| |
|

This overlay will guide you through the buttons:

त्वमेकदा गुरुमरुत्पुरनाथ वोढुंगाढाधिरूढगरिमाणमपारयन्ती । माता नोधाय शयने किमिदं बतेतिध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ 43.1 ॥
त्वम् एकदा गुरु-मरुत्-पुर-नाथ वोढुम् गाढ-अधिरूढ-गरिमाणम् अ पारयन्ती । माता न उधाय शयने किम् इदम् बत इति ध्यायन्ती अचेष्टत गृहेषु निविष्ट-शङ्का ॥ ४३।१ ॥
tvam ekadā guru-marut-pura-nātha voḍhum gāḍha-adhirūḍha-garimāṇam a pārayantī . mātā na udhāya śayane kim idam bata iti dhyāyantī aceṣṭata gṛheṣu niviṣṭa-śaṅkā .. 43.1 ..
तावद्विदूरमुपकर्णितघोरघोषव्याजृम्भिपांसुपटलीपरिपूरिताशः । वात्यावपुः स किल दैत्यवरस्तृणावर्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ 43.2 ॥
तावत् विदूरम् उपकर्णित-घोर-घोष-व्याजृम्भि-पांसु-पटल-परिपूरित-आशः । वात्या-वपुः स किल दैत्य-वरः तृणावर्त-आख्यः जहार जन-मानस-हारिणम् त्वाम् ॥ ४३।२ ॥
tāvat vidūram upakarṇita-ghora-ghoṣa-vyājṛmbhi-pāṃsu-paṭala-paripūrita-āśaḥ . vātyā-vapuḥ sa kila daitya-varaḥ tṛṇāvarta-ākhyaḥ jahāra jana-mānasa-hāriṇam tvām .. 43.2 ..
उद्दामपांसुतिमिराहतदृष्टिपातेद्रष्टुं किमप्यकुशले पशुपाललोके । हा बालक्स्य किमिति त्वदुपान्तमाप्तामाता भवन्तमविलोक्य भृशं रुरोद ॥ 43.3 ॥
उद्दाम-पांसु-तिमिर-आहत-दृष्टिपाते इद्रष्टुम् किम् अपि अकुशले पशुपाल-लोके । हा किम् इति त्वद्-उपान्तम् आप्त-अ माता भवन्तम् अ विलोक्य भृशम् रुरोद ॥ ४३।३ ॥
uddāma-pāṃsu-timira-āhata-dṛṣṭipāte idraṣṭum kim api akuśale paśupāla-loke . hā kim iti tvad-upāntam āpta-a mātā bhavantam a vilokya bhṛśam ruroda .. 43.3 ..
तावत्स दानववरोऽपि च दीनमूर्तिर्भावत्कभारपरिधारणलूनवेगः । सङ्कोचमाप तदनु क्षतपांसुघोषेघोषे व्यतायत भवज्जननीनिनादः ॥ 43.4 ॥
तावत् स दानव-वरः अपि च दीन-मूर्तिः भावत्क-भार-परिधारण-लून-वेगः । सङ्कोचम् आप तदनु क्षत-पांसु-घोषे घोषे व्यतायत भवत्-जननी-निनादः ॥ ४३।४ ॥
tāvat sa dānava-varaḥ api ca dīna-mūrtiḥ bhāvatka-bhāra-paridhāraṇa-lūna-vegaḥ . saṅkocam āpa tadanu kṣata-pāṃsu-ghoṣe ghoṣe vyatāyata bhavat-jananī-ninādaḥ .. 43.4 ..
रोदोपकर्णनवशादुपगम्य गेहंक्रन्दत्सु नन्दमुखगोपकुलेषु दीनः । त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षुस्त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् ॥ 43.5 ॥
रोद-उपकर्णन-वशात् उपगम्य गेहम् क्रन्दत्सु नन्द-मुख-गोप-कुलेषु दीनः । त्वाम् दानवः तु अखिल-मुक्ति-करम् मुमुक्षुः त्वयि अप्रमुञ्चति पपात वियत्-प्रदेशात् ॥ ४३।५ ॥
roda-upakarṇana-vaśāt upagamya geham krandatsu nanda-mukha-gopa-kuleṣu dīnaḥ . tvām dānavaḥ tu akhila-mukti-karam mumukṣuḥ tvayi apramuñcati papāta viyat-pradeśāt .. 43.5 ..
रोदाकुलास्तदनु गोपगणा बहिष्ठपाषाणपृष्ठभुवि देहमतिस्थविष्ठम् । प्रैक्षन्त हन्त निपन्तममुष्य वक्षस्यक्षीणमेव च भवन्तमलं हसन्तम् ॥ 43.6 ॥
रोद-आकुलाः तदनु गोप-गणाः बहिष्ठ-पाषाण-पृष्ठ-भुवि देहम् अति स्थविष्ठम् । प्रैक्षन्त हन्त निपन्तम् अमुष्य वक्षसि अक्षीणम् एव च भवन्तम् अलम् हसन्तम् ॥ ४३।६ ॥
roda-ākulāḥ tadanu gopa-gaṇāḥ bahiṣṭha-pāṣāṇa-pṛṣṭha-bhuvi deham ati sthaviṣṭham . praikṣanta hanta nipantam amuṣya vakṣasi akṣīṇam eva ca bhavantam alam hasantam .. 43.6 ..
ग्रावप्रपातपरिपिष्टगरिष्ठदेहभ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् । आघ्नानमम्बुजकरेण भवन्तमेत्यगोपा दधुर्गिरिवरादिव नीलरत्नम् ॥ 43.7 ॥
ग्राव-प्रपात-परिपिष्ट-गरिष्ठ-देह-भ्रष्ट-असुदुष्ट-दनुज-उपरि धृष्ट-हासम् । आघ्नानम् अम्बुज-करेण भवन्तम् एत्य गोपाः दधुः गिरि-वरात् इव नीलरत्नम् ॥ ४३।७ ॥
grāva-prapāta-paripiṣṭa-gariṣṭha-deha-bhraṣṭa-asuduṣṭa-danuja-upari dhṛṣṭa-hāsam . āghnānam ambuja-kareṇa bhavantam etya gopāḥ dadhuḥ giri-varāt iva nīlaratnam .. 43.7 ..
एकैकमाशु परिगृह्य निकामनन्दन्नन्दादिगोपपरिरब्धविचुम्बताङ्गम् । आदातुकामपरिशङ्कितगोपनारीहस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ 43.8 ॥
एकैकम् आशु परिगृह्य निकाम-नन्दत्-नन्द-आदि-गोप-परिरब्ध-विचुम्बता अङ्गम् । आदातु-काम-परिशङ्कित-गोप-नारी-हस्त-अम्बुज-प्रपतितम् प्रणुमः भवन्तम् ॥ ४३।८ ॥
ekaikam āśu parigṛhya nikāma-nandat-nanda-ādi-gopa-parirabdha-vicumbatā aṅgam . ādātu-kāma-pariśaṅkita-gopa-nārī-hasta-ambuja-prapatitam praṇumaḥ bhavantam .. 43.8 ..
भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारीगोविन्द एव परिपालयतात्सुतं नः । इत्यादि मातरपितृप्रमुखैस्तदानींसम्प्रार्थितस्त्वदवनाय विभो त्वमेव ॥ 43.9 ॥
भूयस् अपि किम् नु कृणुमः प्रणत-आर्ति-हारी-गोविन्दः एव परिपालयतात् सुतम् नः । इत्यादि मातर-पितृ-प्रमुखैः तदानीम् सम्प्रार्थितः त्वद्-अवनाय विभो त्वम् एव ॥ ४३।९ ॥
bhūyas api kim nu kṛṇumaḥ praṇata-ārti-hārī-govindaḥ eva paripālayatāt sutam naḥ . ityādi mātara-pitṛ-pramukhaiḥ tadānīm samprārthitaḥ tvad-avanāya vibho tvam eva .. 43.9 ..
वातात्मकं दनुजमेवमयि प्रधून्वन्वातोद्भवान्मम गदान्किमु नो धुनोषि । किं वा करोमि पुरनप्यनिलालयेशनिश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥ 43.10 ॥
वात-आत्मकम् दनुजम् एव मयि प्रधून्वन् वात-उद्भवान् मम गदान् किमु नः धुनोषि । किम् वा करोमि मुहुर् अर्थये त्वाम् ॥ ४३।१० ॥
vāta-ātmakam danujam eva mayi pradhūnvan vāta-udbhavān mama gadān kimu naḥ dhunoṣi . kim vā karomi muhur arthaye tvām .. 43.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In