| |
|

This overlay will guide you through the buttons:

ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः । सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥ 63.1 ॥
ददृशिरे किल तद्-क्षणम् अक्षत-स्तनित-जृम्भित-कम्पित-दिश्-तटाः । सुषमया भवत्-अङ्ग-तुलाम् गताः व्रज-पद-उपरि वारिधराः त्वया ॥ ६३।१ ॥
dadṛśire kila tad-kṣaṇam akṣata-stanita-jṛmbhita-kampita-diś-taṭāḥ . suṣamayā bhavat-aṅga-tulām gatāḥ vraja-pada-upari vāridharāḥ tvayā .. 63.1 ..
विपुलकरकमिश्रैस्तोयधारानिपातैर्दिशि दिशि पशुपानां मण्डले दण्ड्यमाने । कुपितहरिकृतान्नः पाहि पाहीति तेषांवचनमजित श्रुण्वन्मा बिभीतेत्यभाणीः ॥ 63.2 ॥
विपुल-करक-मिश्रैः तोय-धारा-निपातैः दिशि दिशि पशुपानाम् मण्डले दण्ड्यमाने । कुपित-हरि-कृतान् नः पाहि पाहि इति तेषाम् वचनम् अजित श्रुण्वन् मा बिभीत इति अभाणीः ॥ ६३।२ ॥
vipula-karaka-miśraiḥ toya-dhārā-nipātaiḥ diśi diśi paśupānām maṇḍale daṇḍyamāne . kupita-hari-kṛtān naḥ pāhi pāhi iti teṣām vacanam ajita śruṇvan mā bibhīta iti abhāṇīḥ .. 63.2 ..
कुल इह खलु गोत्रो दैवतं गोत्रशत्रोर्विहतिमिह स रुन्ध्यात्को नुः वः संशायोऽस्मिन् । इति सहसितवादी देव गोवर्धनाद्रिंत्वरितमुदमुमूलो मूलतो बाल दोर्भ्याम् ॥ 63.3 ॥
कुले इह खलु गोत्रः दैवतम् गोत्र-शत्रोः विहतिम् इह स रुन्ध्यात् कः नुः वः संशायः अस्मिन् । इति स हसित-वादी देव गोवर्धन-अद्रिं त्वरितम् उद-मुमूलः मूलतः बाल दोर्भ्याम् ॥ ६३।३ ॥
kule iha khalu gotraḥ daivatam gotra-śatroḥ vihatim iha sa rundhyāt kaḥ nuḥ vaḥ saṃśāyaḥ asmin . iti sa hasita-vādī deva govardhana-adriṃ tvaritam uda-mumūlaḥ mūlataḥ bāla dorbhyām .. 63.3 ..
तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्सिकतिलमृदुदेशे दूरतो वारितापे । परिकरपरिमिश्रान्धेनुगोपानधस्तादुपनिदधदधत्था हस्तपद्मेन शैलम् ॥ 63.4 ॥
तदनु गिरि-वरस्य प्रोद्धृतस्य अस्य तावत् सिकतिल-मृदु-देशे दूरतस् वारि-तापे । परिकर-परिमिश्रान् धेनु-गोपान् अधस्तात् उपनिदधत् अधत्थाः हस्त-पद्मेन शैलम् ॥ ६३।४ ॥
tadanu giri-varasya proddhṛtasya asya tāvat sikatila-mṛdu-deśe dūratas vāri-tāpe . parikara-parimiśrān dhenu-gopān adhastāt upanidadhat adhatthāḥ hasta-padmena śailam .. 63.4 ..
भवति विधृतशैले बालिकाभिर्वयस्यैरपि विहितविलासं केळिलापादिलोले । सविधमिलितधेनूरेकहस्तेन कण्दूयति सति पशुपालास्तोषमैषन्त सर्वे ॥ 63.5 ॥
भवति विधृत-शैले बालिकाभिः वयस्यैः अपि विहित-विलासम् केळिलाप-आदि-लोले । सविध-मिलित-धेनूः एक-हस्तेन कण्दूयति सति पशुपालाः तोषम् ऐषन्त सर्वे ॥ ६३।५ ॥
bhavati vidhṛta-śaile bālikābhiḥ vayasyaiḥ api vihita-vilāsam kel̤ilāpa-ādi-lole . savidha-milita-dhenūḥ eka-hastena kaṇdūyati sati paśupālāḥ toṣam aiṣanta sarve .. 63.5 ..
अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् । किमिदमद्भुतमद्रिबलन्विति त्वदवलोकिभिराकथि गोपकैः ॥ 63.6 ॥
अति महान् गिरिः एष तु वामके कर-सरोरुहि तम् धरते चिरम् । किम् इदम् अद्भुतम् अद्रिबलनु इति त्वद्-अवलोकिभिः आकथि गोपकैः ॥ ६३।६ ॥
ati mahān giriḥ eṣa tu vāmake kara-saroruhi tam dharate ciram . kim idam adbhutam adribalanu iti tvad-avalokibhiḥ ākathi gopakaiḥ .. 63.6 ..
अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् । इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥ 63.7 ॥
अहह धार्ष्ट्यम् अमुष्य वटोः गिरिम् व्यथित-बाहुः असौ अवरोपयेत् । इति हरिः त्वयि बद्ध-विगर्हणः दिवस-सप्तकम् उग्रम् अवर्षयत् ॥ ६३।७ ॥
ahaha dhārṣṭyam amuṣya vaṭoḥ girim vyathita-bāhuḥ asau avaropayet . iti hariḥ tvayi baddha-vigarhaṇaḥ divasa-saptakam ugram avarṣayat .. 63.7 ..
अचलति त्वयि देव पदात्पदं गलितसर्वजले च घनोत्करे । अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥ 63.8 ॥
अचलति त्वयि देव पदात् पदम् गलित-सर्व-जले च घन-उत्करे । अपहृते मरुता मरुताम् पतिः त्वद्-अभिशङ्कित-धीः समुपाद्रवत् ॥ ६३।८ ॥
acalati tvayi deva padāt padam galita-sarva-jale ca ghana-utkare . apahṛte marutā marutām patiḥ tvad-abhiśaṅkita-dhīḥ samupādravat .. 63.8 ..
शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते । भुवि विभो समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ 63.9 ॥
शमम् उपेयुषि वर्ष-भरे तदा पशुप-धेनु-कुले च विनिर्गते । भुवि विभो समुपाहित-भूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ ६३।९ ॥
śamam upeyuṣi varṣa-bhare tadā paśupa-dhenu-kule ca vinirgate . bhuvi vibho samupāhita-bhūdharaḥ pramuditaiḥ paśupaiḥ parirebhiṣe .. 63.9 ..
धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः । इति नुतस्त्रिदशैः कमलापते गुरुपुरालय पालय मां गदात् ॥ 63.10 ॥
धरणिम् एव पुरा धृतवान् असि क्षितिधर-उद्धरणे तव कः श्रमः । इति नुतः त्रिदशैः कमलापते गुरु-पुर-आलय पालय माम् गदात् ॥ ६३।१० ॥
dharaṇim eva purā dhṛtavān asi kṣitidhara-uddharaṇe tava kaḥ śramaḥ . iti nutaḥ tridaśaiḥ kamalāpate guru-pura-ālaya pālaya mām gadāt .. 63.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In