| |
|

This overlay will guide you through the buttons:

अन्यावतारनिकरेष्वनिरीक्षितं तेभूमातिरेकमभिवीक्ष्य तदाघमोक्षे । ब्रह्मा परीक्षितुमनाः स परोक्षभावंनिन्येऽथ वत्सकगणान्प्रवितत्य मायाम् ॥ 52.1 ॥
अन्य-अवतार-निकरेषु अ निरीक्षितम् तेभूम-अतिरेकम् अभिवीक्ष्य तदा अघमोक्षे । ब्रह्मा परीक्षितु-मनाः स परोक्ष-भावम् निन्ये अथ वत्सक-गणान् प्रवितत्य मायाम् ॥ ५२।१ ॥
anya-avatāra-nikareṣu a nirīkṣitam tebhūma-atirekam abhivīkṣya tadā aghamokṣe . brahmā parīkṣitu-manāḥ sa parokṣa-bhāvam ninye atha vatsaka-gaṇān pravitatya māyām .. 52.1 ..
वत्सानवीक्ष्य विवशे पशुपोत्करे तानानेतुकाम इव धातृमतानुवर्ती । त्वं सामिभुक्तकबळो गतवांस्तदानींभुक्तांस्तिरोधित सरोजभवः कुमारान् ॥ 52.2 ॥
वत्सान् अ वीक्ष्य विवशे पशुप-उत्करे तान् आनेतु-कामः इव धातृमता अनुवर्ती । त्वम् सामिभुक्तक-बळः गतवान् तदानीम् भुक्तान् तिरोधित सरोजभवः कुमारान् ॥ ५२।२ ॥
vatsān a vīkṣya vivaśe paśupa-utkare tān ānetu-kāmaḥ iva dhātṛmatā anuvartī . tvam sāmibhuktaka-bal̤aḥ gatavān tadānīm bhuktān tirodhita sarojabhavaḥ kumārān .. 52.2 ..
वत्सायितस्तदनु गोपगणायितस्त्वंशिक्यादिभाण्डमुरळीगवलादिरूपः । प्राग्वद्विहृत्य विपिनेषु चिराय सायंत्वं माययाथ बहुधा व्रजमाययाथ ॥ 52.3 ॥
वत्सायितः तदनु गोप-गणायितः त्वम् शिक्य-आदि-भाण्ड-मुरळी-गवल-आदि-रूपः । प्राग्वत् विहृत्य विपिनेषु चिराय सायंत्वम् मायया अथ बहुधा व्रज-मायया अथ ॥ ५२।३ ॥
vatsāyitaḥ tadanu gopa-gaṇāyitaḥ tvam śikya-ādi-bhāṇḍa-mural̤ī-gavala-ādi-rūpaḥ . prāgvat vihṛtya vipineṣu cirāya sāyaṃtvam māyayā atha bahudhā vraja-māyayā atha .. 52.3 ..
त्वामेव शिक्यागवलादिमयं दधानोभूयस्त्वमेव पशुवत्सकबालरूपः । गोरूपिणीभिरपि गोपवधूमयीभिरासादितोऽसि जननीभिरतिप्रहर्षात् ॥ 52.4 ॥
त्वाम् एव शिक्य-आगवल-आदि-मयम् दधानः भूयस् त्वम् एव पशु-वत्सक-बाल-रूपः । गो-रूपिणीभिः अपि गोप-वधू-मयीभिः आसादितः असि जननीभिः अति प्रहर्षात् ॥ ५२।४ ॥
tvām eva śikya-āgavala-ādi-mayam dadhānaḥ bhūyas tvam eva paśu-vatsaka-bāla-rūpaḥ . go-rūpiṇībhiḥ api gopa-vadhū-mayībhiḥ āsāditaḥ asi jananībhiḥ ati praharṣāt .. 52.4 ..
जीवं हि किञ्चिदभिमानवशात्स्वकीयंमत्वा तनूज इति रागभरं वहन्त्यः । आत्मानमेव तु भवन्तमवाप्य सूनुंप्रीतिं ययुर्न कियतीं वनिताश्च गावः ॥ 52.5 ॥
जीवम् हि किञ्चिद् अभिमान-वशात् स्वकीयम् मत्वा तनूजः इति राग-भरम् वहन्त्यः । आत्मानम् एव तु भवन्तम् अवाप्य सूनुम् प्रीतिम् ययुः न कियतीम् वनिताः च गावः ॥ ५२।५ ॥
jīvam hi kiñcid abhimāna-vaśāt svakīyam matvā tanūjaḥ iti rāga-bharam vahantyaḥ . ātmānam eva tu bhavantam avāpya sūnum prītim yayuḥ na kiyatīm vanitāḥ ca gāvaḥ .. 52.5 ..
एवं प्रतिक्षणविजृम्भितहर्षभारनिश्शेषगोपगणलालितभूरिमूर्तिम् । त्वामग्रजोऽपि बुबुधे किल वत्सरान्तेब्रह्मात्मनोरपि महान्युवयोर्विशेषः ॥ 52.6 ॥
एवम् प्रति क्षण-विजृम्भित-हर्ष-भार-निश्शेष-गोप-गण-लालित-भूरि-मूर्तिम् । त्वाम् अग्रजः अपि बुबुधे किल वत्सर-अन्ते ब्रह्म-आत्मनोः अपि महान् युवयोः विशेषः ॥ ५२।६ ॥
evam prati kṣaṇa-vijṛmbhita-harṣa-bhāra-niśśeṣa-gopa-gaṇa-lālita-bhūri-mūrtim . tvām agrajaḥ api bubudhe kila vatsara-ante brahma-ātmanoḥ api mahān yuvayoḥ viśeṣaḥ .. 52.6 ..
वर्षावधौ नवपुरातनवत्सपालान्दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे । प्रादीदृशः प्रतिनवान्मकुटान्गदादिभूषांश्चतुर्भुजयुजः सजलाम्बुदाभान् ॥ 52.7 ॥
वर्ष-अवधौ नव-पुरातन-वत्स-पालान् दृष्ट्वा विवेक-मसृणे द्रुहिणे विमूढे । प्रादीदृशः प्रतिनवान् मकुटान् गदा-आदि-भूषान् चतुर्-भुज-युजः स जल-अम्बुद-आभान् ॥ ५२।७ ॥
varṣa-avadhau nava-purātana-vatsa-pālān dṛṣṭvā viveka-masṛṇe druhiṇe vimūḍhe . prādīdṛśaḥ pratinavān makuṭān gadā-ādi-bhūṣān catur-bhuja-yujaḥ sa jala-ambuda-ābhān .. 52.7 ..
प्रत्येकमेव कमलापरिलालिताङ्गान्भोगीन्द्रभोगशयनान्नयनाभिरामान् । लीलानिमीलितदृशः सनकादियोगिव्यासेवितान्कमलभूर्भवतो ददर्श ॥ 52.8 ॥
प्रत्येकम् एव कमला-परिलालित-अङ्गान् भोगि-इन्द्र-भोग-शयनान् नयन-अभिरामान् । लीला-निमीलित-दृशः सनक-आदि-योगि-व्यासेवितान् कमलभूः भवतः ददर्श ॥ ५२।८ ॥
pratyekam eva kamalā-parilālita-aṅgān bhogi-indra-bhoga-śayanān nayana-abhirāmān . līlā-nimīlita-dṛśaḥ sanaka-ādi-yogi-vyāsevitān kamalabhūḥ bhavataḥ dadarśa .. 52.8 ..
नारायणाकृतिमसंख्यतमान्निरीक्ष्यसर्वत्र सेवकमपि स्वमवेक्ष्य धाता । मायानिमग्नहृदयो विमुमोह यावदेको बभूविथ तदा कबळार्धपाणिः ॥ 52.9 ॥
नारायण-आकृतिम् असंख्यतमात् निरीक्ष्य सर्वत्र सेवकम् अपि स्वम् अवेक्ष्य धाता । माया-निमग्न-हृदयः विमुमोह यावत् एकः बभूविथ तदा कबळ-अर्ध-पाणिः ॥ ५२।९ ॥
nārāyaṇa-ākṛtim asaṃkhyatamāt nirīkṣya sarvatra sevakam api svam avekṣya dhātā . māyā-nimagna-hṛdayaḥ vimumoha yāvat ekaḥ babhūvitha tadā kabal̤a-ardha-pāṇiḥ .. 52.9 ..
नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वांनत्वा च नूतवति धातरि धाम याते । पोतैः समं प्रमुदितैः प्रविशन्निकेतंवातालयाधिप विभो परिपाहि रोगात् ॥ 52.10 ॥
नश्यत्-मदे तदनु विश्वपतिम् मुहुर् त्वाम् नत्वा च नूतवति धातरि धाम याते । पोतैः समम् प्रमुदितैः प्रविशन् निकेतम् वातालय-अधिप विभो परिपाहि रोगात् ॥ ५२।१० ॥
naśyat-made tadanu viśvapatim muhur tvām natvā ca nūtavati dhātari dhāma yāte . potaiḥ samam pramuditaiḥ praviśan niketam vātālaya-adhipa vibho paripāhi rogāt .. 52.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In