| |
|

This overlay will guide you through the buttons:

गोपीजनाय कथितं नियमावसानेमारोत्सवं त्वमथ साधयितुं प्रवृत्तः । सान्द्रेण चान्द्रमहसा शिशिरीकृताशेप्रापूरयो मुरलिकां यमुनावनान्ते ॥ 65.1 ॥
गोपी-जनाय कथितम् नियम-अवसाने इमार-उत्सवम् त्वम् अथ साधयितुम् प्रवृत्तः । सान्द्रेण चान्द्र-महसा मुरलिकाम् यमुना-वन-अन्ते ॥ ६५।१ ॥
gopī-janāya kathitam niyama-avasāne imāra-utsavam tvam atha sādhayitum pravṛttaḥ . sāndreṇa cāndra-mahasā muralikām yamunā-vana-ante .. 65.1 ..
सम्मूर्छनाभिरुदितस्वरमण्डलाभिःसम्मूर्छयन्तमखिलं भुवनान्तरालम् । त्वद्वेणुनादमुपकर्ण्य विभो तरुण्यस्तत्तादृशं कमपि चित्तविमोहमापुः ॥ 65.2 ॥
सम्मूर्छनाभिः उदित-स्वर-मण्डलाभिः सम्मूर्छयन्तम् अखिलम् भुवन-अन्तरालम् । त्वद्-वेणु-नादम् उपकर्ण्य विभो तरुण्यः तत् तादृशम् कम् अपि चित्त-विमोहम् आपुः ॥ ६५।२ ॥
sammūrchanābhiḥ udita-svara-maṇḍalābhiḥ sammūrchayantam akhilam bhuvana-antarālam . tvad-veṇu-nādam upakarṇya vibho taruṇyaḥ tat tādṛśam kam api citta-vimoham āpuḥ .. 65.2 ..
ता गेहकृत्यनिरतास्तनयप्रसक्ताःकान्तोपसेवनपराश्च सरोरुहाक्ष्यः । सर्वं विसृज्य मुरलीरवमोहितास्तेकान्तारदेशमयि कान्ततनो समेताः ॥ 65.3 ॥
ताः गेह-कृत्य-निरताः तनय-प्रसक्ताः कान्त-उपसेवन-पराः च सरोरुह-अक्ष्यः । सर्वम् विसृज्य मुरली-रव-मोहिताः ते कान्तार-देश-मयि कान्त-तनो समेताः ॥ ६५।३ ॥
tāḥ geha-kṛtya-niratāḥ tanaya-prasaktāḥ kānta-upasevana-parāḥ ca saroruha-akṣyaḥ . sarvam visṛjya muralī-rava-mohitāḥ te kāntāra-deśa-mayi kānta-tano sametāḥ .. 65.3 ..
काश्चिन्निजाङ्गपरिभूषणमादधानावेणुप्रणादमुपकर्ण्य कृतार्धभूषाः । त्वामागता ननु तथैव विभूषिताभ्यस्ता एव संरुरुचिरे तव लोचनाय ॥ 65.4 ॥
काश्चिद् निज-अङ्ग-परिभूषणम् आदधानाः वेणु-प्रणादम् उपकर्ण्य कृत-अर्ध-भूषाः । त्वाम् आगताः ननु तथा एव विभूषित-अभ्यस्ताः एव संरुरुचिरे तव लोचनाय ॥ ६५।४ ॥
kāścid nija-aṅga-paribhūṣaṇam ādadhānāḥ veṇu-praṇādam upakarṇya kṛta-ardha-bhūṣāḥ . tvām āgatāḥ nanu tathā eva vibhūṣita-abhyastāḥ eva saṃrurucire tava locanāya .. 65.4 ..
हारं नितम्बभूवि काचन धारयन्तीकाञ्चीं च कण्ठभुवि देव समागता त्वाम् । हारित्वमात्मजघनस्य मुकुन्द तुभ्यंव्यक्तं बभाष इव मुग्धसुखी विशेषात् ॥ 65.5 ॥
हारम् काचन धारयन्ती-काञ्चीम् च कण्ठ-भुवि देव समागता त्वाम् । हारि-त्वम् आत्म-जघनस्य मुकुन्द तुभ्यम् व्यक्तम् बभाष इव मुग्ध-सुखी विशेषात् ॥ ६५।५ ॥
hāram kācana dhārayantī-kāñcīm ca kaṇṭha-bhuvi deva samāgatā tvām . hāri-tvam ātma-jaghanasya mukunda tubhyam vyaktam babhāṣa iva mugdha-sukhī viśeṣāt .. 65.5 ..
काचित्कुचे पुनरसज्जितकञ्चुलीकाव्यामोहतः परवधूभिरलक्ष्यमाणा । त्वामाययौ निरुपमप्रणयातिभारराज्याभिषेकविधये कलशीधरेव ॥ 65.6 ॥
काचिद् कुचे पुनर् अ सज्जित-कञ्चुलीका-व्यामोहतः पर-वधूभिः अ लक्ष्यमाणा । त्वाम् आययौ निरुपम-प्रणय-अतिभार-राज्य-अभिषेक-विधये कलशीधरा इव ॥ ६५।६ ॥
kācid kuce punar a sajjita-kañculīkā-vyāmohataḥ para-vadhūbhiḥ a lakṣyamāṇā . tvām āyayau nirupama-praṇaya-atibhāra-rājya-abhiṣeka-vidhaye kalaśīdharā iva .. 65.6 ..
काश्चित् गृहात् किल निरेतुमपारयन्त्यस्त्वामेव देव हृदये सुदृढं विभाव्य । देहं विधूय परचित्सुखरूपमेकंत्वामाविशन्परमिमा ननु धन्यधन्याः ॥ 65.7 ॥
काश्चिद् गृहात् किल निरेतुम् अ पारयन्त्यः त्वाम् एव देव हृदये सु दृढम् विभाव्य । देहम् विधूय पर-चित्-सुख-रूपम् एकम् त्वाम् आविशन् परम् इमाः ननु धन्य-धन्याः ॥ ६५।७ ॥
kāścid gṛhāt kila niretum a pārayantyaḥ tvām eva deva hṛdaye su dṛḍham vibhāvya . deham vidhūya para-cit-sukha-rūpam ekam tvām āviśan param imāḥ nanu dhanya-dhanyāḥ .. 65.7 ..
जारात्मना न परमात्मतया स्मरन्त्योनार्यो गताः परमहंसगतिं क्षणेन । तत्त्वां प्रकाशपरमात्मतनुं कथञ्चिच्चित्ते वहन्नमृतमश्रममश्नुवीय ॥ 65.8 ॥
जार-आत्मना न परम-आत्म-तया स्मरन्त्यः नार्यः गताः परमहंस-गतिम् क्षणेन । तत् त्वाम् प्रकाश-परमात्म-तनुम् कथञ्चिद् चित्ते वहन् अमृतम् अश्रमम् अश्नुवीय ॥ ६५।८ ॥
jāra-ātmanā na parama-ātma-tayā smarantyaḥ nāryaḥ gatāḥ paramahaṃsa-gatim kṣaṇena . tat tvām prakāśa-paramātma-tanum kathañcid citte vahan amṛtam aśramam aśnuvīya .. 65.8 ..
अभ्यागताभिरभितो व्रजसुन्दरीभिर्मुग्धस्मितार्द्रवदनः करुणावलोकी । निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणोविश्वैकहृद्य हर मे परमेश रोगान् ॥ 65.9 ॥
अभ्यागताभिः अभितस् व्रज-सुन्दरीभिः मुग्ध-स्मित-आर्द्र-वदनः करुण-अवलोकी । निस्सीम-कान्ति-जलधिः त्वम् अवेक्ष्यमाणः विश्व-एक-हृद्य हर मे परमेश रोगान् ॥ ६५।९ ॥
abhyāgatābhiḥ abhitas vraja-sundarībhiḥ mugdha-smita-ārdra-vadanaḥ karuṇa-avalokī . nissīma-kānti-jaladhiḥ tvam avekṣyamāṇaḥ viśva-eka-hṛdya hara me parameśa rogān .. 65.9 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In