| |
|

This overlay will guide you through the buttons:

रामसखः क्वापि दिने कामद भगवन् गतो भवान्विपिनम् । सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥ 57.1 ॥
राम-सखः क्वापि दिने काम-द भगवन् गतः भवान् विपिनम् । सूनुभिः अपि गोपानाम् धेनुभिः अभिसंवृतः लसत्-वेषः ॥ ५७।१ ॥
rāma-sakhaḥ kvāpi dine kāma-da bhagavan gataḥ bhavān vipinam . sūnubhiḥ api gopānām dhenubhiḥ abhisaṃvṛtaḥ lasat-veṣaḥ .. 57.1 ..
सन्दर्शयन्बलाय स्वैरं बृन्दावनश्रियं विमलाम् । काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥ 57.2 ॥
सन्दर्शयन् बलाय स्वैरम् बृन्दावन-श्रियम् विमलाम् । काण्डीरैः सह बालैः भाण्डीरकम् आगमः वटम् क्रीडन् ॥ ५७।२ ॥
sandarśayan balāya svairam bṛndāvana-śriyam vimalām . kāṇḍīraiḥ saha bālaiḥ bhāṇḍīrakam āgamaḥ vaṭam krīḍan .. 57.2 ..
तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः । दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥ 57.3 ॥
तावत् तावक-निधन-स्पृहयालुः गोप-मूर्तिः अदयालुः । दैत्यः प्रलम्ब-नामा प्रलम्ब-बाहुम् भवन्तम् आपेदे ॥ ५७।३ ॥
tāvat tāvaka-nidhana-spṛhayāluḥ gopa-mūrtiḥ adayāluḥ . daityaḥ pralamba-nāmā pralamba-bāhum bhavantam āpede .. 57.3 ..
जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः । वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धाः ॥ 57.4 ॥
जानन् अपि अ विजानन् इव तेन समम् निबद्ध-सौहार्दः । वट-निकटे पटु-पशुप-व्याबद्धम् द्वन्द्व-युद्धम् आरब्धाः ॥ ५७।४ ॥
jānan api a vijānan iva tena samam nibaddha-sauhārdaḥ . vaṭa-nikaṭe paṭu-paśupa-vyābaddham dvandva-yuddham ārabdhāḥ .. 57.4 ..
गोपान्विभज्य तन्वन्सङ्घं बलभद्रकं भवत्कमपि । त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन् ॥ 57.5 ॥
गोपान् विभज्य तन्वन् सङ्घम् बलभद्रकम् भवत्कम् अपि । त्वद्-बल-भीरुम् दैत्यम् त्वद्-बल-गतम् अन्वमन्यथाः भगवन् ॥ ५७।५ ॥
gopān vibhajya tanvan saṅgham balabhadrakam bhavatkam api . tvad-bala-bhīrum daityam tvad-bala-gatam anvamanyathāḥ bhagavan .. 57.5 ..
कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् । श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ 57.6 ॥
कल्पित-विजेतृ-वहने समरे पर-यूथ-गम् स्व-दयिततरम् । श्रीदामानम् अधत्थाः पराजितः भक्त-दास-ताम् प्रथयन् ॥ ५७।६ ॥
kalpita-vijetṛ-vahane samare para-yūtha-gam sva-dayitataram . śrīdāmānam adhatthāḥ parājitaḥ bhakta-dāsa-tām prathayan .. 57.6 ..
एवं बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु । रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ 57.7 ॥
एवम् बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु । राम-विजितः प्रलम्बः जहार तम् दूरतस् भवत्-भीत्या ॥ ५७।७ ॥
evam bahuṣu vibhūman bāleṣu vahatsu vāhyamāneṣu . rāma-vijitaḥ pralambaḥ jahāra tam dūratas bhavat-bhītyā .. 57.7 ..
त्वद्दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे । दैत्यः स्वरूपमागाद्यद्रूपात्स हि बलोऽपि चकितोऽभूत् ॥ 57.8 ॥
त्वद्-दूरम् गमयन्तम् तम् दृष्ट्वा हलिनि विहित-गरिम-भरे । दैत्यः स्व-रूपम् आगात् यत् रूपात् स हि बलः अपि चकितः अभूत् ॥ ५७।८ ॥
tvad-dūram gamayantam tam dṛṣṭvā halini vihita-garima-bhare . daityaḥ sva-rūpam āgāt yat rūpāt sa hi balaḥ api cakitaḥ abhūt .. 57.8 ..
उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः । विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥ 57.9 ॥
उच्च-तया दैत्य-तनोः त्वद्-मुखम् आलोक्य दूरतस् रामः । विगतभयः दृढ-मुष्ट्या भृश-दुष्टम् सपदि पिष्टवान् एनम् ॥ ५७।९ ॥
ucca-tayā daitya-tanoḥ tvad-mukham ālokya dūratas rāmaḥ . vigatabhayaḥ dṛḍha-muṣṭyā bhṛśa-duṣṭam sapadi piṣṭavān enam .. 57.9 ..
हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा । तावन्मिळतोर्युवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ 57.10 ॥
हत्वा दानव-वीरम् प्राप्तम् बलम् आलिलिङ्गिथ प्रेम्णा । तावत् मिळतोः युवयोः शिरसि कृता पुष्प-वृष्टिः अमर-गणैः ॥ ५७।१० ॥
hatvā dānava-vīram prāptam balam āliliṅgitha premṇā . tāvat mil̤atoḥ yuvayoḥ śirasi kṛtā puṣpa-vṛṣṭiḥ amara-gaṇaiḥ .. 57.10 ..
आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् । कालं विहाय सद्यो लोलम्बरुचे हरे हरेः क्लेशान् ॥ 57.11 ॥
आलम्बः भुवनानाम् प्रालम्बम् निधनम् एवम् आरचयन् । कालम् विहाय सद्यस् लोलम्ब-रुचे हरे हरेः क्लेशान् ॥ ५७।११ ॥
ālambaḥ bhuvanānām prālambam nidhanam evam āracayan . kālam vihāya sadyas lolamba-ruce hare hareḥ kleśān .. 57.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In