| |
|

This overlay will guide you through the buttons:

अयि सबल मुरारे पाणिजानुप्रचारैःकिमपि भवनभागान् भूषयन्तौ भवन्तौ । चलितचरणकञ्जौ मञ्जुमञ्जीरशिञ्जाश्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ॥ 45.1 ॥
अयि सबल मुरारे पाणि-जानु-प्रचारैः किम् अपि भवन-भागान् भूषयन्तौ भवन्तौ । चलित-चरण-कञ्जौ मञ्जु-मञ्जीर-शिञ्जा-श्रवण-कुतुक-भाजौ चेरतुः चारु वेगात् ॥ ४५।१ ॥
ayi sabala murāre pāṇi-jānu-pracāraiḥ kim api bhavana-bhāgān bhūṣayantau bhavantau . calita-caraṇa-kañjau mañju-mañjīra-śiñjā-śravaṇa-kutuka-bhājau ceratuḥ cāru vegāt .. 45.1 ..
मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौवदनपतितकेशौ दृश्यपादाब्जदेशौ । भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौमतिमहरतमुच्चैः पश्यतां विश्वनॄणाम् ॥ 45.2 ॥
मृदु मृदु विहसन्तौ उन्मिषत्-दन्तवन्तौ वदन-पतित-केशौ दृश्य-पाद-अब्ज-देशौ । भुज-गलित-कर-अन्त-व्यालगत्-कङ्कण-अङ्कौ मति-महरतम् उच्चैस् पश्यताम् विश्व-नॄणाम् ॥ ४५।२ ॥
mṛdu mṛdu vihasantau unmiṣat-dantavantau vadana-patita-keśau dṛśya-pāda-abja-deśau . bhuja-galita-kara-anta-vyālagat-kaṅkaṇa-aṅkau mati-maharatam uccais paśyatām viśva-nṝṇām .. 45.2 ..
अनुसरति जनौघे कौतुकव्याकुलाक्षेकिमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ । बलितवदनपद्मं पृष्ठतो दत्तदृष्टीकिमिव न विदधाथे कौतुकं वासुदेव ॥ 45.3 ॥
अनुसरति जन-ओघे कौतुक-व्याकुल-आक्षेकिम् अपि कृत-निनादम् व्याहसन्तौ द्रवन्तौ । बलित-वदन-पद्मम् पृष्ठतस् दत्त-दृष्टी-किम् इव न विदधाथे कौतुकम् वासुदेव ॥ ४५।३ ॥
anusarati jana-oghe kautuka-vyākula-ākṣekim api kṛta-ninādam vyāhasantau dravantau . balita-vadana-padmam pṛṣṭhatas datta-dṛṣṭī-kim iva na vidadhāthe kautukam vāsudeva .. 45.3 ..
दृतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौदिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ । द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौमुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥ 45.4 ॥
दृत-गतिषु पतन्तौ उत्थितौ मुनिभिः अपङ्कैः स स्मितम् वन्द्यमानौ । द्रुतम् अथ जननीभ्याम् स अनुकम्पम् गृहीतौ मुहुर् अपि परिरब्धौ द्राक् युवाम् चुम्बितौ च ॥ ४५।४ ॥
dṛta-gatiṣu patantau utthitau munibhiḥ apaṅkaiḥ sa smitam vandyamānau . drutam atha jananībhyām sa anukampam gṛhītau muhur api parirabdhau drāk yuvām cumbitau ca .. 45.4 ..
स्नुतकुचभरमङ्के धारयन्ती भवन्तंतरळमति यशोदा स्तन्यदा धन्यधन्या । कपटपशुप मध्ये मुग्धहासाङ्कुरं तेदशनमुकुळहृद्यं वीक्ष्यं वक्त्रं जहर्ष ॥ 45.5 ॥
स्नुत-कुच-भरम् अङ्के धारयन्ती यशोदा स्तन्यदा धन्य-धन्या । कपट-पशुप मध्ये मुग्ध-हास-अङ्कुरम् ते दशन-मुकुल-हृद्यम् वीक्ष्यम् वक्त्रम् जहर्ष ॥ ४५।५ ॥
snuta-kuca-bharam aṅke dhārayantī yaśodā stanyadā dhanya-dhanyā . kapaṭa-paśupa madhye mugdha-hāsa-aṅkuram te daśana-mukula-hṛdyam vīkṣyam vaktram jaharṣa .. 45.5 ..
तदनु चरणचारी दारकैः साकमारान्निलयततिषु खेलन् बालचापल्यशाली । भवनशुकबिडालान् वत्सकांश्चानुधावन्कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥ 45.6 ॥
तदनु चरण-चारी दारकैः साकम् आरात् निलय-ततिषु खेलन् बाल-चापल्य-शाली । भवन-शुक-बिडालान् वत्सकान् च अनुधावन् कथम् अपि कृत-हासैः गोपकैः वारितः अभूः ॥ ४५।६ ॥
tadanu caraṇa-cārī dārakaiḥ sākam ārāt nilaya-tatiṣu khelan bāla-cāpalya-śālī . bhavana-śuka-biḍālān vatsakān ca anudhāvan katham api kṛta-hāsaiḥ gopakaiḥ vāritaḥ abhūḥ .. 45.6 ..
हलधरसहितस्त्वं यत्र यत्रोपयातोविवशपतितनेत्रास्तत्र तत्रैव गोप्यः । विगळितगृहकृत्या विस्मृतापत्यभृत्यामुरहर मुहुरत्यन्ताकुला नित्यमासन् ॥ 45.7 ॥
हलधर-सहितः त्वम् यत्र यत्र उपयातः विवश-पतित-नेत्राः तत्र तत्र एव गोप्यः । विगळित-गृह-कृत्याः विस्मृत-अपत्य-भृत्य-अमुर-हर मुहुर् अत्यन्त-आकुलाः नित्यम् आसन् ॥ ४५।७ ॥
haladhara-sahitaḥ tvam yatra yatra upayātaḥ vivaśa-patita-netrāḥ tatra tatra eva gopyaḥ . vigal̤ita-gṛha-kṛtyāḥ vismṛta-apatya-bhṛtya-amura-hara muhur atyanta-ākulāḥ nityam āsan .. 45.7 ..
प्रतिनवनवनीतं गोपिकादत्तमिच्छन्कलपदमुपगायन् कोमलं क्वापि नृत्यन् । सदययुवतिलोकैरर्पितं सर्पिरश्नन्क्वचन नवविपक्वं दुग्धमत्यापिबस्त्वम् ॥ 45.8 ॥
प्रति नव-नवनीतम् गोपिका-दत्तम् इच्छन् कल-पदम् उपगायन् कोमलम् क्वापि नृत्यन् । स दय-युवति-लोकैः अर्पितम् सर्पिः अश्नन् क्वचन नव-विपक्वम् दुग्धम् अत्यापिबः त्वम् ॥ ४५।८ ॥
prati nava-navanītam gopikā-dattam icchan kala-padam upagāyan komalam kvāpi nṛtyan . sa daya-yuvati-lokaiḥ arpitam sarpiḥ aśnan kvacana nava-vipakvam dugdham atyāpibaḥ tvam .. 45.8 ..
मम खलु बलिगेहे याचनं जातमास्तामिह पुनरबलानामग्रतो नैव कुर्वे । इति विहितमतिः किं देव सन्त्यज्य याच्ञांदधिघृतमहरस्त्वं चारुणा चोरणेन ॥ 45.9 ॥
मम खलु बलि-गेहे याचनम् जातम् आस्ताम् इह पुनर् अबलानाम् अग्रतस् ना एव कुर्वे । इति विहित-मतिः किम् देव सन् त्यज्य याच्ञाम् दधि-घृतम् अहरः त्वम् चारुणा चोरणेन ॥ ४५।९ ॥
mama khalu bali-gehe yācanam jātam āstām iha punar abalānām agratas nā eva kurve . iti vihita-matiḥ kim deva san tyajya yācñām dadhi-ghṛtam aharaḥ tvam cāruṇā coraṇena .. 45.9 ..
तव दधिघृतमोषे घोषयोषाजनानामभजत हृदि रोषो नावकाशं न शोकः । हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वंस मम शमय रोगान्वातगेहाधिनाथ ॥ 45.10 ॥
तव दधि-घृत-मोषे घोष-योषा-जनानाम् अभजत हृदि रोषः न अवकाशम् न शोकः । हृदयम् अपि मुषित्वा हर्ष-सिन्धौ न्यधाः त्वम् स मम शमय रोगान् वातगेह-अधिनाथ ॥ ४५।१० ॥
tava dadhi-ghṛta-moṣe ghoṣa-yoṣā-janānām abhajata hṛdi roṣaḥ na avakāśam na śokaḥ . hṛdayam api muṣitvā harṣa-sindhau nyadhāḥ tvam sa mama śamaya rogān vātageha-adhinātha .. 45.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In