| |
|

This overlay will guide you through the buttons:

रुचिरकम्पितकुण्डलमण्डलः सुचिरमीश ननर्तिथ पन्नगे । अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥ 56.1 ॥
रुचिर-कम्पित-कुण्डल-मण्डलः सु चिरम् ईश ननर्तिथ पन्नगे । अमर-ताडित-दुन्दुभि-सुन्दरम् वियति गायति दैवत-यौवते ॥ ५६।१ ॥
rucira-kampita-kuṇḍala-maṇḍalaḥ su ciram īśa nanartitha pannage . amara-tāḍita-dundubhi-sundaram viyati gāyati daivata-yauvate .. 56.1 ..
नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् । परिमथन्पदपङ्करुहा चिरं व्यहरथाः करताळमनोहरम् ॥ 56.2 ॥
नमति यत् यत् अमुष्य शिरः हरे परिविहाय तत् उन्नतम् उन्नतम् । परिमथन् पद-पङ्क-रुहा चिरम् व्यहरथाः कर-ताळ-मनोहरम् ॥ ५६।२ ॥
namati yat yat amuṣya śiraḥ hare parivihāya tat unnatam unnatam . parimathan pada-paṅka-ruhā ciram vyaharathāḥ kara-tāl̤a-manoharam .. 56.2 ..
त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि । फणिपताववसीदति सन्नतास्तदबलास्तव माधव पादयोः ॥ 56.3 ॥
त्वद्-अवभग्न-विभुग्न-फणा-गणे गलित-शोणित-शोणित-पाथसि । फणिपतौ अवसीदति सन्नताः तद्-अबलाः तव माधव पादयोः ॥ ५६।३ ॥
tvad-avabhagna-vibhugna-phaṇā-gaṇe galita-śoṇita-śoṇita-pāthasi . phaṇipatau avasīdati sannatāḥ tad-abalāḥ tava mādhava pādayoḥ .. 56.3 ..
अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः । मुनिभिरप्यनवाष्यपथैः स्तवैर्नुनुवुरीश भवन्तमयन्त्रितम् ॥ 56.4 ॥
अयि पुरा एव चिराय परिश्रुत-त्वद्-अनुभाव-विलीन-हृदः हि ताः । मुनिभिः अपि अनवाष्य-पथैः स्तवैः नुनुवुः ईश भवन्तम् अ यन्त्रितम् ॥ ५६।४ ॥
ayi purā eva cirāya pariśruta-tvad-anubhāva-vilīna-hṛdaḥ hi tāḥ . munibhiḥ api anavāṣya-pathaiḥ stavaiḥ nunuvuḥ īśa bhavantam a yantritam .. 56.4 ..
फणिवधूजनभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा । फणिपतिर्भवताच्युत जीवितस्त्वजि समर्पितमूर्तिरवानमत् ॥ 56.5 ॥
फणि-वधू-जन-भक्ति-विलोकन-प्रविकसत्-करुणा-आकुल-चेतसा । फणिपतिः भवता अच्युत जीवितः तु अजि समर्पित-मूर्तिः अवानमत् ॥ ५६।५ ॥
phaṇi-vadhū-jana-bhakti-vilokana-pravikasat-karuṇā-ākula-cetasā . phaṇipatiḥ bhavatā acyuta jīvitaḥ tu aji samarpita-mūrtiḥ avānamat .. 56.5 ..
रमणकं व्रजे वारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् । इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगैः समम् ॥ 56.6 ॥
रमणकम् व्रजे वारिधि-मध्य-गम् फणि-रिपुः न करोति विरोधि-ताम् । इति भवत्-वचनानि अतिमानयन् फणिपतिः निरगात् उरगैः समम् ॥ ५६।६ ॥
ramaṇakam vraje vāridhi-madhya-gam phaṇi-ripuḥ na karoti virodhi-tām . iti bhavat-vacanāni atimānayan phaṇipatiḥ niragāt uragaiḥ samam .. 56.6 ..
फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः । तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥ 56.7 ॥
। तट-गतैः प्रमदा-अश्रु-विमिश्रितैः समगथाः स्व-जनैः दिवस-अवधौ ॥ ५६।७ ॥
. taṭa-gataiḥ pramadā-aśru-vimiśritaiḥ samagathāḥ sva-janaiḥ divasa-avadhau .. 56.7 ..
निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे । स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥ 56.8 ॥
निशि पुनर् तमसा व्रज-मन्दिरम् व्रजितुम् अक्षमे एव जन-उत्करे । स्वपति तत्र भवत्-चरण-आश्रये दव-कृशानुः अरुन्ध समन्ततः ॥ ५६।८ ॥
niśi punar tamasā vraja-mandiram vrajitum akṣame eva jana-utkare . svapati tatra bhavat-caraṇa-āśraye dava-kṛśānuḥ arundha samantataḥ .. 56.8 ..
प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् । अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥ 56.9 ॥
प्रबुधितान् अथ पालय पालय इति उदय-द-आर्त-रवान् पशुपालकान् । अवितुम् आशु पपाथ महा-अनलम् किम् इह चित्र-मयम् खलु ते मुखम् ॥ ५६।९ ॥
prabudhitān atha pālaya pālaya iti udaya-da-ārta-ravān paśupālakān . avitum āśu papātha mahā-analam kim iha citra-mayam khalu te mukham .. 56.9 ..
शिखिन वर्णत एव हि पीतता परिलसत्युधना क्रिययाऽप्यसौ । इति नुतः पशुपैर्मुदितैर्विभो हर हरे दुरितैः सह मे गदान् ॥ 56.10 ॥
शिखिन वर्णतः एव हि पीत-ता क्रियया अपि असौ । इति नुतः पशुपैः मुदितैः विभो हर हरे दुरितैः सह मे गदान् ॥ ५६।१० ॥
śikhina varṇataḥ eva hi pīta-tā kriyayā api asau . iti nutaḥ paśupaiḥ muditaiḥ vibho hara hare duritaiḥ saha me gadān .. 56.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In