| |
|

This overlay will guide you through the buttons:

निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः । किमिदं किमिदं कथन्न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ 73.1 ॥
निशमय्य तव अथ यान-वार्ताम् भृशम् आर्ताः पशुपाल-बालिकाः ताः । किम् इदम् किम् इदम् कथम् नु इति इमाः समवेताः परिदेवितानि अकुर्वन् ॥ ७३।१ ॥
niśamayya tava atha yāna-vārtām bhṛśam ārtāḥ paśupāla-bālikāḥ tāḥ . kim idam kim idam katham nu iti imāḥ samavetāḥ paridevitāni akurvan .. 73.1 ..
करुणानिधिरेषु नन्दसूनुः कथमस्मान्विसृजेदनन्यनाथाः । बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥ 73.2 ॥
करुणा-निधिः एषु नन्द-सूनुः कथम् अस्मान् विसृजेत् अन् अन्य-नाथाः । बत नः किमु दैवम् एवम् आसीत् इति ताः त्वद्-गत-मानसाः विलेपुः ॥ ७३।२ ॥
karuṇā-nidhiḥ eṣu nanda-sūnuḥ katham asmān visṛjet an anya-nāthāḥ . bata naḥ kimu daivam evam āsīt iti tāḥ tvad-gata-mānasāḥ vilepuḥ .. 73.2 ..
चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च । परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचस्सखायमेकम् ॥ 73.3 ॥
चरम-प्रहरे प्रतिष्ठमानः सह पित्रा निज-मित्र-मण्डलैः च । परिताप-भरम् नितम्बिनीनाम् शमयिष्यन् व्यमुचः सखायम् एकम् ॥ ७३।३ ॥
carama-prahare pratiṣṭhamānaḥ saha pitrā nija-mitra-maṇḍalaiḥ ca . paritāpa-bharam nitambinīnām śamayiṣyan vyamucaḥ sakhāyam ekam .. 73.3 ..
अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः । अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ 73.4 ॥
अचिरात् उपयामि सन्निधिम् वः भविता साधु मया एव सङ्गम-श्रीः । अमृत-अम्बुनिधौ निमज्जयिष्ये द्रुतम् इति आश्वसिता वधूः अकार्षीः ॥ ७३।४ ॥
acirāt upayāmi sannidhim vaḥ bhavitā sādhu mayā eva saṅgama-śrīḥ . amṛta-ambunidhau nimajjayiṣye drutam iti āśvasitā vadhūḥ akārṣīḥ .. 73.4 ..
सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः । मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥ 73.5 ॥
स विषाद-भरम् उच्चैस् अति दूरम् वनिताभिः ईक्ष्यमाणः । मृदु तद्-दिशि पातयन् अपाङ्गान् सबलः अक्रूर-रथेन निर्गतः अभूः ॥ ७३।५ ॥
sa viṣāda-bharam uccais ati dūram vanitābhiḥ īkṣyamāṇaḥ . mṛdu tad-diśi pātayan apāṅgān sabalaḥ akrūra-rathena nirgataḥ abhūḥ .. 73.5 ..
[१]अनसा बहुलेन वल्लवानां मनसा चानुगतोऽथ वल्लभानाम् । वनमार्तमृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥ 73.6 ॥
[१]अनसा बहुलेन वल्लवानाम् मनसा च अनुगतः अथ वल्लभानाम् । वनम् आर्त-मृगम् विषण्ण-वृक्षम् समतीतः यमुना-तटीम् अयासीः ॥ ७३।६ ॥
[1]anasā bahulena vallavānām manasā ca anugataḥ atha vallabhānām . vanam ārta-mṛgam viṣaṇṇa-vṛkṣam samatītaḥ yamunā-taṭīm ayāsīḥ .. 73.6 ..
नियमाय निमज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः । विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥ 73.7 ॥
नियमाय निमज्य वारिणि त्वम् अभिवीक्ष्य अथ रथे अपि गान्दिनेयः । विवशः अजनि किम् नु इदम् विभोः ते ननु चित्रम् तु अवलोकनम् समन्तात् ॥ ७३।७ ॥
niyamāya nimajya vāriṇi tvam abhivīkṣya atha rathe api gāndineyaḥ . vivaśaḥ ajani kim nu idam vibhoḥ te nanu citram tu avalokanam samantāt .. 73.7 ..
पुनरेष निमज्य पुण्यशाली पुरुषं त्वां परमं भुजङ्गभोगे । अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धौघपरीतमालुलोके ॥ 73.8 ॥
पुनर् एष निमज्य पुण्य-शाली पुरुषम् त्वाम् परमम् भुजङ्ग-भोगे । अरि-कम्बु-गदा-अम्बुजैः स्फुरन्तम् सुर-सिद्ध-ओघ-परीतम् आलुलोके ॥ ७३।८ ॥
punar eṣa nimajya puṇya-śālī puruṣam tvām paramam bhujaṅga-bhoge . ari-kambu-gadā-ambujaiḥ sphurantam sura-siddha-ogha-parītam āluloke .. 73.8 ..
स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन्प्रकारभेदैः । अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्या पुलकावृतो ययौ त्वाम् ॥ 73.9 ॥
स तदा परमात्म-सौख्य-सिन्धौ विनिमग्नः प्रणुवन् प्रकार-भेदैः । अ विलोक्य पुनर् च हर्ष-सिन्धोः अनुवृत्या पुलक-आवृतः ययौ त्वाम् ॥ ७३।९ ॥
sa tadā paramātma-saukhya-sindhau vinimagnaḥ praṇuvan prakāra-bhedaiḥ . a vilokya punar ca harṣa-sindhoḥ anuvṛtyā pulaka-āvṛtaḥ yayau tvām .. 73.9 ..
किमु शीतलिमा महान्जले यत्पुळकोऽसाविति चोदितेन तेन । अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् ॥ 73.10 ॥
किमु शीतलिमा महान् जले यत् पुळकः असौ इति च उदितेन तेन । अतिहर्ष-निरुत्तरेण सार्धम् रथ-वासी पवनेश पाहि माम् त्वम् ॥ ७३।१० ॥
kimu śītalimā mahān jale yat pul̤akaḥ asau iti ca uditena tena . atiharṣa-niruttareṇa sārdham ratha-vāsī pavaneśa pāhi mām tvam .. 73.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In