| |
|

This overlay will guide you through the buttons:

यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः । त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान्सिन्धुजवाजिरूपः ॥ 71.1 ॥
यत्नेषु सर्वेषु अपि ना अवकेशी केशी स भोज-ईशितुः इष्ट-बन्धुः । त्वम् सिन्धुज-अवाप्यः इति इव मत्वा संप्राप्तवान् सिन्धुज-वाजि-रूपः ॥ ७१।१ ॥
yatneṣu sarveṣu api nā avakeśī keśī sa bhoja-īśituḥ iṣṭa-bandhuḥ . tvam sindhuja-avāpyaḥ iti iva matvā saṃprāptavān sindhuja-vāji-rūpaḥ .. 71.1 ..
गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः । भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत्त्वाम् ॥ 71.2 ॥
गन्धर्व-ताम् एष गतः अपि रूक्षैः नादैः समुद्वेजित-सर्व-लोकः । भवत्-विलोक-अवधि गोप-वाटीम् प्रमर्द्य पापः पुनर् आ पतत् त्वाम् ॥ ७१।२ ॥
gandharva-tām eṣa gataḥ api rūkṣaiḥ nādaiḥ samudvejita-sarva-lokaḥ . bhavat-viloka-avadhi gopa-vāṭīm pramardya pāpaḥ punar ā patat tvām .. 71.2 ..
तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् । भृगोः पदाघातकथां निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥ 71.3 ॥
तार्क्ष्य-अर्पित-अङ्घ्रेः तव तार्क्ष्यः एष चिक्षेप वक्षः-भुवि नाम पादम् । भृगोः पद-आघात-कथाम् निशम्य स्वेन अपि शक्यम् तत् इति इव मोहात् ॥ ७१।३ ॥
tārkṣya-arpita-aṅghreḥ tava tārkṣyaḥ eṣa cikṣepa vakṣaḥ-bhuvi nāma pādam . bhṛgoḥ pada-āghāta-kathām niśamya svena api śakyam tat iti iva mohāt .. 71.3 ..
प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च विक्षेपिथ दूरदूरम् । संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥ 71.4 ॥
प्रवञ्चयन् अस्य खुर-अञ्चलम् द्राक् अमुम् च विक्षेपिथ दूर-दूरम् । संमूर्छितः अपि हति-मूर्छितेन क्रोध-ऊष्मणा खादितुम् आद्रुतः त्वाम् ॥ ७१।४ ॥
pravañcayan asya khura-añcalam drāk amum ca vikṣepitha dūra-dūram . saṃmūrchitaḥ api hati-mūrchitena krodha-ūṣmaṇā khāditum ādrutaḥ tvām .. 71.4 ..
त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीम् । तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥ 71.5 ॥
त्वम् वाह-दण्डे कृत-धीः च बाहा-दण्डम् न्यधाः तस्य मुखे तदानीम् । तद्-वृद्धि-रुद्ध-श्वसनः गतासुः सप्तीभवन् अपि अयम् ऐक्यम् आगात् ॥ ७१।५ ॥
tvam vāha-daṇḍe kṛta-dhīḥ ca bāhā-daṇḍam nyadhāḥ tasya mukhe tadānīm . tad-vṛddhi-ruddha-śvasanaḥ gatāsuḥ saptībhavan api ayam aikyam āgāt .. 71.5 ..
आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे । कृते त्वया हर्षवशात्सुरेन्द्रास्त्वां तुष्टुवुः केशवनामधेयम् ॥ 71.6 ॥
आलम्भ-मात्रेण पशोः सुराणाम् प्रसादके नूत्ने इव अश्वमेधे । कृते त्वया हर्ष-वशात् सुर-इन्द्राः त्वाम् तुष्टुवुः केशव-नामधेयम् ॥ ७१।६ ॥
ālambha-mātreṇa paśoḥ surāṇām prasādake nūtne iva aśvamedhe . kṛte tvayā harṣa-vaśāt sura-indrāḥ tvām tuṣṭuvuḥ keśava-nāmadheyam .. 71.6 ..
कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा । प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥ 71.7 ॥
कंसाय ते शौरि-सुत-त्वम् उक्त्वा तम् तद्-वध-उत्कम् प्रतिरुध्य वाचा । प्राप्तेन केशि-क्षपण-अवसाने श्री-नारदेन त्वम् अभिष्टुतः अभूः ॥ ७१।७ ॥
kaṃsāya te śauri-suta-tvam uktvā tam tad-vadha-utkam pratirudhya vācā . prāptena keśi-kṣapaṇa-avasāne śrī-nāradena tvam abhiṣṭutaḥ abhūḥ .. 71.7 ..
कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वाम् । मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥ 71.8 ॥
कदापि गोपैः सह कानन-अन्ते निलायन-क्रीडन-लोलुपम् त्वाम् । मया आत्मजः प्राप दुरन्त-मायः व्योम-अभिधः व्योम-चर-उपरोधी ॥ ७१।८ ॥
kadāpi gopaiḥ saha kānana-ante nilāyana-krīḍana-lolupam tvām . mayā ātmajaḥ prāpa duranta-māyaḥ vyoma-abhidhaḥ vyoma-cara-uparodhī .. 71.8 ..
स चोरपालायितवल्लवेषु चोरायितो गोपशिशून्पशूंश्च । गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥ 71.9 ॥
स चोर-पालायित-वल्लवेषु चोरायितः गोप-शिशून् पशून् च । गुहासु कृत्वा पिदधे शिलाभिः त्वया च बुद्ध्वा परिमर्दितः अभूत् ॥ ७१।९ ॥
sa cora-pālāyita-vallaveṣu corāyitaḥ gopa-śiśūn paśūn ca . guhāsu kṛtvā pidadhe śilābhiḥ tvayā ca buddhvā parimarditaḥ abhūt .. 71.9 ..
एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य । पदे पदे नूतनयन्नसीमां परात्मरूपिन् पवनेशपायाः ॥ 71.10 ॥
एवंविधैः च अद्भुत-केलि-भेदैः आनन्द-मूर्छाम् अतुलाम् व्रजस्य । पदे पदे परात्म-रूपिन् पवनेश-पायाः ॥ ७१।१० ॥
evaṃvidhaiḥ ca adbhuta-keli-bhedaiḥ ānanda-mūrchām atulām vrajasya . pade pade parātma-rūpin pavaneśa-pāyāḥ .. 71.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In