| |
|

This overlay will guide you through the buttons:

कदापि जन्मर्क्षदिने तव प्रभो निमन्त्रितज्ञातिवधूमहीसुरा । महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥ 42.1 ॥
कदापि जन्म-ऋक्ष-दिने तव प्रभो निमन्त्रित-ज्ञाति-वधू-महीसुरा । महानसः त्वाम् सविधे निधाय सा महानस-आदौ ववृते व्रजेश्वरी ॥ ४२।१ ॥
kadāpi janma-ṛkṣa-dine tava prabho nimantrita-jñāti-vadhū-mahīsurā . mahānasaḥ tvām savidhe nidhāya sā mahānasa-ādau vavṛte vrajeśvarī .. 42.1 ..
ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः । विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥ 42.2 ॥
ततस् भवत्-त्राण-नियुक्त-बालक-प्रभीति-सङ्क्रन्दन-सङ्कुल-आरवैः । विमिश्रम् अश्रावि भवत्-समीपतः परिस्फुटत्-दारु-चटत्-चटारवः ॥ ४२।२ ॥
tatas bhavat-trāṇa-niyukta-bālaka-prabhīti-saṅkrandana-saṅkula-āravaiḥ . vimiśram aśrāvi bhavat-samīpataḥ parisphuṭat-dāru-caṭat-caṭāravaḥ .. 42.2 ..
ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः । भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥ 42.3 ॥
ततस् तद्-आकर्णन-संभ्रम-श्रम-प्रकम्पि-वक्षोज-भराः व्रज-अङ्गनाः । भवन्तम् अन्तर् ददृशुः समन्ततः विनिष्पतत्-दारुण-दारु-मध्य-गम् ॥ ४२।३ ॥
tatas tad-ākarṇana-saṃbhrama-śrama-prakampi-vakṣoja-bharāḥ vraja-aṅganāḥ . bhavantam antar dadṛśuḥ samantataḥ viniṣpatat-dāruṇa-dāru-madhya-gam .. 42.3 ..
शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः । भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥ 42.4 ॥
शिशोः अहो किम् किम् अभूत् इति द्रुतम् प्रधाव्य नन्दः पशुपाः च भूसुराः । भवन्तम् आलोक्य यशोदया धृतम् समाश्वसन् अश्रु-जल-आर्द्र-लोचनाः ॥ ४२।४ ॥
śiśoḥ aho kim kim abhūt iti drutam pradhāvya nandaḥ paśupāḥ ca bhūsurāḥ . bhavantam ālokya yaśodayā dhṛtam samāśvasan aśru-jala-ārdra-locanāḥ .. 42.4 ..
कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् । न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥ 42.5 ॥
कस्कः नु कौतस्कुतः एष विस्मयः विशङ्कटम् यत् शकटम् विपाटितम् । न कारणम् किञ्चिद् इह इति ते स्थिताः स्व-नासिका-दत्त-कराः त्वद्-दीक्षकाः ॥ ४२।५ ॥
kaskaḥ nu kautaskutaḥ eṣa vismayaḥ viśaṅkaṭam yat śakaṭam vipāṭitam . na kāraṇam kiñcid iha iti te sthitāḥ sva-nāsikā-datta-karāḥ tvad-dīkṣakāḥ .. 42.5 ..
कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् । मया मया दृष्टमनो विपर्यगादितीश ते पालकबालका जगुः ॥ 42.6 ॥
कुमारकस्य अस्य पयोधर-अर्थिनः प्ररोदने लोल-पद-अम्बुज-आहतम् । मया मया दृष्ट-मनः विपर्यगात् इति ईश ते पालक-बालकाः जगुः ॥ ४२।६ ॥
kumārakasya asya payodhara-arthinaḥ prarodane lola-pada-ambuja-āhatam . mayā mayā dṛṣṭa-manaḥ viparyagāt iti īśa te pālaka-bālakāḥ jaguḥ .. 42.6 ..
भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः । भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यत दृष्टपूतनैः ॥ 42.7 ॥
भिया तदा किञ्चिद् अ जानताम् इदम् कुमारकाणाम् अति दुर्घटम् वचः । भवत्-प्रभावाः विदुरैः इति ईरितम् मनाक् इव अशङ्क्यत दृष्ट-पूतनैः ॥ ४२।७ ॥
bhiyā tadā kiñcid a jānatām idam kumārakāṇām ati durghaṭam vacaḥ . bhavat-prabhāvāḥ viduraiḥ iti īritam manāk iva aśaṅkyata dṛṣṭa-pūtanaiḥ .. 42.7 ..
प्रवाळताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ । इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥ 42.8 ॥
प्रवाळ-ताम्रम् किम् इदम् पदम् क्षतम् सरोज-रम्यौ नु करौ विरोजितौ । इति प्रसर्पत्-करुणा-तरङ्गिताः त्वद्-अङ्गम् आपस्पृशुः अङ्गना-जनाः ॥ ४२।८ ॥
pravāl̤a-tāmram kim idam padam kṣatam saroja-ramyau nu karau virojitau . iti prasarpat-karuṇā-taraṅgitāḥ tvad-aṅgam āpaspṛśuḥ aṅganā-janāḥ .. 42.8 ..
अये सुतं देहि जगत्पतेः कृपातरङ्गपातात्परिपातमद्य मे । इति स्म सङ्गृह्य पिता त्वदङ्गुकं मुहुर्मुहुः श्लिष्यति जीतकण्टकः ॥ 42.9 ॥
अये सुतम् देहि जगत्पतेः कृपा-तरङ्ग-पातात् परिपातम् अद्य मे । इति स्म सङ्गृह्य पिता त्वद्-अङ्गुकम् मुहुर् मुहुर् श्लिष्यति जीत-कण्टकः ॥ ४२।९ ॥
aye sutam dehi jagatpateḥ kṛpā-taraṅga-pātāt paripātam adya me . iti sma saṅgṛhya pitā tvad-aṅgukam muhur muhur śliṣyati jīta-kaṇṭakaḥ .. 42.9 ..
अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः । रजोऽपि नोदृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान्धृवम् ॥ 42.10 ॥
अनः-निलीनः किल हन्तुम् आगतः सुरारिः एवम् भवता विहिंसितः । रजः अपि न उ दृष्टम् अमुष्य तत् कथम् स शुद्ध-सत्त्वे त्वयि लीनवान् ॥ ४२।१० ॥
anaḥ-nilīnaḥ kila hantum āgataḥ surāriḥ evam bhavatā vihiṃsitaḥ . rajaḥ api na u dṛṣṭam amuṣya tat katham sa śuddha-sattve tvayi līnavān .. 42.10 ..
प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः । व्रजं निजैर्बाल्यरसैर्विमोहयन्मरुत्पुराधीश रुजां जहीहि मे ॥ 42.11 ॥
प्रपूजितैः तत्र ततस् द्विजातिभिः विशेषतः लम्भित-मङ्गल-आशिषः । व्रजम् निजैः बाल्य-रसैः विमोहयन् मरुत्-पुर-अधीश रुजाम् जहीहि मे ॥ ४२।११ ॥
prapūjitaiḥ tatra tatas dvijātibhiḥ viśeṣataḥ lambhita-maṅgala-āśiṣaḥ . vrajam nijaiḥ bālya-rasaiḥ vimohayan marut-pura-adhīśa rujām jahīhi me .. 42.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In