| |
|

This overlay will guide you through the buttons:

कदाचन व्रजशिशुभिः समं भवान् वनाशने विहितमतिः प्रगेतराम् । समावृतो बहुतरवत्समण्डलैः सतेमनैर्निरगमदीश जेमनैः ॥ 51.1 ॥
कदाचन व्रज-शिशुभिः समम् भवान् वन-अशने विहित-मतिः प्रगेतराम् । समावृतः बहुतर-वत्स-मण्डलैः स तेमनैः निरगमत् ईश जेमनैः ॥ ५१।१ ॥
kadācana vraja-śiśubhiḥ samam bhavān vana-aśane vihita-matiḥ pragetarām . samāvṛtaḥ bahutara-vatsa-maṇḍalaiḥ sa temanaiḥ niragamat īśa jemanaiḥ .. 51.1 ..
विनिर्यतस्तव चरणाम्बुजद्वयादुदञ्चितं त्रिभुवनपावनं रजः । महर्षयः पुलकधरैः कलेबरैरुदूहिरे धृतभवदीक्षणोत्सवाः ॥ 51.2 ॥
विनिर्यतः तव चरण-अम्बुज-द्वयात् उदञ्चितम् त्रिभुवन-पावनम् रजः । महा-ऋषयः पुलक-धरैः कलेबरैः उदूहिरे धृत-भव-दीक्षण-उत्सवाः ॥ ५१।२ ॥
viniryataḥ tava caraṇa-ambuja-dvayāt udañcitam tribhuvana-pāvanam rajaḥ . mahā-ṛṣayaḥ pulaka-dharaiḥ kalebaraiḥ udūhire dhṛta-bhava-dīkṣaṇa-utsavāḥ .. 51.2 ..
प्रचारयत्यविरलशाद्वले तले पशून्विभो भवति समं कुमारकैः । अघासुरो न्यरुणदघाय वर्तनीं भयानकः सपदि शयानकाकृतिः ॥ 51.3 ॥
प्रचारयति अविरल-शाद्वले तले पशून् विभो भवति समम् कुमारकैः । अघ-असुरः वर्तनीम् भयानकः सपदि शयानक-आकृतिः ॥ ५१।३ ॥
pracārayati avirala-śādvale tale paśūn vibho bhavati samam kumārakaiḥ . agha-asuraḥ vartanīm bhayānakaḥ sapadi śayānaka-ākṛtiḥ .. 51.3 ..
महाचलप्रतिमतनोर्गुहानिभप्रसारितप्रथितमुखस्य कानने । मुखोदरं विहरणकौतुकाद्गताः कुमारकाः किमपि विदूरगे त्वयि ॥ 51.4 ॥
महा-अचल-प्रतिम-तनोः गुहा-निभ-प्रसारित-प्रथित-मुखस्य कानने । मुख-उदरम् विहरण-कौतुकात् गताः कुमारकाः किम् अपि विदूर-गे त्वयि ॥ ५१।४ ॥
mahā-acala-pratima-tanoḥ guhā-nibha-prasārita-prathita-mukhasya kānane . mukha-udaram viharaṇa-kautukāt gatāḥ kumārakāḥ kim api vidūra-ge tvayi .. 51.4 ..
प्रमादतः प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके । विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशु रक्षितुम् ॥ 51.5 ॥
प्रमादतः प्रविशति पन्नग-उदरम् क्वथत्-तनौ पशुप-कुले स वात्सके । विदन् इदम् त्वम् अपि विवेशिथ प्रभो सुहृद्-जनम् विशरणम् आशु रक्षितुम् ॥ ५१।५ ॥
pramādataḥ praviśati pannaga-udaram kvathat-tanau paśupa-kule sa vātsake . vidan idam tvam api viveśitha prabho suhṛd-janam viśaraṇam āśu rakṣitum .. 51.5 ..
गळोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते । द्रुतं भवान्विदलितकण्ठमण्डलो विमोचयन्पशुपशून् विनिर्ययौ ॥ 51.6 ॥
गळोदरे विपुलित-वर्ष्मणा त्वया महा-उरगे लुठति निरुद्ध-मारुते । द्रुतम् भवान् विदलित-कण्ठ-मण्डलः विमोचयन् पशु-पशून् विनिर्ययौ ॥ ५१।६ ॥
gal̤odare vipulita-varṣmaṇā tvayā mahā-urage luṭhati niruddha-mārute . drutam bhavān vidalita-kaṇṭha-maṇḍalaḥ vimocayan paśu-paśūn viniryayau .. 51.6 ..
क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् । विनिर्गते त्वयि तु निलीनमञ्जसा नभःस्थले ननृतुरथो जगुस्सुराः ॥ 51.7 ॥
क्षणम् दिवि त्वद्-उपगम-अर्थम् आस्थितम् महा-असुर-प्रभव-महः महः महत् । विनिर्गते त्वयि तु निलीनम् अञ्जसा नभः-स्थले ननृतुः अथो जगुः सुराः ॥ ५१।७ ॥
kṣaṇam divi tvad-upagama-artham āsthitam mahā-asura-prabhava-mahaḥ mahaḥ mahat . vinirgate tvayi tu nilīnam añjasā nabhaḥ-sthale nanṛtuḥ atho jaguḥ surāḥ .. 51.7 ..
सविस्मयैः कमलभवादिभिः सुरैरनुदृतस्तदनु गतः कुमारकैः । दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् ॥ 51.8 ॥
स विस्मयैः कमल-भव-आदिभिः सुरैः अनुदृतः तदनु गतः कुमारकैः । दिने पुनर् तरुण-दशाम् उपेयुषि स्वकैः भवान् अतनुत भोजन-उत्सवम् ॥ ५१।८ ॥
sa vismayaiḥ kamala-bhava-ādibhiḥ suraiḥ anudṛtaḥ tadanu gataḥ kumārakaiḥ . dine punar taruṇa-daśām upeyuṣi svakaiḥ bhavān atanuta bhojana-utsavam .. 51.8 ..
विषाणिकामपि मुरळीं नितम्बके निवेशयन्कबळधरः कराम्बुजे । प्रहासयन्कलवचनैः कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ 51.9 ॥
विषाणिकाम् अपि मुरळीम् नितम्बके निवेशयन् कबळ-धरः कर-अम्बुजे । प्रहासयन् कल-वचनैः कुमारकान् बुभोजिथ त्रिदश-गणैः मुदा नुतः ॥ ५१।९ ॥
viṣāṇikām api mural̤īm nitambake niveśayan kabal̤a-dharaḥ kara-ambuje . prahāsayan kala-vacanaiḥ kumārakān bubhojitha tridaśa-gaṇaiḥ mudā nutaḥ .. 51.9 ..
सुखाशनं त्विह तव गोपमण्डले मखाशनात्प्रियमिव देवमण्डले । इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरीनिलय गदात्प्रपाहि माम् ॥ 51.10 ॥
सुख-अशनम् तु इह तव गोप-मण्डले मख-अशनात् प्रियम् इव देव-मण्डले । इति स्तुतः त्रिदश-वरैः जगत्पते मरुत्-पुरी-निलय गदात् प्रपाहि माम् ॥ ५१।१० ॥
sukha-aśanam tu iha tava gopa-maṇḍale makha-aśanāt priyam iva deva-maṇḍale . iti stutaḥ tridaśa-varaiḥ jagatpate marut-purī-nilaya gadāt prapāhi mām .. 51.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In