| |
|

This overlay will guide you through the buttons:

व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः । निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् ॥ 41.1 ॥
व्रजेश्वरः शौरि-वचः निशम्य समाव्रजन् अध्वनि भीत-चेताः । निष्पिष्ट-निश्शेष-तरुम् निरीक्ष्य कञ्चिद् पदार्थम् शरणम् गतः त्वाम् ॥ ४१।१ ॥
vrajeśvaraḥ śauri-vacaḥ niśamya samāvrajan adhvani bhīta-cetāḥ . niṣpiṣṭa-niśśeṣa-tarum nirīkṣya kañcid padārtham śaraṇam gataḥ tvām .. 41.1 ..
निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः । त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥ 41.2 ॥
निशम्य गोपी-वचनात् उदन्तम् सर्वे अपि गोपाः भय-विस्मय-अन्धाः । त्वद्-पातितम् घोर-पिशाच-देहम् देहुः विदूरे अथ कुठार-कृत्तम् ॥ ४१।२ ॥
niśamya gopī-vacanāt udantam sarve api gopāḥ bhaya-vismaya-andhāḥ . tvad-pātitam ghora-piśāca-deham dehuḥ vidūre atha kuṭhāra-kṛttam .. 41.2 ..
त्वत्पीतपूतस्तनतच्छरीरात्समुच्चलन्नुच्चतरो हि धूमः । शङ्कामधादागरवः किमेषु किं चान्दनो गौल्गुलवोऽथवेति ॥ 41.3 ॥
त्वद्-पीत-पूत-स्तन-तद्-शरीरात् समुच्चलन् उच्चतरः हि धूमः । शङ्काम् अधात् आगरवः किम् एषु किम् चान्दनः गौल्गुलवः अथवा इति ॥ ४१।३ ॥
tvad-pīta-pūta-stana-tad-śarīrāt samuccalan uccataraḥ hi dhūmaḥ . śaṅkām adhāt āgaravaḥ kim eṣu kim cāndanaḥ gaulgulavaḥ athavā iti .. 41.3 ..
मदङ्गसङ्गस्य फलं न दूरए क्षणेन तावद्भवतामपि स्यात् । इत्युल्लपन्वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथास्सुगन्धिम् ॥ 41.4 ॥
मद्-अङ्ग-सङ्गस्य फलम् न क्षणेन तावत् भवताम् अपि स्यात् । इति उल्लपन् वल्लव-तल्लजेभ्यः त्वम् पूतनाम् आतनुथाः सुगन्धिम् ॥ ४१।४ ॥
mad-aṅga-saṅgasya phalam na kṣaṇena tāvat bhavatām api syāt . iti ullapan vallava-tallajebhyaḥ tvam pūtanām ātanuthāḥ sugandhim .. 41.4 ..
चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् । इति प्रशंसन्किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥ 41.5 ॥
चित्रम् पिशाच्या न हतः कुमारः चित्रम् पुरा एव अकथि शौरिणा इदम् । इति प्रशंसन् किल गोप-लोकः भवत्-मुख-आलोक-रसे न्यमाङ्क्षीत् ॥ ४१।५ ॥
citram piśācyā na hataḥ kumāraḥ citram purā eva akathi śauriṇā idam . iti praśaṃsan kila gopa-lokaḥ bhavat-mukha-āloka-rase nyamāṅkṣīt .. 41.5 ..
दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् । भवन्निवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे ॥ 41.6 ॥
दिने दिने अथ प्रतिवृद्ध-लक्ष्मीः अक्षीण-मङ्गल्य-शतः व्रजः अयम् । भवन् इव असा अयि वासुदेव प्रमोद-सान्द्रः परितस् विरेजे ॥ ४१।६ ॥
dine dine atha prativṛddha-lakṣmīḥ akṣīṇa-maṅgalya-śataḥ vrajaḥ ayam . bhavan iva asā ayi vāsudeva pramoda-sāndraḥ paritas vireje .. 41.6 ..
गृहेषु ते कोमलरूपहासमिथः कथासङ्कुलिताः कमन्यः । वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥ 41.7 ॥
गृहेषु ते कोमल-रूप-हास-मिथस् कथा-सङ्कुलिताः कमन्यः । वृत्तेषु कृत्येषु भवत्-निरीक्षा-समागताः प्रत्यहम् अत्यनन्दन् ॥ ४१।७ ॥
gṛheṣu te komala-rūpa-hāsa-mithas kathā-saṅkulitāḥ kamanyaḥ . vṛtteṣu kṛtyeṣu bhavat-nirīkṣā-samāgatāḥ pratyaham atyanandan .. 41.7 ..
अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन । एह्येहि मामित्युपसार्य पाणिं त्वयीश किं किं न कृतं वधूभिः ॥ 41.8 ॥
अहो कुमारः मयि दत्त-दृष्टिः स्मितः कृतम् माम् प्रति वत्सकेन । एहि एहि माम् इति उपसार्य पाणिम् त्वयि ईश किम् किम् न कृतम् वधूभिः ॥ ४१।८ ॥
aho kumāraḥ mayi datta-dṛṣṭiḥ smitaḥ kṛtam mām prati vatsakena . ehi ehi mām iti upasārya pāṇim tvayi īśa kim kim na kṛtam vadhūbhiḥ .. 41.8 ..
भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन । नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ॥ 41.9 ॥
भवत्-वपुः-स्पर्शन-कौतुकेन करात् करम् गोप-वधू-जनेन । नीतः त्वम् आताम्र-सरोज-माला-व्यालम्बि-लोलम्ब-तुलाम-लासीः ॥ ४१।९ ॥
bhavat-vapuḥ-sparśana-kautukena karāt karam gopa-vadhū-janena . nītaḥ tvam ātāmra-saroja-mālā-vyālambi-lolamba-tulāma-lāsīḥ .. 41.9 ..
निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती । दशां यशोदा कतमान्न्न भेजे स तादृशः पाहि हरे गदान्माम् ॥ 41.10 ॥
निपाययन्ती स्तनम् अङ्क-गम् त्वाम् विलोकयन्ती वदनम् हसन्ती । दशाम् यशोदा कतमात् न भेजे स तादृशः पाहि हरे गदात् माम् ॥ ४१।१० ॥
nipāyayantī stanam aṅka-gam tvām vilokayantī vadanam hasantī . daśām yaśodā katamāt na bheje sa tādṛśaḥ pāhi hare gadāt mām .. 41.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In