदसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् । द्विपो नळिनिकान्तरादिव मृणाळिकामाक्षिपन्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ 39.4 ॥
ध्रुवम् कपट-शालिनः मधुहरस्य माया भवेत् असौ इति किशोरिकाम् भगिनिका-कर-आलिङ्गिताम् । द्विपः नळिनिका-अन्तरात् इव मृणाळिकाम् आक्षिपन् अयम् त्वद्-अनुजाम् अजाम् उपल-पट्टके पिष्टवान् ॥ ३९।४ ॥
dhruvam kapaṭa-śālinaḥ madhuharasya māyā bhavet asau iti kiśorikām bhaginikā-kara-āliṅgitām . dvipaḥ nal̤inikā-antarāt iva mṛṇāl̤ikām ākṣipan ayam tvad-anujām ajām upala-paṭṭake piṣṭavān .. 39.4 ..
ततो भवदुपासको झटिति मृत्युपाशादिवप्रमुच्य तरसैव सा समधिरूढरूपान्तरा । अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन्महायुधमहो गता किल विहायसा दिद्युते ॥ 39.5 ॥
ततस् भवत्-उपासकः झटिति मृत्यु-पाशात् इव प्रमुच्य तरसा एव सा समधिरूढ-रूप-अन्तरा । अधस् तलम् अ जग्मुषी विकसत्-दष्ट-बाहु-स्फुरत्-महा-आयुध-महः गता किल विहायसा दिद्युते ॥ ३९।५ ॥
tatas bhavat-upāsakaḥ jhaṭiti mṛtyu-pāśāt iva pramucya tarasā eva sā samadhirūḍha-rūpa-antarā . adhas talam a jagmuṣī vikasat-daṣṭa-bāhu-sphurat-mahā-āyudha-mahaḥ gatā kila vihāyasā didyute .. 39.5 ..
नृशंसतर कंस ते किमु मया विनिष्पिष्टयाबभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् । इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषीमरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ 39.6 ॥
नृशंसतर कंस ते किमु मया विनिष्पिष्टया आबभूव भवत्-अन्तकः क्वचन चिन्त्यताम् ते हितम् । इति त्वद्-अनुजा विभो खलम् उदीर्य तम् जग्मुषी मरुत्-गण-पणायिता भुवि च मन्दिराणि एयुषी ॥ ३९।६ ॥
nṛśaṃsatara kaṃsa te kimu mayā viniṣpiṣṭayā ābabhūva bhavat-antakaḥ kvacana cintyatām te hitam . iti tvad-anujā vibho khalam udīrya tam jagmuṣī marut-gaṇa-paṇāyitā bhuvi ca mandirāṇi eyuṣī .. 39.6 ..
प्रगे पुनरगात्मजावचनमीरिता भूभुजाप्रलम्बबकपूतनाप्रमुखदानवा मानिनः । भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाःकुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥ 39.7 ॥
प्रगे पुनर् अग-आत्मजा-वचनम् ईरिताः भूभुज-अप्रलम्ब-बक-पूतना-प्रमुख-दानवाः मानिनः । भवत्-निधन-काम्यया जगति बभ्रमुः निर्भयाः कुमारक-विमारकाः किम् इव दुष्करम् निष्कृपैः ॥ ३९।७ ॥
prage punar aga-ātmajā-vacanam īritāḥ bhūbhuja-apralamba-baka-pūtanā-pramukha-dānavāḥ māninaḥ . bhavat-nidhana-kāmyayā jagati babhramuḥ nirbhayāḥ kumāraka-vimārakāḥ kim iva duṣkaram niṣkṛpaiḥ .. 39.7 ..
ततः पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रियाप्रसूतिशयनेशये रुदति किञ्चिदञ्चत्पदे । विबुध्य वनिताजनैस्तनयसंभवे घोषितेमुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ 39.8 ॥
ततस् पशुप-मन्दिरे त्वयि मुकुन्द रुदति किञ्चिद् अञ्चत्-पदे । विबुध्य वनिता-जनैः तनय-संभवे घोषिता इमुदा किमु वदामि अहो सकलम् आकुलम् गोकुलम् ॥ ३९।८ ॥
tatas paśupa-mandire tvayi mukunda rudati kiñcid añcat-pade . vibudhya vanitā-janaiḥ tanaya-saṃbhave ghoṣitā imudā kimu vadāmi aho sakalam ākulam gokulam .. 39.8 ..
अहो खलु यशोदया नवकळायचेतोहरंभवन्तमलमन्तिके प्रथममपिबन्त्या दृशा । पुनः स्तनभरं निजं सपदि पाययन्त्या मुदामनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ 39.9 ॥
अहो खलु यशोदया नव-कळाय-चेतः-हरंभवन्तम् अलम् अन्तिके प्रथमम् अ पिबन्त्या दृशा । पुनर् स्तन-भरम् निजम् सपदि पाययन्त्या मुदा-मनोहर-तनु-स्पृशा जगति पुण्यवन्तः जिताः ॥ ३९।९ ॥
aho khalu yaśodayā nava-kal̤āya-cetaḥ-haraṃbhavantam alam antike prathamam a pibantyā dṛśā . punar stana-bharam nijam sapadi pāyayantyā mudā-manohara-tanu-spṛśā jagati puṇyavantaḥ jitāḥ .. 39.9 ..
भवत्कुशलकाम्यया स खलु नन्दगोपस्तदाप्रमोदभरसङ्कुले द्विजकुलाय किं नाददात् । तथैव पशुपालकाः किमु न मङ्गलं तेनिरेजगत्रितयमङ्गल त्वमिह पाहि मामामयात् ॥ 39.10 ॥
भवत्-कुशल-काम्यया स खलु नन्द-गोपः तदा अप्रमोद-भर-सङ्कुले द्विज-कुलाय किम् ना अददात् । तथा एव पशु-पालकाः किमु न मङ्गलम् तेनिरेजग त्रितय-मङ्गल त्वम् इह पाहि माम् आमयात् ॥ ३९।१० ॥
bhavat-kuśala-kāmyayā sa khalu nanda-gopaḥ tadā apramoda-bhara-saṅkule dvija-kulāya kim nā adadāt . tathā eva paśu-pālakāḥ kimu na maṅgalam tenirejaga tritaya-maṅgala tvam iha pāhi mām āmayāt .. 39.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In