| |
|

This overlay will guide you through the buttons:

प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्येसङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् । कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषोरङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् ॥ 75.1 ॥
प्रातर् सन्त्रस्त-भोज-क्षितिपति-वचसा प्रस्तुते मल्ल-तूर्ये-सङ्घे राज्ञाम् च मञ्चान् अभिययुषि गते नन्द-गोपे अपि हर्म्यम् । कंसे सौध-अधिरूढे त्वम् अपि सहबलः स अनुगः चारु-वेषोः अङ्ग-द्वारम् गतः अभूः कुपित-कुवलयापीड-नाग-अवलीढम् ॥ ७५।१ ॥
prātar santrasta-bhoja-kṣitipati-vacasā prastute malla-tūrye-saṅghe rājñām ca mañcān abhiyayuṣi gate nanda-gope api harmyam . kaṃse saudha-adhirūḍhe tvam api sahabalaḥ sa anugaḥ cāru-veṣoḥ aṅga-dvāram gataḥ abhūḥ kupita-kuvalayāpīḍa-nāga-avalīḍham .. 75.1 ..
पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धेरग्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः । केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्यव्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ॥ 75.2 ॥
पापिष्ठ अपेहि मार्गात् द्रुतम् इति वचसा निष्ठुर-क्रुद्ध-बुद्धेः अग्बष्ठस्य प्रणोदात् अधिक-जव-जुषा हस्तिना गृह्यमाणः । केली-मुक्तः अथ गोपी-कुच-कलश-चिर-स्पर्धिनम् चरण-भुवि पुनर् निर्गतः वल्गु-हासी ॥ ७५।२ ॥
pāpiṣṭha apehi mārgāt drutam iti vacasā niṣṭhura-kruddha-buddheḥ agbaṣṭhasya praṇodāt adhika-java-juṣā hastinā gṛhyamāṇaḥ . kelī-muktaḥ atha gopī-kuca-kalaśa-cira-spardhinam caraṇa-bhuvi punar nirgataḥ valgu-hāsī .. 75.2 ..
हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन्गजेन्द्रंक्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् । मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रेप्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ॥ 75.3 ॥
हस्त-प्राप्यः अपि अगम्यः झटिति मुनि-जनस्य इव धावन् गजेन्द्रम् क्रीडन् आपत्य भूमौ पुनर् अभिपततः तस्य दन्तम् स जीवम् । मूलात् उन्मूल्य तद्-मूल-ग-महित-मौक्तिकानि आत्म-मित्रे प्रादाः त्वम् हारम् एभिः ललित-विरचितम् राधिकायै दिशा इति ॥ ७५।३ ॥
hasta-prāpyaḥ api agamyaḥ jhaṭiti muni-janasya iva dhāvan gajendram krīḍan āpatya bhūmau punar abhipatataḥ tasya dantam sa jīvam . mūlāt unmūlya tad-mūla-ga-mahita-mauktikāni ātma-mitre prādāḥ tvam hāram ebhiḥ lalita-viracitam rādhikāyai diśā iti .. 75.3 ..
गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तंत्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोकाः । हंहो धन्यो नु नन्दो नहि नहि पशुपालाङ्गना नो यशोदानो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः ॥ 75.4 ॥
गृह्णानम् दन्त-मंसे युतम् अथ हलिना रङ्गम् अङ्ग आविशन्तम् त्वाम् मङ्गल्य-अङ्ग-भङ्गी-रभस-हृत-मनः-लोचनाः वीक्ष्य लोकाः । हंहो धन्यः नु नन्दः नहि नहि पशुपाल-अङ्गनाः नः यशः-दानः नः धन्य-ईक्षणाः स्मः त्रिजगति वयम् एव इति सर्वे शशंसुः ॥ ७५।४ ॥
gṛhṇānam danta-maṃse yutam atha halinā raṅgam aṅga āviśantam tvām maṅgalya-aṅga-bhaṅgī-rabhasa-hṛta-manaḥ-locanāḥ vīkṣya lokāḥ . haṃho dhanyaḥ nu nandaḥ nahi nahi paśupāla-aṅganāḥ naḥ yaśaḥ-dānaḥ naḥ dhanya-īkṣaṇāḥ smaḥ trijagati vayam eva iti sarve śaśaṃsuḥ .. 75.4 ..
पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशंगोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः । दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाःपूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥ 75.5 ॥
पूर्णम् ब्रह्म एव साक्षात् निरवधि-परमानन्द-सान्द्र-प्रकाशम् गोपेषु त्वम् व्यलासीः न खलु बहु-जनैः तावत् आवेदितः अभूः । दृष्ट्वा अथ त्वाम् तदा इदंप्रथमम् उपगते पुण्य-काले जन-ओघाः पूर्ण-आनन्दाः विपापाः सरसम् अभिजगुः त्वद्-कृतानि स्मृतानि ॥ ७५।५ ॥
pūrṇam brahma eva sākṣāt niravadhi-paramānanda-sāndra-prakāśam gopeṣu tvam vyalāsīḥ na khalu bahu-janaiḥ tāvat āveditaḥ abhūḥ . dṛṣṭvā atha tvām tadā idaṃprathamam upagate puṇya-kāle jana-oghāḥ pūrṇa-ānandāḥ vipāpāḥ sarasam abhijaguḥ tvad-kṛtāni smṛtāni .. 75.5 ..
चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशालीत्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् । उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रंमृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥ 75.6 ॥
चाणूरः मल्ल-वीरः तदनु नृप-गिरा मुष्टिकः मुष्टिशाली-त्वाम् रामम् च अभिपेदे झटझटिति मिथस् मुष्टि-पात-अति रूक्षम् । उत्पात-आपातन-आकर्षण-विविध-रणानि आसताम् तत्र चित्रंमृत्योः प्राक् एव मल्ल-प्रभुः अगमत् अयम् भूरिशस् बन्ध-मोक्षान् ॥ ७५।६ ॥
cāṇūraḥ malla-vīraḥ tadanu nṛpa-girā muṣṭikaḥ muṣṭiśālī-tvām rāmam ca abhipede jhaṭajhaṭiti mithas muṣṭi-pāta-ati rūkṣam . utpāta-āpātana-ākarṣaṇa-vividha-raṇāni āsatām tatra citraṃmṛtyoḥ prāk eva malla-prabhuḥ agamat ayam bhūriśas bandha-mokṣān .. 75.6 ..
हा धिक्कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौन द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् । चाणूरं तं कराद्भ्रामणविगलदसुं पोथयामासिथोर्व्यांपिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥ 75.7 ॥
हा धिक् कष्टम् कुमारौ सु ललित-वपुषौ मल्ल-वीरौ कठोरौ न द्रक्ष्यामः व्रजामः त्वरितम् इति जने भाषमाणे तदानीम् । चाणूरम् तम् करात् भ्रामण-विगलत्-असुम् पोथयामासिथ उर्व्याम् पिष्टः अभूत् मुष्टिकः अपि द्रुतम् अथ हलिना नष्ट-शिष्टैः दधावे ॥ ७५।७ ॥
hā dhik kaṣṭam kumārau su lalita-vapuṣau malla-vīrau kaṭhorau na drakṣyāmaḥ vrajāmaḥ tvaritam iti jane bhāṣamāṇe tadānīm . cāṇūram tam karāt bhrāmaṇa-vigalat-asum pothayāmāsitha urvyām piṣṭaḥ abhūt muṣṭikaḥ api drutam atha halinā naṣṭa-śiṣṭaiḥ dadhāve .. 75.7 ..
कंसस्संवार्यं तूर्यं खलमतिरविदन्कार्यमार्यान् पितॄंस्तानाहन्तुं व्याप्तमूर्तेस्तव च समशिषद्दूरमुत्सारणाय । रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्cअमञ्cअन्नुदञ्cअत्खङ्गव्यावद्गदुस्संग्रहमपि च हठात्प्राग्रहीरौग्रसेनिम् ॥ 75.8 ॥
कंसः संवार्यम् तूर्यम् खल-मतिः अविदन् कार्यम् आर्यान् पितॄन् तान् आहन्तुम् व्याप्त-मूर्तेः तव च समशिषत् दूरम् उत्सारणाय । रुष्टः दुष्ट-उक्तिभिः त्वम् गरुडः इव गिरिम् मञ्चम् अञ्चन् उदञ्चत्-खङ्ग-व्यावत्-गदुः संग्रहम् अपि च हठात् प्राग्रहीः औग्रसेनिम् ॥ ७५।८ ॥
kaṃsaḥ saṃvāryam tūryam khala-matiḥ avidan kāryam āryān pitṝn tān āhantum vyāpta-mūrteḥ tava ca samaśiṣat dūram utsāraṇāya . ruṣṭaḥ duṣṭa-uktibhiḥ tvam garuḍaḥ iva girim mañcam añcan udañcat-khaṅga-vyāvat-gaduḥ saṃgraham api ca haṭhāt prāgrahīḥ augrasenim .. 75.8 ..
सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात्त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः । किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजेसायुज्यं त्वद्वधोत्था परम परमियं वासना कालनेमेः ॥ 75.9 ॥
सद्यस् निष्पिष्ट-सन्धिम् भुवि नरपतिम् आपात्य तस्य उपरिष्टात् त्वयि आपात्ये तदा एव त्वद्-उपरि पतिता नाकिनाम् पुष्प-वृष्टिः । किम् किम् ब्रूमः तदानीम् सततम् अपि भिया त्वद्-गत-आत्मा स भेजे सायुज्यम् त्वद्-वध-उत्था परम परम् इयम् वासना कालनेमेः ॥ ७५।९ ॥
sadyas niṣpiṣṭa-sandhim bhuvi narapatim āpātya tasya upariṣṭāt tvayi āpātye tadā eva tvad-upari patitā nākinām puṣpa-vṛṣṭiḥ . kim kim brūmaḥ tadānīm satatam api bhiyā tvad-gata-ātmā sa bheje sāyujyam tvad-vadha-utthā parama param iyam vāsanā kālanemeḥ .. 75.9 ..
तद्भ्रातॄनष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनंकृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन्कामदानैः । भक्तानामुत्तमम्ञ्चोद्धवममरगुरोराप्तनीतिं सखायंलब्ध्वा तुष्टो नगर्यां पवनपुरपते रुन्धि मे सर्वरोगान् ॥ 75.10 ॥
तद्-भ्रातॄन् अष्ट पिष्ट्वा द्रुतम् अथ पितरौ सन् नमन् उग्रसेनम् कृत्वा राजानम् उच्चैस् यदु-कुलम् अखिलम् मोदयन् काम-दानैः । भक्तानाम् उत्तमम् ञ्च उद्धवम् अमर-गुरोः आप्त-नीतिम् सखायम् लब्ध्वा तुष्टः नगर्याम् पवनपुर-पते रुन्धि मे सर्व-रोगान् ॥ ७५।१० ॥
tad-bhrātṝn aṣṭa piṣṭvā drutam atha pitarau san naman ugrasenam kṛtvā rājānam uccais yadu-kulam akhilam modayan kāma-dānaiḥ . bhaktānām uttamam ñca uddhavam amara-guroḥ āpta-nītim sakhāyam labdhvā tuṣṭaḥ nagaryām pavanapura-pate rundhi me sarva-rogān .. 75.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In