| |
|

This overlay will guide you through the buttons:

तव विलोकनाद्गोपिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण । अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ 68.1 ॥
तव विलोकनात् गोपिका-जनाः प्रमद-संकुलाः पङ्कज-ईक्षण । अमृत-धारया संप्लुताः इव स्तिमित-ताम् त्वद्-पुरोगताः ॥ ६८।१ ॥
tava vilokanāt gopikā-janāḥ pramada-saṃkulāḥ paṅkaja-īkṣaṇa . amṛta-dhārayā saṃplutāḥ iva stimita-tām tvad-purogatāḥ .. 68.1 ..
तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् । घनपयोधरे संविधाय सा पुळकसंवृता तस्थुषी चिरम् ॥ 68.2 ॥
तदनु काचन त्वद्-कर-अम्बुजम् सपदि गृह्णती निः विशङ्कितम् । घन-पयोधरे संविधाय सा पुळक-संवृता तस्थुषी चिरम् ॥ ६८।२ ॥
tadanu kācana tvad-kara-ambujam sapadi gṛhṇatī niḥ viśaṅkitam . ghana-payodhare saṃvidhāya sā pul̤aka-saṃvṛtā tasthuṣī ciram .. 68.2 ..
तव विभो पुरा कोमळं भुजं निजगळान्तरे पर्यवेष्टयत् । गळसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥ 68.3 ॥
तव विभो पुरा कोमळम् भुजम् निज-गळ-अन्तरे पर्यवेष्टयत् । गळ-समुद्गतम् प्राण-मारुतम् प्रतिनिरुन्धती इव अति हर्षुला ॥ ६८।३ ॥
tava vibho purā komal̤am bhujam nija-gal̤a-antare paryaveṣṭayat . gal̤a-samudgatam prāṇa-mārutam pratinirundhatī iva ati harṣulā .. 68.3 ..
अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितम् । प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधती गता पूर्णकामताम् ॥ 68.4 ॥
अपगत-त्रपा का अपि कामिनी तव मुख-अम्बुजात् पूग-चर्वितम् । प्रतिगृहय्य तद्-वक्त्र-पङ्कजे निदधती गता पूर्ण-काम-ताम् ॥ ६८।४ ॥
apagata-trapā kā api kāminī tava mukha-ambujāt pūga-carvitam . pratigṛhayya tad-vaktra-paṅkaje nidadhatī gatā pūrṇa-kāma-tām .. 68.4 ..
विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् । इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ॥ 68.5 ॥
विकरुणः वने संविहाय माम् अपगतः असि का त्वा अमि स्पृशेत् । इति स रोषया तवत् एकया स जल-लोचनम् वीक्षितः भवान् ॥ ६८।५ ॥
vikaruṇaḥ vane saṃvihāya mām apagataḥ asi kā tvā ami spṛśet . iti sa roṣayā tavat ekayā sa jala-locanam vīkṣitaḥ bhavān .. 68.5 ..
इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे । मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥ 68.6 ॥
इति मुदा आकुलैः वल्ल-वीजनैः समम् उपागतः यामुने तटे । मृदु-कुच-अम्बरैः कल्पित-आसने घुसृण-भासुरे पर्यशोभथाः ॥ ६८।६ ॥
iti mudā ākulaiḥ valla-vījanaiḥ samam upāgataḥ yāmune taṭe . mṛdu-kuca-ambaraiḥ kalpita-āsane ghusṛṇa-bhāsure paryaśobhathāḥ .. 68.6 ..
कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते । कतिचिदीदृशा मादृशेष्व्पीत्यभिहितो भवान्वल्लवीजनैः ॥ 68.7 ॥
कतिविधा कृपा के अपि सर्वतस् धृत-दया-उदयाः केचिद् आश्रिते । कतिचिद् ईदृशाः मादृशेषु पि इति अभिहितः भवान् वल्ल-वीजनैः ॥ ६८।७ ॥
katividhā kṛpā ke api sarvatas dhṛta-dayā-udayāḥ kecid āśrite . katicid īdṛśāḥ mādṛśeṣu pi iti abhihitaḥ bhavān valla-vījanaiḥ .. 68.7 ..
अयि कुमारिका नैव शङ्क्यतां कठिनता मयि प्रेमकातरे । मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान्भवान् ॥ 68.8 ॥
अयि कुमारिका ना एव शङ्क्यताम् कठिन-ता मयि प्रेम-कातरे । मयि चेतसः वः अनुवृत्तये कृतम् इदम् मया इति ऊचिवान् भवान् ॥ ६८।८ ॥
ayi kumārikā nā eva śaṅkyatām kaṭhina-tā mayi prema-kātare . mayi cetasaḥ vaḥ anuvṛttaye kṛtam idam mayā iti ūcivān bhavān .. 68.8 ..
अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम । तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥ 68.9 ॥
अयि निशम्यताम् जीव-वल्लभाः प्रियतमः जनः ना ईदृशः मम । तत् इह रम्यताम् रम्य-यामिनीषु अनुपरोधम् इति आलपः विभो ॥ ६८।९ ॥
ayi niśamyatām jīva-vallabhāḥ priyatamaḥ janaḥ nā īdṛśaḥ mama . tat iha ramyatām ramya-yāminīṣu anuparodham iti ālapaḥ vibho .. 68.9 ..
इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् । कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥ 68.10 ॥
इति गिरा अधिकम् मोद-मेदुरैः व्रज-वधू-जनैः साकम् आरमन् । कलित-कौतुकः रास-खेलने गुरु-पुरी-पते पाहि माम् गदात् ॥ ६८।१० ॥
iti girā adhikam moda-meduraiḥ vraja-vadhū-janaiḥ sākam āraman . kalita-kautukaḥ rāsa-khelane guru-purī-pate pāhi mām gadāt .. 68.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In