| |
|

This overlay will guide you through the buttons:

कल्यताम् मम कुरुष्व तावतीं कल्यते भवदुपासनं यया । स्पष्टमष्टविधयोगcअर्यया पुष्टयाऽऽशु तव तुष्टिमाप्नुयाम् ॥ 4.1 ॥
कल्यताम् मम कुरुष्व तावतीम् कल्यते भवत्-उपासनम् यया । स्पष्टम् अष्टविध-योग-चर्यया पुष्टया आशु तव तुष्टिम् आप्नुयाम् ॥ ४।१ ॥
kalyatām mama kuruṣva tāvatīm kalyate bhavat-upāsanam yayā . spaṣṭam aṣṭavidha-yoga-caryayā puṣṭayā āśu tava tuṣṭim āpnuyām .. 4.1 ..
ब्रह्मcअर्यद्रुढतादिभिर्यमैराप्लवादिनियमैश्cअ पाविताः । कुर्महे द्रुढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥ 4.2 ॥
ब्रह्मचर्य-द्रुढ-ता-आदिभिः यमैः आप्लव-आदि-नियमैः च पाविताः । कुर्महे द्रुढम् अमी सुख-आसनम् पङ्कज-आद्यम् अपि वा भवत्-पराः ॥ ४।२ ॥
brahmacarya-druḍha-tā-ādibhiḥ yamaiḥ āplava-ādi-niyamaiḥ ca pāvitāḥ . kurmahe druḍham amī sukha-āsanam paṅkaja-ādyam api vā bhavat-parāḥ .. 4.2 ..
तारमन्तरनुcइन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः । इन्द्रियाणि विषयादथापहृत्याऽऽस्महे भवदुपासनोन्मुखाः ॥ 4.3 ॥
तारम् अन्तर् अनुचिन्त्य सन्ततम् प्राण-वायुम् अभियम्य निर्मलाः । इन्द्रियाणि विषयात् अथ अपहृत्य आस्महे भवत्-उपासन-उन्मुखाः ॥ ४।३ ॥
tāram antar anucintya santatam prāṇa-vāyum abhiyamya nirmalāḥ . indriyāṇi viṣayāt atha apahṛtya āsmahe bhavat-upāsana-unmukhāḥ .. 4.3 ..
अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः । तेनभक्तिरसमन्तरार्द्रतामुद्वहेम भवदङ्घ्रिcइन्तकाः ॥ 4.4 ॥
अस्फुटे वपुषि ते प्रयत्नतः धारयेम धिषणाम् मुहुर् मुहुर् । तेन भक्ति-रसम् अन्तर् आर्द्र-ताम् उद्वहेम भवत्-अङ्घ्रि-चिन्तकाः ॥ ४।४ ॥
asphuṭe vapuṣi te prayatnataḥ dhārayema dhiṣaṇām muhur muhur . tena bhakti-rasam antar ārdra-tām udvahema bhavat-aṅghri-cintakāḥ .. 4.4 ..
विस्पुटावयवभेदसुन्दरं त्वद्वपुस्सुcइरशीलनावशात । अश्रमं मनसि cइन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥ 4.5 ॥
विस्पुट-अवयव-भेद-सुन्दरम् त्वद्-वपुः सु चिर-शीलना-वशात । अश्रमम् मनसि चिन्तयामहे ध्यान-योग-निरताः त्वद्-आश्रयाः ॥ ४।५ ॥
vispuṭa-avayava-bheda-sundaram tvad-vapuḥ su cira-śīlanā-vaśāta . aśramam manasi cintayāmahe dhyāna-yoga-niratāḥ tvad-āśrayāḥ .. 4.5 ..
ध्यायतां सकळमूर्तिमीद्रुशीमुन्मिषन्मधुरताहृतात्मनाम । सान्द्रमोदरसरूपमान्तरं ब्रह्मरूपमयि तेऽवभासते ॥ 4.6 ॥
ध्यायताम् सकल-मूर्तिम् ईदृशीम् उन्मिषत्-मधुर-ता-हृत-आत्मनाम । सान्द्र-मोद-रस-रूपम् आन्तरम् ब्रह्म-रूपम् अयि ते अवभासते ॥ ४।६ ॥
dhyāyatām sakala-mūrtim īdṛśīm unmiṣat-madhura-tā-hṛta-ātmanāma . sāndra-moda-rasa-rūpam āntaram brahma-rūpam ayi te avabhāsate .. 4.6 ..
तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक । आश्रिताः पुनरतः परिcयुतावारभेमहि cअ धारणाधिकम् ॥ 4.7 ॥
तद्-समास्वदन-रूपिणीम् स्थितिम् त्वद्-समाधि-मयि विश्वनायक । आश्रिताः पुनर् अतस् परिच्युतौ आरभेमहि च धारणा-अधिकम् ॥ ४।७ ॥
tad-samāsvadana-rūpiṇīm sthitim tvad-samādhi-mayi viśvanāyaka . āśritāḥ punar atas paricyutau ārabhemahi ca dhāraṇā-adhikam .. 4.7 ..
इत्थमभ्यसननिर्भरोल्लसत्वत्परात्मसुखकल्पितोत्सवाः । मुक्तभक्तकुलमौलितां गताः सञ्cअरेम शुकनारदादिवत् ॥ 4.8 ॥
इत्थम् अभ्यसन-निर्भर-उल्लस-त्वद्-परात्म-सुख-कल्पित-उत्सवाः । मुक्त-भक्त-कुल-मौलि-ताम् गताः सञ्चरेम शुक-नारद-आदि-वत् ॥ ४।८ ॥
ittham abhyasana-nirbhara-ullasa-tvad-parātma-sukha-kalpita-utsavāḥ . mukta-bhakta-kula-mauli-tām gatāḥ sañcarema śuka-nārada-ādi-vat .. 4.8 ..
त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा । योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनैः ॥ 4.9 ॥
त्वद्-समाधि-विजये तु यः पुनर् मङ्क्षु मोक्ष-रसिकः क्रमेण वा । योग-वश्यम् अनिलम् षष्-आश्रयैः उन्नयति अज सुषुम्नया शनैस् ॥ ४।९ ॥
tvad-samādhi-vijaye tu yaḥ punar maṅkṣu mokṣa-rasikaḥ krameṇa vā . yoga-vaśyam anilam ṣaṣ-āśrayaiḥ unnayati aja suṣumnayā śanais .. 4.9 ..
लिङ्गदेहमपि संत्यजन्नथो लीयते त्वयि परे निराग्रहः । ऊर्ध्वलोककुतुकी तु मूर्धतस्सार्धमेव करणैर्निरीयते ॥ 4.10 ॥
लिङ्ग-देहम् अपि संत्यजन् अथो लीयते त्वयि परे निराग्रहः । ऊर्ध्व-लोक-कुतुकी तु मूर्धतः सार्धम् एव करणैः निरीयते ॥ ४।१० ॥
liṅga-deham api saṃtyajan atho līyate tvayi pare nirāgrahaḥ . ūrdhva-loka-kutukī tu mūrdhataḥ sārdham eva karaṇaiḥ nirīyate .. 4.10 ..
अग्निवासरवळर्क्षपक्षगैरुत्तरायणजुषा cअ दैवतैः । प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥ 4.11 ॥
अग्नि-वासर-वळ-ऋक्ष-पक्ष-गैः उत्तरायण-जुषा च दैवतैः । प्रापितः रवि-पदम् भवत्-परः मोदवान् ध्रुव-पद-अन्तम् ईयते ॥ ४।११ ॥
agni-vāsara-val̤a-ṛkṣa-pakṣa-gaiḥ uttarāyaṇa-juṣā ca daivataiḥ . prāpitaḥ ravi-padam bhavat-paraḥ modavān dhruva-pada-antam īyate .. 4.11 ..
आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणाऽऽर्द्यते । ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥ 4.12 ॥
आस्थितः अथ महर् आलये यदा शेष-वक्त्र-दहन-ऊष्मणा । ईयते भवत्-उपाश्रयः तदा वेधसः पदम् अतस् पुरा एव वा ॥ ४।१२ ॥
āsthitaḥ atha mahar ālaye yadā śeṣa-vaktra-dahana-ūṣmaṇā . īyate bhavat-upāśrayaḥ tadā vedhasaḥ padam atas purā eva vā .. 4.12 ..
तत्र वा तव पदेऽथवा वसन् प्राकृतप्रळय एति मुक्ततां । स्वेcछया खलु पुराऽपि मुcयते संविभिद्य जगदण्डमोजसा ॥ 4.13 ॥
तत्र वा तव पदे अथवा वसन् प्राकृत-प्रळयः एति मुक्त-ताम् । स्व-इच्छया खलु पुरा अपि मुच्यते संविभिद्य जगदण्डम् ओजसा ॥ ४।१३ ॥
tatra vā tava pade athavā vasan prākṛta-pral̤ayaḥ eti mukta-tām . sva-icchayā khalu purā api mucyate saṃvibhidya jagadaṇḍam ojasā .. 4.13 ..
तस्य अ क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृतीः । तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतम् विभो ॥ 4.14 ॥
तस्य अ क्षिति-पयः-महः-निल-द्यौः-महत्-प्रकृति-सप्तक-आवृतीः । तद्-तद्-आत्मक-तया विशन् सुखी याति ते पदम् अनावृतम् विभो ॥ ४।१४ ॥
tasya a kṣiti-payaḥ-mahaḥ-nila-dyauḥ-mahat-prakṛti-saptaka-āvṛtīḥ . tad-tad-ātmaka-tayā viśan sukhī yāti te padam anāvṛtam vibho .. 4.14 ..
अर्cइरादिगतिमीद्रुशीं व्रजन् विcयुतिं न भजते जगत्पते । सccइदात्मक भवद्गुणोदयानुccअरन्तमनिलेश पाहि माम् ॥ 4.15 ॥
अर्चिः-आदि-गतिम् ईदृशीम् व्रजन् विच्युतिम् न भजते जगत्पते । सच्चिद्-आत्मक भवत्-गुण-उदयान् उच्चरन्तम् अनिल-ईश पाहि माम् ॥ ४।१५ ॥
arciḥ-ādi-gatim īdṛśīm vrajan vicyutim na bhajate jagatpate . saccid-ātmaka bhavat-guṇa-udayān uccarantam anila-īśa pāhi mām .. 4.15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In