| |
|

This overlay will guide you through the buttons:

आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः । विश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ॥ 64.1 ॥
आलोक्य शैल-उद्धरण-आदि-रूपम् प्रभावम् उच्चैस् तव गोप-लोकाः । विश्वेश्वरम् त्वाम् अभिमत्य विश्वे नन्दः भवत्-जातकम् अन्वपृच्छन् ॥ ६४।१ ॥
ālokya śaila-uddharaṇa-ādi-rūpam prabhāvam uccais tava gopa-lokāḥ . viśveśvaram tvām abhimatya viśve nandaḥ bhavat-jātakam anvapṛcchan .. 64.1 ..
गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः । पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद्बहुमानभारः ॥ 64.2 ॥
गर्ग-उदितः निर्गदितः निजाय वर्गाय तातेन तव प्रभावः । पूर्व-अधिक् स्त्वयि अनुरागः एषाम् ऐधिष्ट तावत् बहु-मान-भारः ॥ ६४।२ ॥
garga-uditaḥ nirgaditaḥ nijāya vargāya tātena tava prabhāvaḥ . pūrva-adhik stvayi anurāgaḥ eṣām aidhiṣṭa tāvat bahu-māna-bhāraḥ .. 64.2 ..
ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या । उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥ 64.3 ॥
ततस् अवमान-उदित-तत्त्व-बोधः सुर-अधिराजः सह दिव्य-गव्या । उपेत्य तुष्टाव स नष्ट-गर्वः स्पृष्ट्वा पद-अब्जम् मणिमौलिना ते ॥ ६४।३ ॥
tatas avamāna-udita-tattva-bodhaḥ sura-adhirājaḥ saha divya-gavyā . upetya tuṣṭāva sa naṣṭa-garvaḥ spṛṣṭvā pada-abjam maṇimaulinā te .. 64.3 ..
स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् । ऐरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥ 64.4 ॥
स्नेह-स्तुनैः त्वाम् सुरभिः पयोभिः गोविन्द-नाम-अङ्कितम् अभ्यषिञ्चत् । ऐरावत-उपाहृत-दिव्य-गङ्गा-पाथोभिः इन्द्रः अपि च जात-हर्षः ॥ ६४।४ ॥
sneha-stunaiḥ tvām surabhiḥ payobhiḥ govinda-nāma-aṅkitam abhyaṣiñcat . airāvata-upāhṛta-divya-gaṅgā-pāthobhiḥ indraḥ api ca jāta-harṣaḥ .. 64.4 ..
जगत्त्रयेशे त्वयि गोकुलेश तथाऽभिषिक्ते सति गोपवाटः । नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥ 64.5 ॥
जगत्त्रय-ईशे त्वयि गोकुल-ईश तथा अभिषिक्ते सति गोप-वाटः । नोके अपि वैकुण्ठ-पदे अपि अलभ्याम् श्रियम् प्रपेदे भवतः प्रभावात् ॥ ६४।५ ॥
jagattraya-īśe tvayi gokula-īśa tathā abhiṣikte sati gopa-vāṭaḥ . noke api vaikuṇṭha-pade api alabhyām śriyam prapede bhavataḥ prabhāvāt .. 64.5 ..
कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण । नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥ 64.6 ॥
कदाचिद् अन्तर् यमुनम् प्रभाते स्नायन् पिता वारुण-पूरुषेण । नीतः तम् आनेतुम् अगाः पुरीम् त्वम् ताम् वारुणीम् कारण-मर्त्य-रूपः ॥ ६४।६ ॥
kadācid antar yamunam prabhāte snāyan pitā vāruṇa-pūruṣeṇa . nītaḥ tam ānetum agāḥ purīm tvam tām vāruṇīm kāraṇa-martya-rūpaḥ .. 64.6 ..
ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् । उपागतस्तत्क्षणमात्मगेहं पिताऽवदत्तच्चरितं निजेभ्यः ॥ 64.7 ॥
स सम्भ्रमम् तेन जलाधिपेन प्रपूजितः त्वम् प्रतिगृह्य तातम् । उपागतः तद्-क्षणम् आत्म-गेहम् पिता अवदत् तत् चरितम् निजेभ्यः ॥ ६४।७ ॥
sa sambhramam tena jalādhipena prapūjitaḥ tvam pratigṛhya tātam . upāgataḥ tad-kṣaṇam ātma-geham pitā avadat tat caritam nijebhyaḥ .. 64.7 ..
हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् । निरीक्ष्य विष्णो परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ॥ 64.8 ॥
हरिम् विनिश्चित्य भवन्तम् एतान् भवत्-पद-आलोकन-बद्ध-तृष्णान् । निरीक्ष्य विष्णो परमम् पदम् तत् दुरापम् अन्यैः त्वम् अ दीदृशः तान् ॥ ६४।८ ॥
harim viniścitya bhavantam etān bhavat-pada-ālokana-baddha-tṛṣṇān . nirīkṣya viṣṇo paramam padam tat durāpam anyaiḥ tvam a dīdṛśaḥ tān .. 64.8 ..
स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ । चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन् पुनरुद्धृतास्ते ॥ 64.9 ॥
स्फुरत्-परानन्द-रस-प्रवाह-प्रपूर्ण-कैवल्य-महा-पयोधौ । चिरम् निमग्नाः खलु गोप-सङ्घाः त्वया एव भूमन् पुनर् उद्धृताः ते ॥ ६४।९ ॥
sphurat-parānanda-rasa-pravāha-prapūrṇa-kaivalya-mahā-payodhau . ciram nimagnāḥ khalu gopa-saṅghāḥ tvayā eva bhūman punar uddhṛtāḥ te .. 64.9 ..
करबदरवदेवं देव कुत्रावतारेनिजपदमनवाप्यं दर्शितं भक्तिभाजाम् । तदिह पशुपरूपी त्वं हि साक्षात्परात्मापवनपुरनिवासिन् पाहि मामामयेभ्यः ॥ 64.10 ॥
कर-बदर-वत् एवम् देव कुत्र अवतारे निज-पदम् अन् अवाप्यम् दर्शितम् भक्ति-भाजाम् । तत् इह पशुप-रूपी त्वम् हि साक्षात् परात्मा आपवन-पुर-निवासिन् पाहि माम् आमयेभ्यः ॥ ६४।१० ॥
kara-badara-vat evam deva kutra avatāre nija-padam an avāpyam darśitam bhakti-bhājām . tat iha paśupa-rūpī tvam hi sākṣāt parātmā āpavana-pura-nivāsin pāhi mām āmayebhyaḥ .. 64.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In