| |
|

This overlay will guide you through the buttons:

अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये । परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥ 46.1 ॥
अयि देव पुरा किल त्वयि स्वयम् उत्तान-शये स्तनन्धये । परिजृम्भणतः व्यपावृते वदने विश्वम् अचष्ट वल्लवी ॥ ४६।१ ॥
ayi deva purā kila tvayi svayam uttāna-śaye stanandhaye . parijṛmbhaṇataḥ vyapāvṛte vadane viśvam acaṣṭa vallavī .. 46.1 ..
पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते । फलसञ्चयवञ्चनकृधा तव मृद्भोजनमूचुरर्भकाः ॥ 46.2 ॥
पुनर् अपि अथ बालकैः समम् त्वयि लीला-निरते जगत्पते । फल-सञ्चय-वञ्चन-कृधा तव मृद्-भोजनम् ऊचुः अर्भकाः ॥ ४६।२ ॥
punar api atha bālakaiḥ samam tvayi līlā-nirate jagatpate . phala-sañcaya-vañcana-kṛdhā tava mṛd-bhojanam ūcuḥ arbhakāḥ .. 46.2 ..
अयि ते प्रळयावधौ विभो क्षितितोयादिसमस्तभक्षिणः । मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥ 46.3 ॥
अयि ते प्रळय-अवधौ विभो क्षिति-तोय-आदि-समस्त-भक्षिणः । मृदु-पाशनतः रुजा भवेत् इति भीता जननी चुकोप सा ॥ ४६।३ ॥
ayi te pral̤aya-avadhau vibho kṣiti-toya-ādi-samasta-bhakṣiṇaḥ . mṛdu-pāśanataḥ rujā bhavet iti bhītā jananī cukopa sā .. 46.3 ..
अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता । इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् ॥ 46.4 ॥
अयि दुर्विनय-आत्मक त्वया किमु मृत्सा बत वत्स भक्षिता । इति मातृ-गिरम् चिरम् विभो वितथाम् त्वम् प्रतिजज्ञिषे हसन् ॥ ४६।४ ॥
ayi durvinaya-ātmaka tvayā kimu mṛtsā bata vatsa bhakṣitā . iti mātṛ-giram ciram vibho vitathām tvam pratijajñiṣe hasan .. 46.4 ..
अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् । इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥ 46.5 ॥
अयि ते सकलैः विनिश्चिते विमतिः चेद् वदनम् विदार्यताम् । इति मातृ-विभर्त्सितः मुखम् विकसत्-पद्म-निभम् व्यदारयः ॥ ४६।५ ॥
ayi te sakalaiḥ viniścite vimatiḥ ced vadanam vidāryatām . iti mātṛ-vibhartsitaḥ mukham vikasat-padma-nibham vyadārayaḥ .. 46.5 ..
अपि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव । पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ 46.6 ॥
अपि मृल्लव-दर्शन-उत्सुकाम् जननीम् ताम् बहु तर्पयन् इव । पृथिवीम् निखिलाम् न केवलम् भुवनानि अपि अखिलानि अदीदृशः ॥ ४६।६ ॥
api mṛllava-darśana-utsukām jananīm tām bahu tarpayan iva . pṛthivīm nikhilām na kevalam bhuvanāni api akhilāni adīdṛśaḥ .. 46.6 ..
कुहचिद्वनमम्बुधिः क्वचित् क्वचिदभ्रं कुहचिद्रसातलम् । मनुजा दनुजाः क्वचित्सुरा ददृशे किं न तदा त्वदानने ॥ 46.7 ॥
कुहचिद् वनम् अम्बुधिः क्वचिद् क्वचिद् अभ्रम् कुहचिद् रसातलम् । मनुजाः दनुजाः क्वचिद् सुराः ददृशे किम् न तदा त्वद्-आनने ॥ ४६।७ ॥
kuhacid vanam ambudhiḥ kvacid kvacid abhram kuhacid rasātalam . manujāḥ danujāḥ kvacid surāḥ dadṛśe kim na tadā tvad-ānane .. 46.7 ..
कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् । स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥ 46.8 ॥
कलश-अम्बुधि-शायिनम् पुनर् पर-वैकुण्ठ-पद-अधिवासिनम् । स्व-पुरस् च निज-अर्भक-आत्मकम् कतिधा त्वाम् न ददर्श सा मुखे ॥ ४६।८ ॥
kalaśa-ambudhi-śāyinam punar para-vaikuṇṭha-pada-adhivāsinam . sva-puras ca nija-arbhaka-ātmakam katidhā tvām na dadarśa sā mukhe .. 46.8 ..
विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः । अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥ 46.9 ॥
विकसत्-भुवने मुख-उदरे ननु भूयस् अपि तथाविध-आननः । अनया स्फुटम् ईक्षितः भवान् अनवस्थाम् जगताम् बत अतनोत् ॥ ४६।९ ॥
vikasat-bhuvane mukha-udare nanu bhūyas api tathāvidha-ānanaḥ . anayā sphuṭam īkṣitaḥ bhavān anavasthām jagatām bata atanot .. 46.9 ..
धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् । स्तनमम्ब दिशेत्युपासजन् भगवन्नद्भुतबाल पाहि माम् ॥ 46.10 ॥
धृत-तत्त्व-धियम् तदा क्षणम् जननीम् ताम् प्रणयेन मोहयन् । स्तनम् अम्ब दिश इति उपासजन् भगवन् अद्भुत-बाल पाहि माम् ॥ ४६।१० ॥
dhṛta-tattva-dhiyam tadā kṣaṇam jananīm tām praṇayena mohayan . stanam amba diśa iti upāsajan bhagavan adbhuta-bāla pāhi mām .. 46.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In