| |
|

This overlay will guide you through the buttons:

भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे । अहेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥ 49.1 ॥
भवत्-प्रभावाः विदुराः हि गोपाः तरु-प्रपात-आदिकम् अत्र गोष्ठे । अहेतुम् उत्पात-गणम् विशङ्क्य प्रयातुम् अन्यत्र मनः वितेनुः ॥ ४९।१ ॥
bhavat-prabhāvāḥ vidurāḥ hi gopāḥ taru-prapāta-ādikam atra goṣṭhe . ahetum utpāta-gaṇam viśaṅkya prayātum anyatra manaḥ vitenuḥ .. 49.1 ..
तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् । इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥ 49.2 ॥
तत्र उपनन्द-अभिध-गोप-वर्यः जगौ भवत्-प्रेरणया एव नूनम् । इतिः प्रतीच्याम् विपिनम् मनोज्ञम् बृन्दावनम् नाम विराजति इति ॥ ४९।२ ॥
tatra upananda-abhidha-gopa-varyaḥ jagau bhavat-preraṇayā eva nūnam . itiḥ pratīcyām vipinam manojñam bṛndāvanam nāma virājati iti .. 49.2 ..
बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन । त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः ॥ 49.3 ॥
बृहत् वनम् तत् खलु नन्द-मुख्याः विधाय गौष्ठीनम् अथ क्षणेन । त्वद्-अन्वित-त्वद्-जननी-निविष्ट-गरिष्ठ-यान-अनुगताः विचेलुः ॥ ४९।३ ॥
bṛhat vanam tat khalu nanda-mukhyāḥ vidhāya gauṣṭhīnam atha kṣaṇena . tvad-anvita-tvad-jananī-niviṣṭa-gariṣṭha-yāna-anugatāḥ viceluḥ .. 49.3 ..
अनोमनोज्ञध्वनिधेनुपाळीखुरप्रणादान्तरतो वधूभिः । भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥ 49.4 ॥
अनः-मनोज्ञ-ध्वनि-धेनु-पाळी-खुर-प्रणाद-अन्तरतः वधूभिः । भवत्-विनोद-अलपिति इक्षराणि प्रपीय ना अज्ञायत मार्ग-दैर्घ्यम् ॥ ४९।४ ॥
anaḥ-manojña-dhvani-dhenu-pāl̤ī-khura-praṇāda-antarataḥ vadhūbhiḥ . bhavat-vinoda-alapiti ikṣarāṇi prapīya nā ajñāyata mārga-dairghyam .. 49.4 ..
निरीक्ष्य बृन्दावनमीश नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् । अमोदथाश्शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ 49.5 ॥
निरीक्ष्य बृन्दावनम् ईश नन्दत्-प्रसून-कुन्द-प्रमुख-द्रुम-ओघम् । अमोदथाः शाद्वल-सान्द्र-लक्ष्म्या हरिन्मणी-कुट्टिम-पुष्ट-शोभम् ॥ ४९।५ ॥
nirīkṣya bṛndāvanam īśa nandat-prasūna-kunda-pramukha-druma-ogham . amodathāḥ śādvala-sāndra-lakṣmyā harinmaṇī-kuṭṭima-puṣṭa-śobham .. 49.5 ..
नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु । वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥ 49.6 ॥
नवाक-निर्व्युढ-निवास-भेदेषु अशेष-गोपेषु सुख-आसितेषु । वन-श्रियम् गोप-किशोर-पाली-विमिश्रितः पर्यगलोकथाः त्वम् ॥ ४९।६ ॥
navāka-nirvyuḍha-nivāsa-bhedeṣu aśeṣa-gopeṣu sukha-āsiteṣu . vana-śriyam gopa-kiśora-pālī-vimiśritaḥ paryagalokathāḥ tvam .. 49.6 ..
अराळमार्गागतनिर्मलापां मराळकुजाकृतनर्मलापाम् । निरन्तरस्मेरसरोजवक्त्रां कळिन्दकन्यां समलोकयस्त्वम् ॥ 49.7 ॥
अराळ-मार्ग-आगत-निर्मलापाम् मराळ-कुज-आकृत-नर्म-लापाम् । निरन्तर-स्मेर-सरोज-वक्त्राम् कळिन्द-कन्याम् समलोकयः त्वम् ॥ ४९।७ ॥
arāl̤a-mārga-āgata-nirmalāpām marāl̤a-kuja-ākṛta-narma-lāpām . nirantara-smera-saroja-vaktrām kal̤inda-kanyām samalokayaḥ tvam .. 49.7 ..
मयूरकेकाशतलोभनीयं म्यूखमीलशबळं मणीनाम् । विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ 49.8 ॥
मयूर-केका-शत-लोभनीयम् म्यूखमील-शबलम् मणीनाम् । विरिञ्च-लोक-स्पृशम् उच्चशृङ्गैः गिरिम् च गोवर्धनम् ऐक्षथाः त्वम् ॥ ४९।८ ॥
mayūra-kekā-śata-lobhanīyam myūkhamīla-śabalam maṇīnām . viriñca-loka-spṛśam uccaśṛṅgaiḥ girim ca govardhanam aikṣathāḥ tvam .. 49.8 ..
समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः । ततस्ततस्तां कृटिलामपश्यः कळिन्दजां रागवतीमिवैकाम् ॥ 49.9 ॥
समम् ततस् गोप-कुमारकैः त्वम् समन्ततः यत्र वनान्तम् आगाः । ततस् ततस् ताम् कृटिलाम् अपश्यः कळिन्द-जाम् रागवतीम् इव एकाम् ॥ ४९।९ ॥
samam tatas gopa-kumārakaiḥ tvam samantataḥ yatra vanāntam āgāḥ . tatas tatas tām kṛṭilām apaśyaḥ kal̤inda-jām rāgavatīm iva ekām .. 49.9 ..
तथाविधेऽस्मिन्विपिने पशव्ये समुत्सुको वत्सगणप्रचारे । चरन्सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥ 49.10 ॥
तथाविधे अस्मिन् विपिने पशव्ये समुत्सुकः वत्स-गण-प्रचारे । चरन् सरामः अथ कुमारकैः त्वम् समीर-गेह-अधिप पाहि रोगात् ॥ ४९।१० ॥
tathāvidhe asmin vipine paśavye samutsukaḥ vatsa-gaṇa-pracāre . caran sarāmaḥ atha kumārakaiḥ tvam samīra-geha-adhipa pāhi rogāt .. 49.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In