| |
|

This overlay will guide you through the buttons:

इति त्वयि रसाकुलं रमितवल्लभे वल्लवाःकदापि पुनरम्बिकाकमितुरम्बिकाकानने । समेत्य भवता समं निशि निषेव्य दिव्योत्सवंसुखं सुषुवुरग्रसीद्व्रजपमुग्रनागस्तदा ॥ 70.1 ॥
इति त्वयि रस-आकुलम् रमित-वल्लभे वल्लवाः कदापि पुनर् अम्बिका-कमितुः अम्बिका-कानने । समेत्य भवता समम् निशि निषेव्य दिव्य-उत्सवम् सुखम् सुषुवुः अग्रसीत् व्रजपम् उग्र-नागः तदा ॥ ७०।१ ॥
iti tvayi rasa-ākulam ramita-vallabhe vallavāḥ kadāpi punar ambikā-kamituḥ ambikā-kānane . sametya bhavatā samam niśi niṣevya divya-utsavam sukham suṣuvuḥ agrasīt vrajapam ugra-nāgaḥ tadā .. 70.1 ..
समुन्मुखमथोन्मुकैरभिहतेऽपि तस्मिन्बलादमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः । तदा खलु पदा भवान्समुपगम्य पस्पर्श तंबभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ॥ 70.2 ॥
समुन्मुखम् अथ उन्मुकैः अभिहते अपि तस्मिन् बलात् अमुञ्चति भवत्-पदे न्यपति पाहि पाहि इति तैः । तदा खलु पदा भवान् समुपगम्य पस्पर्श तम् बभौ स च निजाम् तनुम् समुपसाद्य वैद्याधरीम् ॥ ७०।२ ॥
samunmukham atha unmukaiḥ abhihate api tasmin balāt amuñcati bhavat-pade nyapati pāhi pāhi iti taiḥ . tadā khalu padā bhavān samupagamya pasparśa tam babhau sa ca nijām tanum samupasādya vaidyādharīm .. 70.2 ..
सुदर्शनधर प्रभो ननु सुदर्शनाख्योऽस्म्यहंमुनीन्क्वचिदपाहसं त इह मां व्यधुर्वाहसम् । भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौस्तुवन्निजपदं ययौ व्रजपदं च गोपा मुदा ॥ 70.3 ॥
सुदर्शन-धर प्रभो ननु सुदर्शन-आख्यः अस्मि अहम् मुनीन् क्वचिद् अपाहसम् ते इह माम् व्यधुः वाहसम् । भवत्-पद-समर्पणात् अमल-ताम् गतः अस्मि इति असौ स्तुवन् निज-पदम् ययौ व्रज-पदम् च गोपाः मुदा ॥ ७०।३ ॥
sudarśana-dhara prabho nanu sudarśana-ākhyaḥ asmi aham munīn kvacid apāhasam te iha mām vyadhuḥ vāhasam . bhavat-pada-samarpaṇāt amala-tām gataḥ asmi iti asau stuvan nija-padam yayau vraja-padam ca gopāḥ mudā .. 70.3 ..
कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनैर्जहार्धनदानुगः स किल शङ्खचूडोऽबलाः । अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनंरुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥ 70.4 ॥
कदापि खलु सीरिणा विहरति त्वयि स्त्री-जनैः जहाः धनद-अनुगः स किल शङ्खचूडः अबलाः । अतिद्रुतम् अनुद्रुतः तम् अथ मुक्त-नारी-जनः रुरोजिथ शिरोमणिम् हलभृते च तस्य अददाः ॥ ७०।४ ॥
kadāpi khalu sīriṇā viharati tvayi strī-janaiḥ jahāḥ dhanada-anugaḥ sa kila śaṅkhacūḍaḥ abalāḥ . atidrutam anudrutaḥ tam atha mukta-nārī-janaḥ rurojitha śiromaṇim halabhṛte ca tasya adadāḥ .. 70.4 ..
दिनेषु च सुहृज्जनैः सह वनेषु लीलापरंमनोभवमनोहरं रसितवेणुनादामृतम् । भवन्तममरीदृशाममृतपारणादायिनंविचिन्त्य किमु नालपन् विरहतापिता गोपिकाः ॥ 70.5 ॥
दिनेषु च सुहृद्-जनैः सह वनेषु लीला-परंमनोभव-मनोहरम् रसित-वेणु-नाद-अमृतम् । भवन्तम् अमरी-दृशाम् अमृत-पारण-आदायिनम् विचिन्त्य किमु न अलपन् विरह-तापिताः गोपिकाः ॥ ७०।५ ॥
dineṣu ca suhṛd-janaiḥ saha vaneṣu līlā-paraṃmanobhava-manoharam rasita-veṇu-nāda-amṛtam . bhavantam amarī-dṛśām amṛta-pāraṇa-ādāyinam vicintya kimu na alapan viraha-tāpitāḥ gopikāḥ .. 70.5 ..
भोजराजभृतकस्त्वथ कश्चित्कष्टदुष्टपथदृष्टिररिष्टः । निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥ 70.6 ॥
भोज-राज-भृतकः तु अथ कश्चिद् कष्ट-दुष्ट-पथ-दृष्टिः अरिष्टः । निष्ठुर-आकृतिः अपष्ठु-निनादः तिष्ठते स्म भवते वृष-रूपी ॥ ७०।६ ॥
bhoja-rāja-bhṛtakaḥ tu atha kaścid kaṣṭa-duṣṭa-patha-dṛṣṭiḥ ariṣṭaḥ . niṣṭhura-ākṛtiḥ apaṣṭhu-ninādaḥ tiṣṭhate sma bhavate vṛṣa-rūpī .. 70.6 ..
शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः । पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥ 70.7 ॥
शाक्वरः अथ जगती-धृति-हारी मूर्तिम् एष बृहतीम् प्रदधानः । पङ्क्तिम् आशु परिघूर्ण्य पशूनाम् छन्दसाम् निधिम् अवाप भवन्तम् ॥ ७०।७ ॥
śākvaraḥ atha jagatī-dhṛti-hārī mūrtim eṣa bṛhatīm pradadhānaḥ . paṅktim āśu parighūrṇya paśūnām chandasām nidhim avāpa bhavantam .. 70.7 ..
तुङ्गशृङ्गमुखमाश्वभियन्तं ससंगृहय्य रभसादभियं तम् । भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् ॥ 70.8 ॥
तुङ्ग-शृङ्ग-मुखम् आशु-अभियन्तम् स संगृहय्य रभसात् अभियम् तम् । भद्र-रूपम् अपि दैत्यम् अभद्रम् मर्दयन् अमदयः सुर-लोकम् ॥ ७०।८ ॥
tuṅga-śṛṅga-mukham āśu-abhiyantam sa saṃgṛhayya rabhasāt abhiyam tam . bhadra-rūpam api daityam abhadram mardayan amadayaḥ sura-lokam .. 70.8 ..
चित्रमद्य भगवन् वृषघातात्सुस्थिराजनि वृषस्थितिरुर्व्याम् । वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वम् ॥ 70.9 ॥
चित्रम् अद्य भगवन् वृष-घातात् सु स्थिरा अजनि वृष-स्थितिः उर्व्याम् । वर्धते च वृष-चेतसि भूयात् मोदः इति अभिनुतः असि सुरः त्वम् ॥ ७०।९ ॥
citram adya bhagavan vṛṣa-ghātāt su sthirā ajani vṛṣa-sthitiḥ urvyām . vardhate ca vṛṣa-cetasi bhūyāt modaḥ iti abhinutaḥ asi suraḥ tvam .. 70.9 ..
औक्षकाणि परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी । इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश ॥ 70.10 ॥
औक्षकाणि परिधावत दूरम् वीक्ष्यताम् अयम् इह उक्ष-विभेदी । इत्थम् आत्त-हसितैः सह गोपैः गेह-गः त्वम् अव वातपुर-ईश ॥ ७०।१० ॥
aukṣakāṇi paridhāvata dūram vīkṣyatām ayam iha ukṣa-vibhedī . ittham ātta-hasitaiḥ saha gopaiḥ geha-gaḥ tvam ava vātapura-īśa .. 70.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In