| |
|

This overlay will guide you through the buttons:

सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन्वसन्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् । प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहलस्त्रीपुंसोद्यदगण्यपुण्यनिगळैराकृष्यमाणो नु किम् ॥ 74.1 ॥
सम्प्राप्तः मथुराम् दिन-अर्ध-विगमे तत्र अन्तरस्मिन् वसन् आरामे विहित-अशनः सखि-जनैः यातः पुरीम् ईक्षितुम् । प्रापः राज-पथम् चिर-श्रुति-धृत-व्यालोक-कौतूहल-स्त्रीपुंस-उद्यत्-अगण्य-पुण्य-निगळैः आकृष्यमाणः नु किम् ॥ ७४।१ ॥
samprāptaḥ mathurām dina-ardha-vigame tatra antarasmin vasan ārāme vihita-aśanaḥ sakhi-janaiḥ yātaḥ purīm īkṣitum . prāpaḥ rāja-patham cira-śruti-dhṛta-vyāloka-kautūhala-strīpuṃsa-udyat-agaṇya-puṇya-nigal̤aiḥ ākṛṣyamāṇaḥ nu kim .. 74.1 ..
त्वत्पादद्दुतिवत्सरागसुभगास्त्वन्मूर्तिवद्योषितःसम्प्राप्ता विलसत्पयोधररुचो लोला भवद्दृष्टिवत् । हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितप्रौढिवन्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः ॥ 74.2 ॥
त्वद्-पाद-द्दुति-वत् स राग-सुभगाः त्वद्-मूर्ति-वत् योषितः सम्प्राप्ताः विलसत्-पयोधर-रुचः लोलाः भवत्-दृष्टि-वत् । हारिण्यः त्वद्-उरस्-स्थली-वत् अयि ते मन्द-स्मित-प्रौढि-वत् नैर्मल्य-उल्लसिताः कच-ओघ-रुचि-वत् राजत्-कलाप-आश्रिताः ॥ ७४।२ ॥
tvad-pāda-dduti-vat sa rāga-subhagāḥ tvad-mūrti-vat yoṣitaḥ samprāptāḥ vilasat-payodhara-rucaḥ lolāḥ bhavat-dṛṣṭi-vat . hāriṇyaḥ tvad-uras-sthalī-vat ayi te manda-smita-prauḍhi-vat nairmalya-ullasitāḥ kaca-ogha-ruci-vat rājat-kalāpa-āśritāḥ .. 74.2 ..
तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुतव्यालोलेषु जनेषु तत्र रजकं कञ्चित्पटीं प्रार्थयन् । कस्ते दास्यति राजकीयवसनं याहीति तेनोदितःसद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिम् ॥ 74.3 ॥
तासाम् आकलयन् अपाङ्ग-वलनैः मोदम् प्रहर्ष-अद्भुत-व्यालोलेषु जनेषु तत्र रजकम् कञ्चिद् पटीम् प्रार्थयन् । कः ते दास्यति राजकीय-वसनम् याहि इति तेन उदितः सद्यस् तस्य करेण शीर्षम् अहृथाः सः अपि आप पुण्याम् गतिम् ॥ ७४।३ ॥
tāsām ākalayan apāṅga-valanaiḥ modam praharṣa-adbhuta-vyāloleṣu janeṣu tatra rajakam kañcid paṭīm prārthayan . kaḥ te dāsyati rājakīya-vasanam yāhi iti tena uditaḥ sadyas tasya kareṇa śīrṣam ahṛthāḥ saḥ api āpa puṇyām gatim .. 74.3 ..
भूयो वायकमेकमायतमतिं तोषेण वेषोचितंदाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् । मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितोभक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते ॥ 74.4 ॥
भूयस् वायकम् एकम् आयत-मतिम् तोषेण स्व-पदम् निनेथ सुकृतम् कः वेद जीव-आत्मनाम् । मालाभिः स्तबकैः स्तवैः अपि पुनर् माला-कृता मानितः भक्तिम् तेन वृताम् दिदेशिथ पराम् लक्ष्मीम् च लक्ष्मीपते ॥ ७४।४ ॥
bhūyas vāyakam ekam āyata-matim toṣeṇa sva-padam ninetha sukṛtam kaḥ veda jīva-ātmanām . mālābhiḥ stabakaiḥ stavaiḥ api punar mālā-kṛtā mānitaḥ bhaktim tena vṛtām dideśitha parām lakṣmīm ca lakṣmīpate .. 74.4 ..
कुब्जामब्जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तयादत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि । चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटंगृह्णन्मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीम् ॥ 74.5 ॥
कुब्जाम् अब्ज-विलोचनाम् पथि पुनर् दृष्ट्वा अङ्गरागे तया आदत्ते साधु किल अङ्गरागम् अददाः तस्याः महान्तम् हृदि । चित्त-स्थाम् ऋजु-ताम् अथ प्रथयितुम् गात्रे अपि तस्याः स्फुटम् गृह्णन् मञ्जु करेण ताम् उदनयः तावत् जगत्सुन्दरीम् ॥ ७४।५ ॥
kubjām abja-vilocanām pathi punar dṛṣṭvā aṅgarāge tayā ādatte sādhu kila aṅgarāgam adadāḥ tasyāḥ mahāntam hṛdi . citta-sthām ṛju-tām atha prathayitum gātre api tasyāḥ sphuṭam gṛhṇan mañju kareṇa tām udanayaḥ tāvat jagatsundarīm .. 74.5 ..
तावन्निश्चितवैभवास्तव विभो नात्यन्तपापा जनायत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बूलमाल्यादिकम् । गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलिर्नातिष्ठं बत यतोऽद्य विपुलामार्तिं व्रजामि प्रभो ॥ 74.6 ॥
तावत् निश्चित-वैभवाः तव विभो न अत्यन्त-पापाः स्म शक्ति-अनुगुणम् ताम्बूल-माल्य-आदिकम् । गृह्णानः कुसुम-आदि किञ्चन तदा मार्गे निबद्धाञ्जलिः न अतिष्ठम् बत यतस् अद्य विपुलाम् आर्तिम् व्रजामि प्रभो ॥ ७४।६ ॥
tāvat niścita-vaibhavāḥ tava vibho na atyanta-pāpāḥ sma śakti-anuguṇam tāmbūla-mālya-ādikam . gṛhṇānaḥ kusuma-ādi kiñcana tadā mārge nibaddhāñjaliḥ na atiṣṭham bata yatas adya vipulām ārtim vrajāmi prabho .. 74.6 ..
एष्यामिति विमुक्तयापि भगवन्नालेपदात्र्या तयादूरात्कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् । आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकीवक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ॥ 74.7 ॥
एष्याम् इति विमुक्तया अपि भगवन् आलेप-दात्र्या तया अदूरात् कातरया निरीक्षित-गतिः त्वम् प्राविशः गोपुरम् । आघोष-अनुमित-त्वद्-आगम-महा-हर्ष-उल्ललत्-देवकी-वक्षोज-प्रगलत्-पयः-रस-मिषात् त्वद्-कीर्तिः अन्तर्गता ॥ ७४।७ ॥
eṣyām iti vimuktayā api bhagavan ālepa-dātryā tayā adūrāt kātarayā nirīkṣita-gatiḥ tvam prāviśaḥ gopuram . āghoṣa-anumita-tvad-āgama-mahā-harṣa-ullalat-devakī-vakṣoja-pragalat-payaḥ-rasa-miṣāt tvad-kīrtiḥ antargatā .. 74.7 ..
आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन्माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः । स्रग्भिर्भूषितमर्चितं वरधनुर्मामेति वादात्पुरःप्रागृह्णाः समरोपयः किल समाक्राङ्क्षीरभाङ्क्षीरपि ॥ 74.8 ॥
आविष्टः नगरीम् महा-उत्सववतीम् कोदण्ड-शालाम् व्रजन् माधुर्येण नु तेजसा नु पुरुषैः दूरेण दत्त-अन्तरः । स्रग्भिः भूषितम् अर्चितम् वर-धनुः माम् एति वादात् पुरस् प्रागृह्णाः समर-उपयः किल समाक्राङ्क्षीः अभाङ्क्षीः अपि ॥ ७४।८ ॥
āviṣṭaḥ nagarīm mahā-utsavavatīm kodaṇḍa-śālām vrajan mādhuryeṇa nu tejasā nu puruṣaiḥ dūreṇa datta-antaraḥ . sragbhiḥ bhūṣitam arcitam vara-dhanuḥ mām eti vādāt puras prāgṛhṇāḥ samara-upayaḥ kila samākrāṅkṣīḥ abhāṅkṣīḥ api .. 74.8 ..
श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपमश्चापध्वंसमहाध्वनिस्तव विभो देवानरोमाञ्चयत् । कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयीचण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत्त्वया ॥ 74.9 ॥
श्वस् कंस-क्षपण-उत्सवस्य पुरतस् प्रारम्भ-तूर्य-उपमः चाप-ध्वंस-महा-ध्वनिः तव विभो देवान् अरोमाञ्चयत् । कंसस्य अपि च वेपथुः तद्-उदितः कोदण्ड-खण्ड-द्वयी-चण्ड-अभ्याहत-रक्षि-पूरुष-रवैः उत्कूलितः अभूत् त्वया ॥ ७४।९ ॥
śvas kaṃsa-kṣapaṇa-utsavasya puratas prārambha-tūrya-upamaḥ cāpa-dhvaṃsa-mahā-dhvaniḥ tava vibho devān aromāñcayat . kaṃsasya api ca vepathuḥ tad-uditaḥ kodaṇḍa-khaṇḍa-dvayī-caṇḍa-abhyāhata-rakṣi-pūruṣa-ravaiḥ utkūlitaḥ abhūt tvayā .. 74.9 ..
शिष्टैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या ततःसंपश्यन्पुरसम्पदं प्रविवरन्सायं गतो वाटिकाम् । श्रीदाम्ना सह राधिकाविरहजं खेदं वदन्प्रस्वपन्नानन्दन्नवतारकार्यघटनाद्वातेश संरक्ष माम् ॥ 74.10 ॥
शिष्टैः दुष्ट-जनैः च दृष्ट-महिमा प्रीत्या च भीत्या ततस् संपश्यन् पुर-सम्पदम् प्रविवरन् सायम् गतः वाटिकाम् । श्रीदाम्ना सह राधिका-विरह-जम् खेदम् वदन् प्रस्वपन् आनन्दन् अवतार-कार्य-घटनात् वातेश संरक्ष माम् ॥ ७४।१० ॥
śiṣṭaiḥ duṣṭa-janaiḥ ca dṛṣṭa-mahimā prītyā ca bhītyā tatas saṃpaśyan pura-sampadam pravivaran sāyam gataḥ vāṭikām . śrīdāmnā saha rādhikā-viraha-jam khedam vadan prasvapan ānandan avatāra-kārya-ghaṭanāt vāteśa saṃrakṣa mām .. 74.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In