| |
|

This overlay will guide you through the buttons:

मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्यया । यमुनातटसीम्नि सैकतीं तरळाक्ष्यो गिरिजां समार्चिचन् ॥ 60.1 ॥
मदन-आतुर-चेतसः अन्वहम् भवत्-अङ्घ्रि-द्वय-दास्य-काम्यया । यमुना-तट-सीम्नि सैकतीम् तरळ-अक्ष्यः गिरिजाम् समार्चिचन् ॥ ६०।१ ॥
madana-ātura-cetasaḥ anvaham bhavat-aṅghri-dvaya-dāsya-kāmyayā . yamunā-taṭa-sīmni saikatīm taral̤a-akṣyaḥ girijām samārcican .. 60.1 ..
तव नामकथारताः समं सुदृशः प्रातरुपागताः नदीम् । उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥ 60.2 ॥
तव नाम-कथा-रताः समम् सुदृशः प्रातर् उपागताः नदीम् । उपहार-शतैः अपूजयन् दयितः नन्दसुतः भवेत् इति ॥ ६०।२ ॥
tava nāma-kathā-ratāḥ samam sudṛśaḥ prātar upāgatāḥ nadīm . upahāra-śataiḥ apūjayan dayitaḥ nandasutaḥ bhavet iti .. 60.2 ..
इति मासमुपाहितव्रतास्तरळाक्षीरभिवीक्ष्य ता भवान् । करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥ 60.3 ॥
इति मासम् उपाहित-व्रताः तरळाक्षीः अभिवीक्ष्य ताः भवान् । करुणा-मृदुलः नदी-तटम् समया आसीत् तद्-अनुग्रह-इच्छया ॥ ६०।३ ॥
iti māsam upāhita-vratāḥ taral̤ākṣīḥ abhivīkṣya tāḥ bhavān . karuṇā-mṛdulaḥ nadī-taṭam samayā āsīt tad-anugraha-icchayā .. 60.3 ..
नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा । यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥ 60.4 ॥
नियम-अवसितौ निज-अम्बरम् तट-सीमनि अवमुच्य ताः तदा । यमुना-जल-खेलन-आकुलाः पुरतस् त्वाम् अवलोक्य लज्जिताः ॥ ६०।४ ॥
niyama-avasitau nija-ambaram taṭa-sīmani avamucya tāḥ tadā . yamunā-jala-khelana-ākulāḥ puratas tvām avalokya lajjitāḥ .. 60.4 ..
त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके । निहितं परिगृह्य भूरुहो विटपं त्वं तरसाधिरूढवान् ॥ 60.5 ॥
त्रपया नमित-आननासु अथो वनितासु अम्बर-जालम् अन्तिके । निहितम् परिगृह्य भूरुहः विटपम् त्वम् तरसा अधिरूढवान् ॥ ६०।५ ॥
trapayā namita-ānanāsu atho vanitāsu ambara-jālam antike . nihitam parigṛhya bhūruhaḥ viṭapam tvam tarasā adhirūḍhavān .. 60.5 ..
इह तावदुपेत्य नीयतां वसनं वः सुदृशो यथायथम् । इति नर्ममृदुस्मिते त्वयि व्रुवति व्यामुमुहे वधूजनैः ॥ 60.6 ॥
इह तावत् उपेत्य नीयताम् वसनम् वः सुदृशः यथायथम् । इति नर्म-मृदु-स्मिते त्वयि व्रुवति व्यामुमुहे वधू-जनैः ॥ ६०।६ ॥
iha tāvat upetya nīyatām vasanam vaḥ sudṛśaḥ yathāyatham . iti narma-mṛdu-smite tvayi vruvati vyāmumuhe vadhū-janaiḥ .. 60.6 ..
अयि जीव चिरं किशोर नस्तव दासीरवशीकरोषि किम् । प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥ 60.7 ॥
अयि जीव चिरम् किशोर नः तव दासीः अ वशीकरोषि किम् । प्रदिशा अम्बरम् अम्बुज-ईक्षण इति उदितः त्वम् स्मितम् एव दत्तवान् ॥ ६०।७ ॥
ayi jīva ciram kiśora naḥ tava dāsīḥ a vaśīkaroṣi kim . pradiśā ambaram ambuja-īkṣaṇa iti uditaḥ tvam smitam eva dattavān .. 60.7 ..
अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः । वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥ 60.8 ॥
अधिरुह्य तटम् कृताञ्जलीः परिशुद्धाः स्व-गतीः निरीक्ष्य ताः । वसनानि अखिलानि अनुग्रहम् पुनर् एवम् गिरम् अपि अदाः मुदा ॥ ६०।८ ॥
adhiruhya taṭam kṛtāñjalīḥ pariśuddhāḥ sva-gatīḥ nirīkṣya tāḥ . vasanāni akhilāni anugraham punar evam giram api adāḥ mudā .. 60.8 ..
विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् । यमुनापुलिने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥ 60.9 ॥
विदितम् ननु वः मनीषितम् वदितारः तु इह योग्यम् उत्तरम् । यमुना-पुलिने स चन्द्रिकाः क्षणदाः इति अबलाः त्वम् ऊचिवान् ॥ ६०।९ ॥
viditam nanu vaḥ manīṣitam vaditāraḥ tu iha yogyam uttaram . yamunā-puline sa candrikāḥ kṣaṇadāḥ iti abalāḥ tvam ūcivān .. 60.9 ..
उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः । प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥ 60.10 ॥
उपकर्ण्य भवत्-मुख-च्युतम् मधु-निस्यन्दि वचः मृगी-दृशः । प्रणयात् अयि वीक्ष्य वीक्ष्य ते वदन-अब्जम् शनकैस् गृहम् गताः ॥ ६०।१० ॥
upakarṇya bhavat-mukha-cyutam madhu-nisyandi vacaḥ mṛgī-dṛśaḥ . praṇayāt ayi vīkṣya vīkṣya te vadana-abjam śanakais gṛham gatāḥ .. 60.10 ..
इति नन्वनुगृह्य बल्लवीर्विपिनान्तेषु पुरेव सञ्चरन् । करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् ॥ 60.11 ॥
इति ननु अनुगृह्य बल्लवीः विपिन-अन्तेषु पुरा इव सञ्चरन् । करुणा-शिशिरः हरे हर त्वरया मे सकल-आमय-आवलिम् ॥ ६०।११ ॥
iti nanu anugṛhya ballavīḥ vipina-anteṣu purā iva sañcaran . karuṇā-śiśiraḥ hare hara tvarayā me sakala-āmaya-āvalim .. 60.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In