| |
|

This overlay will guide you through the buttons:

त्वत्सेवोत्कः सौभारिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् । मीनव्राते स्नेहवान्भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥ 54.1 ॥
त्वद्-सेवा-उत्कः सौभारिः नाम पूर्वम् कालिन्दी-अन्तर् द्वादश-अब्दम् तपस्यन् । मीनव्राते स्नेहवान् भोग-लोले तार्क्ष्यम् साक्षात् ऐक्षत अग्रे कदाचिद् ॥ ५४।१ ॥
tvad-sevā-utkaḥ saubhāriḥ nāma pūrvam kālindī-antar dvādaśa-abdam tapasyan . mīnavrāte snehavān bhoga-lole tārkṣyam sākṣāt aikṣata agre kadācid .. 54.1 ..
त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन् सः । तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता ॥ 54.2 ॥
त्वद्-वाहम् तम् स क्षुधम् तृक्ष-सूनुम् मीनम् कञ्चिद् जक्षतम् लक्षयन् सः । तप्तः चित्ते शप्तवान् अत्र चेद् त्वम् जन्तून् भोक्ता जीवितम् च अपि मोक्ता ॥ ५४।२ ॥
tvad-vāham tam sa kṣudham tṛkṣa-sūnum mīnam kañcid jakṣatam lakṣayan saḥ . taptaḥ citte śaptavān atra ced tvam jantūn bhoktā jīvitam ca api moktā .. 54.2 ..
तस्मिन्काले काइयः क्ष्वेळदर्पात्सर्पारातेः कल्पितं भागमश्नन् । तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥ 54.3 ॥
तस्मिन् काले काइयः क्ष्वेळ-दर्पात् सर्प-अरातेः कल्पितम् भागम् अश्नन् । तेन क्रोधात् त्वद्-पद-अम्भोज-भाजा पक्ष-क्षिप्तः तत् दुरापम् पयः अगात् ॥ ५४।३ ॥
tasmin kāle kāiyaḥ kṣvel̤a-darpāt sarpa-arāteḥ kalpitam bhāgam aśnan . tena krodhāt tvad-pada-ambhoja-bhājā pakṣa-kṣiptaḥ tat durāpam payaḥ agāt .. 54.3 ..
घोरे तस्मिन्सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेळवेगात् । पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥ 54.4 ॥
घोरे तस्मिन् सूरज-नीर-वासे तीरे वृक्षाः विक्षताः क्ष्वेळ-वेगात् । पक्षि-व्राताः पेतुः अभ्रे पतन्तः कारुण्य-आर्द्रम् त्वद्-मनः तेन जातम् ॥ ५४।४ ॥
ghore tasmin sūraja-nīra-vāse tīre vṛkṣāḥ vikṣatāḥ kṣvel̤a-vegāt . pakṣi-vrātāḥ petuḥ abhre patantaḥ kāruṇya-ārdram tvad-manaḥ tena jātam .. 54.4 ..
काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् । त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन् क्ष्वेळतोयम् ॥ 54.5 ॥
काले तस्मिन् एकदा सीरपाणिम् मुक्त्वा याते यामुनम् कानन-अन्तम् । त्वयि उद्दाम-ग्रीष्म-भीष्म-ऊष्म-तप्ताः गो-गोपालाः व्यापिबन् क्ष्वेळ-तोयम् ॥ ५४।५ ॥
kāle tasmin ekadā sīrapāṇim muktvā yāte yāmunam kānana-antam . tvayi uddāma-grīṣma-bhīṣma-ūṣma-taptāḥ go-gopālāḥ vyāpiban kṣvel̤a-toyam .. 54.5 ..
नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत त्वं दयार्द्रः । प्राप्योपान्तं जीवयामासिथ द्राक् पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ॥ 54.6 ॥
नश्यत्-जीवान् विच्युतान् क्ष्मा-तले तान् विश्वान् पश्यन् अच्युत त्वम् दया-आर्द्रः । प्राप्य उपान्तम् जीवयामासिथ द्राक् पीयूष-अम्भः-वर्षिभिः श्री-कटाक्षैः ॥ ५४।६ ॥
naśyat-jīvān vicyutān kṣmā-tale tān viśvān paśyan acyuta tvam dayā-ārdraḥ . prāpya upāntam jīvayāmāsitha drāk pīyūṣa-ambhaḥ-varṣibhiḥ śrī-kaṭākṣaiḥ .. 54.6 ..
किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः । दृष्ट्वाऽग्रे त्वां त्वत्कृतं तद्विदन्तस्त्वामालिङ्गन् दृष्टनानाप्रभावाः ॥ 54.7 ॥
किम् किम् जातः हर्ष-वर्ष-अतिरेकः सर्व-अङ्गेषु इति उत्थिताः गोप-सङ्घाः । दृष्ट्वा अग्रे त्वाम् त्वद्-कृतम् तद्-विदन्तः त्वाम् आलिङ्गन् दृष्ट-नाना प्रभावाः ॥ ५४।७ ॥
kim kim jātaḥ harṣa-varṣa-atirekaḥ sarva-aṅgeṣu iti utthitāḥ gopa-saṅghāḥ . dṛṣṭvā agre tvām tvad-kṛtam tad-vidantaḥ tvām āliṅgan dṛṣṭa-nānā prabhāvāḥ .. 54.7 ..
गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् । द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥ 54.8 ॥
गावः च एवम् लब्ध-जीवाः क्षणेन स्फीत-आनन्दाः त्वाम् च दृष्ट्वा पुरस्तात् । द्राक् आवव्रुः सर्वतस् हर्ष-बाष्पम् व्यामुञ्चन्त्यः मन्दम् उद्यत्-निनादाः ॥ ५४।८ ॥
gāvaḥ ca evam labdha-jīvāḥ kṣaṇena sphīta-ānandāḥ tvām ca dṛṣṭvā purastāt . drāk āvavruḥ sarvatas harṣa-bāṣpam vyāmuñcantyaḥ mandam udyat-ninādāḥ .. 54.8 ..
रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा । आश्चर्योऽयं क्ष्वेळवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ॥ 54.9 ॥
रोमाञ्चः अयम् सर्वतस् नः शरीरे भूयसी अन्तर् काचिद् आनन्द-मूर्छा । आश्चर्यः अयम् क्ष्वेळवेगः मुकुन्द-इति उक्तः गोपैः नन्दितः वन्दितः अभूः ॥ ५४।९ ॥
romāñcaḥ ayam sarvatas naḥ śarīre bhūyasī antar kācid ānanda-mūrchā . āścaryaḥ ayam kṣvel̤avegaḥ mukunda-iti uktaḥ gopaiḥ nanditaḥ vanditaḥ abhūḥ .. 54.9 ..
एवं भक्तान्मुक्तजीवानपि त्वं मुग्धापाङ्कैरस्तरोगांस्तनोषि । तादृग्भूतस्फीतकारुण्यभूमा रोगात्पाया वायुगेहाधिनाथ ॥ 54.10 ॥
एवम् भक्तान् मुक्त-जीवान् अपि त्वम् मुग्ध-अपाङ्कैः अस्त-रोगान् तनोषि । तादृश्-भूत-स्फीत-कारुण्य-भूमा रोगात् पायाः वायुगेह-अधिनाथ ॥ ५४।१० ॥
evam bhaktān mukta-jīvān api tvam mugdha-apāṅkaiḥ asta-rogān tanoṣi . tādṛś-bhūta-sphīta-kāruṇya-bhūmā rogāt pāyāḥ vāyugeha-adhinātha .. 54.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In