| |
|

This overlay will guide you through the buttons:

तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् । समवलोक्य जगाद्भवत्पिता विदितकंससहायजनोद्यमः ॥ 40.1 ॥
तदनु नन्दम् अमन्द-शुभ-आस्पदम् नृप-पुरीम् कर-दान-कृते गतम् । समवलोक्य जगात् भवत्-पिता विदित-कंस-सहाय-जन-उद्यमः ॥ ४०।१ ॥
tadanu nandam amanda-śubha-āspadam nṛpa-purīm kara-dāna-kṛte gatam . samavalokya jagāt bhavat-pitā vidita-kaṃsa-sahāya-jana-udyamaḥ .. 40.1 ..
अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् । इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥ 40.2 ॥
अयि सखे तव बालक-जन्म माम् सुखयते अद्य निज-आत्मज-जन्म-वत् । इति भवत्-पितृ-ताम् व्रजनायके समधिरोप्य शशंस तम् आदरात् ॥ ४०।२ ॥
ayi sakhe tava bālaka-janma mām sukhayate adya nija-ātmaja-janma-vat . iti bhavat-pitṛ-tām vrajanāyake samadhiropya śaśaṃsa tam ādarāt .. 40.2 ..
इह च सन्त्यनिमित्तशतानि ते कटकसीम्ने ततो लघु गम्यताम् । इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥ 40.3 ॥
इह च सन्ति अनिमित्त-शतानि ते कटक-सीम्ने ततस् लघु गम्यताम् । इति च तद्-वचसा व्रज-नायकः भवत्-अपाय-भिया द्रुतम् आययौ ॥ ४०।३ ॥
iha ca santi animitta-śatāni te kaṭaka-sīmne tatas laghu gamyatām . iti ca tad-vacasā vraja-nāyakaḥ bhavat-apāya-bhiyā drutam āyayau .. 40.3 ..
अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना । तरळषट्पदलालितकुन्तला कपटपोतक ते निकटं गता ॥ 40.4 ॥
अवसरे खलु तत्र च काचन व्रज-पदे मधुर-आकृतिः अङ्गना । तरळ-षट्पद-लालित-कुन्तला कपट-पोतक ते निकटम् गता ॥ ४०।४ ॥
avasare khalu tatra ca kācana vraja-pade madhura-ākṛtiḥ aṅganā . taral̤a-ṣaṭpada-lālita-kuntalā kapaṭa-potaka te nikaṭam gatā .. 40.4 ..
सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना । व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥ 40.5 ॥
सपदि सा हृत-बालक-चेतना निशिचर-अन्वय-जा किल पूतना । व्रज-वधूषु इह का इयम् इति क्षणम् विमृशतीषु भवन्तम् उपाददे ॥ ४०।५ ॥
sapadi sā hṛta-bālaka-cetanā niśicara-anvaya-jā kila pūtanā . vraja-vadhūṣu iha kā iyam iti kṣaṇam vimṛśatīṣu bhavantam upādade .. 40.5 ..
ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता । स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥ 40.6 ॥
ललित-भाव-विलास-हृतात्मभिः युवतिभिः प्रतिरोद्धुम् अ पारिता । स्तनम् असौ भवन-अन्त-निषेदुषी प्रददुषी भवते कपट-आत्मने ॥ ४०।६ ॥
lalita-bhāva-vilāsa-hṛtātmabhiḥ yuvatibhiḥ pratiroddhum a pāritā . stanam asau bhavana-anta-niṣeduṣī pradaduṣī bhavate kapaṭa-ātmane .. 40.6 ..
समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः । महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥ 40.7 ॥
समधिरुह्य तद्-अङ्कम् अशङ्कितः त्वम् अथ बालक-लोपन-रोषितः । महत् इव आम्र-फलम् कुच-मण्डलम् प्रतिचुचूषिथ दुर्विष-दूषितम् ॥ ४०।७ ॥
samadhiruhya tad-aṅkam aśaṅkitaḥ tvam atha bālaka-lopana-roṣitaḥ . mahat iva āmra-phalam kuca-maṇḍalam praticucūṣitha durviṣa-dūṣitam .. 40.7 ..
असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना । निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥ 40.8 ॥
असुभिः एव समम् धयति त्वयि स्तनम् असौ स्तनित-उपम-निस्वना । निरपतत् भय-दायि निजम् वपुः प्रतिगता प्रविसार्य भुजौ उभौ ॥ ४०।८ ॥
asubhiḥ eva samam dhayati tvayi stanam asau stanita-upama-nisvanā . nirapatat bhaya-dāyi nijam vapuḥ pratigatā pravisārya bhujau ubhau .. 40.8 ..
भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे । व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः ॥ 40.9 ॥
भय-द-घोषण-भीषण-विग्रह-श्रवण-दर्शन-मोहित-वल्लवे । व्रज-पदे तद्-उरःस्थल-खेलनम् ननु भवन्तम् अगृह्णत गोपिकाः ॥ ४०।९ ॥
bhaya-da-ghoṣaṇa-bhīṣaṇa-vigraha-śravaṇa-darśana-mohita-vallave . vraja-pade tad-uraḥsthala-khelanam nanu bhavantam agṛhṇata gopikāḥ .. 40.9 ..
भुवनमङ्कलनामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः । त्वमयि वातनिकेतननाथ मामगदयन् कुरु तावकसेवकम् ॥ 40.10 ॥
भुवन-मङ्कल-नामभिः एव ते युवतिभिः बहुधा कृत-रक्षणः । त्वम् अयि वातनिकेतन-नाथ माम् अगदयन् कुरु तावक-सेवकम् ॥ ४०।१० ॥
bhuvana-maṅkala-nāmabhiḥ eva te yuvatibhiḥ bahudhā kṛta-rakṣaṇaḥ . tvam ayi vātaniketana-nātha mām agadayan kuru tāvaka-sevakam .. 40.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In