| |
|

This overlay will guide you through the buttons:

मुदा सुरौधैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः । मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ॥ 48.1 ॥
मुदा सु रौधैः त्वम् उदार-सम्मदैः उदीर्य दामोदरः इति अभिष्टुतः । मृदु-उदरः स्वैरम् उलूखले लगन् अदूरतस् द्वौ ककुभौ उदैक्षथाः ॥ ४८।१ ॥
mudā su raudhaiḥ tvam udāra-sammadaiḥ udīrya dāmodaraḥ iti abhiṣṭutaḥ . mṛdu-udaraḥ svairam ulūkhale lagan adūratas dvau kakubhau udaikṣathāḥ .. 48.1 ..
कुबेरसूनुर्नळकूबराभिधः परो मणिग्रीव इति प्रथां गतः । महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥ 48.2 ॥
कुबेर-सूनुः नळकूबर-अभिधः परः मणिग्रीवः इति प्रथाम् गतः । महेश-सेवा-अधिगत-श्रिया उन्मदौ चिरम् किल त्वद्-विमुखौ अखेलताम् ॥ ४८।२ ॥
kubera-sūnuḥ nal̤akūbara-abhidhaḥ paraḥ maṇigrīvaḥ iti prathām gataḥ . maheśa-sevā-adhigata-śriyā unmadau ciram kila tvad-vimukhau akhelatām .. 48.2 ..
सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ । विवाससौ केळिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥ 48.3 ॥
सुरापगायाम् किल तौ मद-उत्कटौ सुरापगायत्-बहु-यौवत-आवृतौ । विवाससौ केळिपरौ स नारदः भवत्-पद-एक-प्रवणः निरैक्षत ॥ ४८।३ ॥
surāpagāyām kila tau mada-utkaṭau surāpagāyat-bahu-yauvata-āvṛtau . vivāsasau kel̤iparau sa nāradaḥ bhavat-pada-eka-pravaṇaḥ niraikṣata .. 48.3 ..
भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ । इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतस्सुखम् ॥ 48.4 ॥
भिया प्रिय-आलोकम् उपात्त-वाससम् पुरस् निरीक्ष्य अपि मद-अन्ध-चेतसौ । इमौ भवत्-भक्ति-उपशान्ति-सिद्धये मुनिः जगौ शान्तिम् ऋते कुतस् सुखम् ॥ ४८।४ ॥
bhiyā priya-ālokam upātta-vāsasam puras nirīkṣya api mada-andha-cetasau . imau bhavat-bhakti-upaśānti-siddhaye muniḥ jagau śāntim ṛte kutas sukham .. 48.4 ..
युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् । इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥ 48.5 ॥
युवाम् अवाप्तौ ककुभा आत्म-ताम् चिरम् हरिम् निरीक्ष्य अथ पदम् स्वम् आप्नुतम् । इति ईरितौ तौ भवत्-ईक्षण-स्पृहाम् गतौ व्रज-अन्ते ककुभौ बभूवतुः ॥ ४८।५ ॥
yuvām avāptau kakubhā ātma-tām ciram harim nirīkṣya atha padam svam āpnutam . iti īritau tau bhavat-īkṣaṇa-spṛhām gatau vraja-ante kakubhau babhūvatuḥ .. 48.5 ..
अतन्द्रमिन्द्रदृयुगं तथाविधं समेयुषा मन्थरगामिना त्वया । तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥ 48.6 ॥
अतन्द्रम् इन्द्र-दृ-युगम् तथाविधम् समेयुषा मन्थर-गामिना त्वया । तिरायित-उलूखल-रोध-निर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥ ४८।६ ॥
atandram indra-dṛ-yugam tathāvidham sameyuṣā manthara-gāminā tvayā . tirāyita-ulūkhala-rodha-nirdhutau cirāya jīrṇau paripātitau tarū .. 48.6 ..
अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा । महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द भवानपि स्तवैः ॥ 48.7 ॥
अभाजि शाखि-द्वितयम् यदा त्वया तदा एव तद्-गर्भ-तलात् निरेयुषा । महा-त्विषा यक्ष-युगेन तद्-क्षणात् अभाजि गोविन्द भवान् अपि स्तवैः ॥ ४८।७ ॥
abhāji śākhi-dvitayam yadā tvayā tadā eva tad-garbha-talāt nireyuṣā . mahā-tviṣā yakṣa-yugena tad-kṣaṇāt abhāji govinda bhavān api stavaiḥ .. 48.7 ..
इहान्यभक्तोऽपि समेष्यति क्रमाद्भवन्तमेतौ खलु रुद्रसेवकौ । मुनिप्रसादाद्भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥ 48.8 ॥
इह अन्य-भक्तः अपि समेष्यति क्रमात् भवन्तम् एतौ खलु रुद्र-सेवकौ । मुनि-प्रसादात् भवत्-अङ्घ्रिम् आगतौ गतौ वृणानौ खलु भक्तिम् उत्तमाम् ॥ ४८।८ ॥
iha anya-bhaktaḥ api sameṣyati kramāt bhavantam etau khalu rudra-sevakau . muni-prasādāt bhavat-aṅghrim āgatau gatau vṛṇānau khalu bhaktim uttamām .. 48.8 ..
ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले । विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्दने भवान्विमोक्षदः ॥ 48.9 ॥
ततस् तरु-उद्दारण-दारुण-आरव-प्रकम्पि-सम्पातिनि गोप-मण्डले । विलज्जित-त्वद्-जननी-मुख-ईक्षिणा व्यमोक्षि नन्दने भवान् विमोक्ष-दः ॥ ४८।९ ॥
tatas taru-uddāraṇa-dāruṇa-ārava-prakampi-sampātini gopa-maṇḍale . vilajjita-tvad-jananī-mukha-īkṣiṇā vyamokṣi nandane bhavān vimokṣa-daḥ .. 48.9 ..
महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना । इति ब्रवाणैर्गमितो गृहं भवान्मरुत्पुराधीश्वर पाहि मां गदात् ॥ 48.10 ॥
महीरुहोः मध्य-गतः बत अर्भकः हरेः प्रभावात् अपरिक्षतः अधुना । इति ब्रवाणैः गमितः गृहम् भवान् मरुत्-पुर-अधीश्वर पाहि माम् गदात् ॥ ४८।१० ॥
mahīruhoḥ madhya-gataḥ bata arbhakaḥ hareḥ prabhāvāt aparikṣataḥ adhunā . iti bravāṇaiḥ gamitaḥ gṛham bhavān marut-pura-adhīśvara pāhi mām gadāt .. 48.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In