| |
|

This overlay will guide you through the buttons:

अतीत्य बाल्यं जगतां पते त्वम् उपेत्य पौगण्डवयो मनोज्ञम् । उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥ 53.1 ॥
अतीत्य बाल्यम् जगताम् पते त्वम् उपेत्य पौगण्ड-वयः मनोज्ञम् । उपेक्ष्य वत्सैः वनम् उत्सवेन प्रावर्तथाः गो-गण-पालनायाम् ॥ ५३।१ ॥
atītya bālyam jagatām pate tvam upetya paugaṇḍa-vayaḥ manojñam . upekṣya vatsaiḥ vanam utsavena prāvartathāḥ go-gaṇa-pālanāyām .. 53.1 ..
उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्तिः । गोत्रापरित्राणकृतेऽवतीणस्तदेव देवाऽऽरभथास्तदा यत् ॥ 53.2 ॥
उपक्रमस्य अनुगुणा एव सा इयम् मरुत्-पुर-अधीश तव प्रवृत्तिः । गोत्रा-परित्राण-कृते अवतीणः तत् एव देव आरभथाः तदा यत् ॥ ५३।२ ॥
upakramasya anuguṇā eva sā iyam marut-pura-adhīśa tava pravṛttiḥ . gotrā-paritrāṇa-kṛte avatīṇaḥ tat eva deva ārabhathāḥ tadā yat .. 53.2 ..
कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन्सुखेन । श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥ 53.3 ॥
कदापि रामेण समम् वनान्ते वन-श्रियम् वीक्ष्य चरन् सुखेन । श्रीदाम-नाम्नः स्व-सखस्य वाचा मोदात् अगाः धेनुक-काननम् त्वम् ॥ ५३।३ ॥
kadāpi rāmeṇa samam vanānte vana-śriyam vīkṣya caran sukhena . śrīdāma-nāmnaḥ sva-sakhasya vācā modāt agāḥ dhenuka-kānanam tvam .. 53.3 ..
उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् । मृदुः खरश्चाभ्यपतत्पुरस्तात् फलोत्करो धेनुकदानवोऽपि ॥ 53.4 ॥
उत्ताल-ताली-निवहे त्वद्-उक्त्या बलेन धूते अथ बलेन दोर्भ्याम् । मृदुः खरः च अभ्यपतत् पुरस्तात् फल-उत्करः धेनुक-दानवः अपि ॥ ५३।४ ॥
uttāla-tālī-nivahe tvad-uktyā balena dhūte atha balena dorbhyām . mṛduḥ kharaḥ ca abhyapatat purastāt phala-utkaraḥ dhenuka-dānavaḥ api .. 53.4 ..
समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे । इतीव मत्वा ध्रुवमग्रजेन सुरौघयोद्धारमजीघतस्त्वम् ॥ 53.5 ॥
समुद्यतः धैनुक-पालने अहम् वधम् कथम् धैनुकम् अद्य कुर्वे । इति इव मत्वा ध्रुवम् अग्रजेन सुरौघया उद्धारम् अजीघतः त्वम् ॥ ५३।५ ॥
samudyataḥ dhainuka-pālane aham vadham katham dhainukam adya kurve . iti iva matvā dhruvam agrajena suraughayā uddhāram ajīghataḥ tvam .. 53.5 ..
तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् । जम्बूफलानीव तदा निरास्थस्तालेषु खेलन्भगवन् निरास्थः ॥ 53.6 ॥
तदीय-भृत्यान् अपि जम्बुक-त्वेन उपागतान् अग्रज-संयुतः त्वम् । जम्बू-फलानि इव तदा निरास्थः तालेषु खेलन् भगवत् निरास्थः ॥ ५३।६ ॥
tadīya-bhṛtyān api jambuka-tvena upāgatān agraja-saṃyutaḥ tvam . jambū-phalāni iva tadā nirāsthaḥ tāleṣu khelan bhagavat nirāsthaḥ .. 53.6 ..
विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम् । भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ॥ 53.7 ॥
विनिघ्नति त्वयि अथ जम्बुक-ओघम् सनामक-त्वात् वरुणः तदानीम् । भय-आकुलः जम्बुक-नामधेयम् श्रुति-प्रसिद्धम् व्यधित इति मन्ये ॥ ५३।७ ॥
vinighnati tvayi atha jambuka-ogham sanāmaka-tvāt varuṇaḥ tadānīm . bhaya-ākulaḥ jambuka-nāmadheyam śruti-prasiddham vyadhita iti manye .. 53.7 ..
तवावतारस्य फलं मुरारे सञ्जातमद्येति सुरैर्नुतस्त्वम् । सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुङ्क्थाः ॥ 53.8 ॥
तव अवतारस्य फलम् मुरारे सञ्जातम् अद्या इति सुरैः नुतः त्वम् । सत्यम् फलम् जातम् इह इति हासी बालैः समम् ताल-फलानि अभुङ्क्थाः ॥ ५३।८ ॥
tava avatārasya phalam murāre sañjātam adyā iti suraiḥ nutaḥ tvam . satyam phalam jātam iha iti hāsī bālaiḥ samam tāla-phalāni abhuṅkthāḥ .. 53.8 ..
मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा । तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् ॥ 53.9 ॥
मधु-द्रव-स्रुन्ति बृहन्ति तानि फलानि मेदः-भर-भृन्ति भुक्त्वा । तृप्तैः च दृप्तैः भवनम् फल-ओघम् वहद्भिः आगाः खलु बालकैः त्वम् ॥ ५३।९ ॥
madhu-drava-srunti bṛhanti tāni phalāni medaḥ-bhara-bhṛnti bhuktvā . tṛptaiḥ ca dṛptaiḥ bhavanam phala-ogham vahadbhiḥ āgāḥ khalu bālakaiḥ tvam .. 53.9 ..
हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः । जयेति जीवेति नुतो विभो त्वं मरुत्पुराधीश्वर पाहि रोगात् ॥ 53.10 ॥
हतः हतः धेनुकः इति उपेत्य फलानि अदद्भिः मधुराणि लोकैः । जय इति जीव इति नुतः विभो त्वम् मरुत्-पुर-अधीश्वर पाहि रोगात् ॥ ५३।१० ॥
hataḥ hataḥ dhenukaḥ iti upetya phalāni adadbhiḥ madhurāṇi lokaiḥ . jaya iti jīva iti nutaḥ vibho tvam marut-pura-adhīśvara pāhi rogāt .. 53.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In