| |
|

This overlay will guide you through the buttons:

त्वद्वपुर्नवकलायकोमळं प्रेमदोहनमशेषमोहनम् । ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥ 59.1 ॥
त्वद्-वपुः नव-कलाय-कोमळम् प्रेम-दोहनम् अशेष-मोहनम् । ब्रह्मा तत्त्व-पर-चित्-मुद्-आत्मकम् वीक्ष्य सम्मुमुहुः अन्वहम् स्त्रियः ॥ ५९।१ ॥
tvad-vapuḥ nava-kalāya-komal̤am prema-dohanam aśeṣa-mohanam . brahmā tattva-para-cit-mud-ātmakam vīkṣya sammumuhuḥ anvaham striyaḥ .. 59.1 ..
मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः । गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे ॥ 59.2 ॥
मन्मथ-उन्मथित-मानसाः क्रमात् त्वद्-विलोकन-रताः ततस् ततस् । गोपिकाः तव न सेहिरे हरे कानन-उपगतिम् अपि अहर्-मुखे ॥ ५९।२ ॥
manmatha-unmathita-mānasāḥ kramāt tvad-vilokana-ratāḥ tatas tatas . gopikāḥ tava na sehire hare kānana-upagatim api ahar-mukhe .. 59.2 ..
निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः । वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥ 59.3 ॥
निर्गते भवति दत्त-दृष्टयः त्वद्-गतेन मनसा मृग-ईक्षणाः । वेणु-नादम् उपकर्ण्य दूरतस् त्वद्-विलास-कथया अभिरेमिरे ॥ ५९।३ ॥
nirgate bhavati datta-dṛṣṭayaḥ tvad-gatena manasā mṛga-īkṣaṇāḥ . veṇu-nādam upakarṇya dūratas tvad-vilāsa-kathayā abhiremire .. 59.3 ..
काननान्तमितवान्भवानपि स्निग्धपादपतले मनोरमे । व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनाळिकाम् ॥ 59.4 ॥
कानन-अन्तमितवान् भवान् अपि स्निग्ध-पादप-तले मनोरमे । व्यत्यय-आकलित-पादम् आस्थितः प्रत्यपूरयत वेणु-नाळिकाम् ॥ ५९।४ ॥
kānana-antamitavān bhavān api snigdha-pādapa-tale manorame . vyatyaya-ākalita-pādam āsthitaḥ pratyapūrayata veṇu-nāl̤ikām .. 59.4 ..
मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् । द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् ॥ 59.5 ॥
मार-बाण-धुत-खेचरी-कुलम् निर्विकार-पशु-पक्षि-मण्डलम् । द्रावणम् च दृषदाम् अपि प्रभो तावकम् व्यजनि वेणु-कूजितम् ॥ ५९।५ ॥
māra-bāṇa-dhuta-khecarī-kulam nirvikāra-paśu-pakṣi-maṇḍalam . drāvaṇam ca dṛṣadām api prabho tāvakam vyajani veṇu-kūjitam .. 59.5 ..
वेणुरन्ध्रतरलाङ्गुलीदलं ताळसञ्चलितपादपल्लवम् । तत्स्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहुर्व्रजाङ्गनाः ॥ 59.6 ॥
वेणु-रन्ध्र-तरल-अङ्गुली-दलम् ताळ-सञ्चलित-पाद-पल्लवम् । तत् स्थितम् तव परोक्षम् अपि अहो संविचिन्त्य मुमुहुः व्रज-अङ्गनाः ॥ ५९।६ ॥
veṇu-randhra-tarala-aṅgulī-dalam tāl̤a-sañcalita-pāda-pallavam . tat sthitam tava parokṣam api aho saṃvicintya mumuhuḥ vraja-aṅganāḥ .. 59.6 ..
निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान्पशूनपि । त्वत्पदप्रणयि काननं च ताः धन्यधन्यमिति नन्वमानयन् ॥ 59.7 ॥
निर्विशङ्क-भवत्-अङ्ग-दर्शिनीः खेचरीः खग-मृगान् पशून् अपि । त्वद्-पद-प्रणयि काननम् च ताः धन्य-धन्यम् इति ननु अमानयन् ॥ ५९।७ ॥
nirviśaṅka-bhavat-aṅga-darśinīḥ khecarīḥ khaga-mṛgān paśūn api . tvad-pada-praṇayi kānanam ca tāḥ dhanya-dhanyam iti nanu amānayan .. 59.7 ..
आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा । दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥ 59.8 ॥
आपिषेयम् अधर-अमृतम् कदा वेणु-भुक्त-रस-शेषम् एकदा । दूरतस् बत कृतम् दुराशया इति आकुलाः मुहुर् इमाः समामुहन् ॥ ५९।८ ॥
āpiṣeyam adhara-amṛtam kadā veṇu-bhukta-rasa-śeṣam ekadā . dūratas bata kṛtam durāśayā iti ākulāḥ muhur imāḥ samāmuhan .. 59.8 ..
प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् । बद्धरागविवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् ॥ 59.9 ॥
प्रत्यहम् च पुनर् इत्थम् अङ्गनाः चित्त-योनि-जनितात् अनुग्रहात् । बद्ध-राग-विवशाः त्वयि प्रभो नित्यम् आपुः इह कृत्य-मूढ-ताम् ॥ ५९।९ ॥
pratyaham ca punar ittham aṅganāḥ citta-yoni-janitāt anugrahāt . baddha-rāga-vivaśāḥ tvayi prabho nityam āpuḥ iha kṛtya-mūḍha-tām .. 59.9 ..
रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् । तासां त्वेकं तद्द्वयं लब्धमासीद्भाग्यं भाग्यं पाहि मां मारुतेश ॥ 59.10 ॥
रागः तावत् जायते हि स्वभावात् मोक्ष-उपाये यत्नतः स्यात् न वा स्यात् । तासाम् तु एकम् तत् द्वयम् लब्धम् आसीत् भाग्यम् भाग्यम् पाहि माम् मारुतेश ॥ ५९।१० ॥
rāgaḥ tāvat jāyate hi svabhāvāt mokṣa-upāye yatnataḥ syāt na vā syāt . tāsām tu ekam tat dvayam labdham āsīt bhāgyam bhāgyam pāhi mām māruteśa .. 59.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In