| |
|

This overlay will guide you through the buttons:

उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् । अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ 66.1 ॥
उपयातानाम् सुदृशाम् कुसुमायुध-बाण-पात-विवशानाम् । अभिवाञ्छितम् विधातुम् कृत-मतिः अपि ताः जगाथ वामम् इव ॥ ६६।१ ॥
upayātānām sudṛśām kusumāyudha-bāṇa-pāta-vivaśānām . abhivāñchitam vidhātum kṛta-matiḥ api tāḥ jagātha vāmam iva .. 66.1 ..
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ 66.2 ॥
गगन-गतम् मुनि-निवहम् श्रावयितुम् जगिथ कुल-वधू-धर्मम् । धर्म्यम् खलु ते वचनम् कर्म तु नः निर्मलस्य विश्वास्यम् ॥ ६६।२ ॥
gagana-gatam muni-nivaham śrāvayitum jagitha kula-vadhū-dharmam . dharmyam khalu te vacanam karma tu naḥ nirmalasya viśvāsyam .. 66.2 ..
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः । मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥ 66.3 ॥
आकर्ण्य ते प्रतीपाम् वाणी-मेणी-दृशः परम् दीनाः । मा मा करुणा-सिन्धो परित्यज इति अति चिरम् विलेपुः ताः ॥ ६६।३ ॥
ākarṇya te pratīpām vāṇī-meṇī-dṛśaḥ param dīnāḥ . mā mā karuṇā-sindho parityaja iti ati ciram vilepuḥ tāḥ .. 66.3 ..
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् । ताभिः समं प्रवृत्तो यमुनापुळिनेषु काममभिरन्तुम् ॥ 66.4 ॥
तासाम् रुदितैः लपितैः करुणा-आकुल-मानसः मुरारे त्वम् । ताभिः समम् प्रवृत्तः यमुना-पुळिनेषु कामम् अभिरन्तुम् ॥ ६६।४ ॥
tāsām ruditaiḥ lapitaiḥ karuṇā-ākula-mānasaḥ murāre tvam . tābhiḥ samam pravṛttaḥ yamunā-pul̤ineṣu kāmam abhirantum .. 66.4 ..
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु । गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥ 66.5 ॥
चन्द्रकर-स्यन्द-लसत्-सुन्दर-यमुना-तट-अन्त-वीथीषु । गोपी-जन-उत्तरीयैः आपादित-संस्तरः न्यषीदः त्वम् ॥ ६६।५ ॥
candrakara-syanda-lasat-sundara-yamunā-taṭa-anta-vīthīṣu . gopī-jana-uttarīyaiḥ āpādita-saṃstaraḥ nyaṣīdaḥ tvam .. 66.5 ..
सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः । गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥ 66.6 ॥
सु मधुर-नर्म-आलपनैः कर-संग्रहणैः च चुम्बन-उल्लासैः । गाढ-आलिङ्गन-सङ्गैः त्वम् अङ्गना-आलोकम् आकुलीचकृषे ॥ ६६।६ ॥
su madhura-narma-ālapanaiḥ kara-saṃgrahaṇaiḥ ca cumbana-ullāsaiḥ . gāḍha-āliṅgana-saṅgaiḥ tvam aṅganā-ālokam ākulīcakṛṣe .. 66.6 ..
वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् । तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥ 66.7 ॥
वासः-हरण-दिने यत् वासः-हरणम् प्रतिश्रुतम् तासाम् । तत् अपि विभोः रस-विवश-स्वान्तानाम् कान्त-सुभ्रुवाम् अदधाः ॥ ६६।७ ॥
vāsaḥ-haraṇa-dine yat vāsaḥ-haraṇam pratiśrutam tāsām . tat api vibhoḥ rasa-vivaśa-svāntānām kānta-subhruvām adadhāḥ .. 66.7 ..
कन्दळितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् । नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥ 66.8 ॥
कन्दळित-धर्म-लेशम् कुन्द-मृदु-स्मेर-वक्त्र-पाथोजम् । नन्द-सुत त्वाम् त्रिजगत्-सुन्दरम् उपगूह्य नन्दिताः बालाः ॥ ६६।८ ॥
kandal̤ita-dharma-leśam kunda-mṛdu-smera-vaktra-pāthojam . nanda-suta tvām trijagat-sundaram upagūhya nanditāḥ bālāḥ .. 66.8 ..
विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् । नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ 66.9 ॥
विरहेषु अङ्गार-मयः शृङ्गार-मयः च सङ्गमे अपि त्वम् । नितराम् अङ्गार-मयः तत्र पुनर् सङ्गमे अपि चित्रम् इदम् ॥ ६६।९ ॥
viraheṣu aṅgāra-mayaḥ śṛṅgāra-mayaḥ ca saṅgame api tvam . nitarām aṅgāra-mayaḥ tatra punar saṅgame api citram idam .. 66.9 ..
राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् । आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥ 66.10 ॥
राधा-तुङ्ग-पयोधर-साधु-परिरम्भ-लोलुप-आत्मानम् । आराधये भवन्तम् पवनपुर-अधीश शमय सकल-गदान् ॥ ६६।१० ॥
rādhā-tuṅga-payodhara-sādhu-parirambha-lolupa-ātmānam . ārādhaye bhavantam pavanapura-adhīśa śamaya sakala-gadān .. 66.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In