| |
|

This overlay will guide you through the buttons:

कंसोऽथ नारदगिरा व्रजवासिनं त्वामाकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् । आहूय कार्मुकमखच्छलतो भवन्तमानेतुमेनमहिनोदहिनाथशायिन् ॥ 72.1 ॥
कंसः अथ नारद-गिरा व्रज-वासिनम् त्वाम् आकर्ण्य दीर्ण-हृदयः स हि गान्दिनेयम् । आहूय कार्मुक-मख-छलतः भवन्तम् आनेतुम् एनम् अहिना उद-हि नाथ-शायिन् ॥ ७२।१ ॥
kaṃsaḥ atha nārada-girā vraja-vāsinam tvām ākarṇya dīrṇa-hṛdayaḥ sa hi gāndineyam . āhūya kārmuka-makha-chalataḥ bhavantam ānetum enam ahinā uda-hi nātha-śāyin .. 72.1 ..
अक्रूर एष भवदङ्घ्रिपरश्चिरायत्वद्दर्शनाक्षममनाः क्षितिपालभीत्या । तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वाम्आनन्दभारमतिभूरितरं बभार ॥ 72.2 ॥
अक्रूरः एष भवत्-अङ्घ्रि-परः चिराय त्वद्-दर्शन-अक्षम-मनाः क्षितिपाल-भीत्या । तस्य आज्ञया एव पुनर् ईक्षितुम् उद्यतः त्वाम् आनन्द-भारम् अति भूरितरम् बभार ॥ ७२।२ ॥
akrūraḥ eṣa bhavat-aṅghri-paraḥ cirāya tvad-darśana-akṣama-manāḥ kṣitipāla-bhītyā . tasya ājñayā eva punar īkṣitum udyataḥ tvām ānanda-bhāram ati bhūritaram babhāra .. 72.2 ..
सोऽयं रथेन सुकृती भवतो निवासंगच्छन्मनोरथगणांस्त्वयि धार्यमाणान् । आस्वादयन्मुहुरपायभयेन दैवंसंप्रार्थयन्पथि न किञ्चिदपि व्यजानात् ॥ 72.3 ॥
सः अयम् रथेन सु कृती भवतः निवासम् गच्छन् मनोरथ-गणान् त्वयि धार्यमाणान् । आस्वादयन् मुहुर् अपाय-भयेन दैवम् संप्रार्थयन् पथि न किञ्चिद् अपि व्यजानात् ॥ ७२।३ ॥
saḥ ayam rathena su kṛtī bhavataḥ nivāsam gacchan manoratha-gaṇān tvayi dhāryamāṇān . āsvādayan muhur apāya-bhayena daivam saṃprārthayan pathi na kiñcid api vyajānāt .. 72.3 ..
द्रक्ष्यामि देवशतगीतगतिं पुमांसंस्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेयम् । किं वक्ष्यते स खलु मां क्वनु वीक्षितः स्यादित्थं निनाय स भवन्मयमेव मार्गम् ॥ 72.4 ॥
द्रक्ष्यामि देव-शत-गीत-गतिम् पुमांसम् स्प्रक्ष्यामि किम् स्विद् अपिनाम परिष्वजेयम् । किम् वक्ष्यते स खलु माम् क्व अनु वीक्षितः स्यात् इत्थम् निनाय स भवत्-मयम् एव मार्गम् ॥ ७२।४ ॥
drakṣyāmi deva-śata-gīta-gatim pumāṃsam sprakṣyāmi kim svid apināma pariṣvajeyam . kim vakṣyate sa khalu mām kva anu vīkṣitaḥ syāt ittham nināya sa bhavat-mayam eva mārgam .. 72.4 ..
भूयः क्रमादभिविशन्भवदङ्घ्रिपूतंबृन्दावनं हरविरिञ्चसुराभिवन्द्यम् । आनन्दमग्न इव लग्न इव प्रमोहेकिं किं दशान्तरमवाप न पङ्कजाक्ष ॥ 72.5 ॥
भूयस् क्रमात् अभिविशन् भवत्-अङ्घ्रि-पूतम् बृन्दावनम् हर-विरिञ्च-सुर-अभिवन्द्यम् । आनन्द-मग्नः इव लग्नः इव किम् दशा-अन्तरम् अवाप न पङ्कज-अक्ष ॥ ७२।५ ॥
bhūyas kramāt abhiviśan bhavat-aṅghri-pūtam bṛndāvanam hara-viriñca-sura-abhivandyam . ānanda-magnaḥ iva lagnaḥ iva kim daśā-antaram avāpa na paṅkaja-akṣa .. 72.5 ..
पश्यन्नवन्दत भवद्विहृतिस्थलानिपांसुष्ववेष्टत भवच्चरणाङ्कितेषु । किं ब्रूमहे बहुजना हि तदापि जाताएवं तु भक्तितरला विरळाः परात्मन् ॥ 72.6 ॥
पश्यन् अवन्दत भवत्-विहृति-स्थल-अनि-पांसुषु अवेष्टत भवत्-चरण-अङ्कितेषु । किम् ब्रूमहे बहु-जनाः हि तदा अपि जाताः एवम् तु भक्ति-तरलाः विरळाः परात्मन् ॥ ७२।६ ॥
paśyan avandata bhavat-vihṛti-sthala-ani-pāṃsuṣu aveṣṭata bhavat-caraṇa-aṅkiteṣu . kim brūmahe bahu-janāḥ hi tadā api jātāḥ evam tu bhakti-taralāḥ viral̤āḥ parātman .. 72.6 ..
सायं स गोपभवनानि भवच्चरित्रगीतामृतप्रसृतकर्णरसायनानि । पश्यन्प्रमोदसरिदेव किलोह्यमानोगच्छन्भवद्भवन सन्निधिमन्वयासीत् ॥ 72.7 ॥
सायम् स गोप-भवनानि भवत्-चरित्र-गीत-अमृत-प्रसृत-कर्ण-रसायनानि । पश्यन् प्रमोद-सरित् एव किल उह्यमानः गच्छन् भवत्-भवन सन्निधिम् अन्वयासीत् ॥ ७२।७ ॥
sāyam sa gopa-bhavanāni bhavat-caritra-gīta-amṛta-prasṛta-karṇa-rasāyanāni . paśyan pramoda-sarit eva kila uhyamānaḥ gacchan bhavat-bhavana sannidhim anvayāsīt .. 72.7 ..
तावद्ददर्श पशुदोहविलोकलोलंभक्तोत्तमागतिमिव प्रतिपालयन्तम् । भूमन् भवन्तमयमग्रजवन्तमन्तर्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥ 72.8 ॥
तावत् ददर्श पशु-दोह-विलोक-लोलंभक्त भक्त-उत्तम-आगतिम् इव प्रतिपालयन्तम् । भूमन् भवन्तम् अयम् अग्रजवन्तम् अन्तर् ब्रह्म-अनुभूति-रस-सिन्धुम् इव उद्वमन्तम् ॥ ७२।८ ॥
tāvat dadarśa paśu-doha-viloka-lolaṃbhakta bhakta-uttama-āgatim iva pratipālayantam . bhūman bhavantam ayam agrajavantam antar brahma-anubhūti-rasa-sindhum iva udvamantam .. 72.8 ..
सायन्तनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिराम्बरलोभनीयौ । नातिप्रपञ्चधृतभूषणचारुवेषौ मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ 72.9 ॥
सायन्तन-आप्लव-विशेष-विविक्त-गात्रौ द्वौ पीत-नील-रुचिर-अम्बर-लोभनीयौ । न अति प्रपञ्च-धृत-भूषण-चारु-वेषौ मन्द-स्मित-आर्द्र-वदनौ स युवाम् ददर्श ॥ ७२।९ ॥
sāyantana-āplava-viśeṣa-vivikta-gātrau dvau pīta-nīla-rucira-ambara-lobhanīyau . na ati prapañca-dhṛta-bhūṣaṇa-cāru-veṣau manda-smita-ārdra-vadanau sa yuvām dadarśa .. 72.9 ..
दूराद्रथात्समवरुह्य नमन्तमेनमुत्थाप्य भक्तकुलमौलिमथोपगूहन् । हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रग्र्ह्य सबलोऽथ गृहं निनेथ ॥ 72.10 ॥
दूरात् रथात् समवरुह्य नमन्तम् एनम् उत्थाप्य भक्त-कुल-मौलिम् अथ उपगूहन् । हर्षात् मित-अक्षर-गिरा कुशल-अनुयोगी पाणिम् सबलः अथ गृहम् निनेथ ॥ ७२।१० ॥
dūrāt rathāt samavaruhya namantam enam utthāpya bhakta-kula-maulim atha upagūhan . harṣāt mita-akṣara-girā kuśala-anuyogī pāṇim sabalaḥ atha gṛham ninetha .. 72.10 ..
नन्देन साकममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्ताम् । गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिरिह तेन निशामनैषीः ॥ 72.11 ॥
नन्देन साकम् अमित-आदरम् अर्चयित्वा तम् यादवम् तद्-उदिताम् निशमय्य वार्ताम् । गोपेषु भूपति-निदेश-कथाम् निवेद्य नाना कथाभिः इह तेन निशाम् अनैषीः ॥ ७२।११ ॥
nandena sākam amita-ādaram arcayitvā tam yādavam tad-uditām niśamayya vārtām . gopeṣu bhūpati-nideśa-kathām nivedya nānā kathābhiḥ iha tena niśām anaiṣīḥ .. 72.11 ..
चन्द्रागृहे किमुत चन्द्रभगागृहे नुराधागृहे नु भवने किमु मैत्रविन्दे । धूर्त्तो विलम्बत इति प्रमदाभिरुच्चैराशङ्कितो निशि मरुत्पुरनाथ पायाः ॥ 72.12 ॥
चन्द्रा-गृहे किम् उत चन्द्रभगा-गृहे नुराधा-गृहे नु भवने किमु मैत्रविन्दे । धूर्त्तः विलम्बतः इति प्रमदाभिः उच्चैस् आशङ्कितः निशि मरुत्-पुर-नाथ पायाः ॥ ७२।१२ ॥
candrā-gṛhe kim uta candrabhagā-gṛhe nurādhā-gṛhe nu bhavane kimu maitravinde . dhūrttaḥ vilambataḥ iti pramadābhiḥ uccais āśaṅkitaḥ niśi marut-pura-nātha pāyāḥ .. 72.12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In