| |
|

This overlay will guide you through the buttons:

गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिःसर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा । पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थंदत्त्वा तस्मै निजपुरमगा नादयन्पाञ्चजन्यम् ॥ 76.1 ॥
गत्वा सान्दीपनिम् अथ चतुःषष्टि-मात्रैः अहोभिः सर्वज्ञः त्वम् सह मुसलिना सर्व-विद्याम् गृहीत्वा । पुत्रम् नष्टम् यम-निलयनात् आहृतम् दक्षिणा-अर्थम् दत्त्वा तस्मै निज-पुरम् अगाः नादयन् पाञ्चजन्यम् ॥ ७६।१ ॥
gatvā sāndīpanim atha catuḥṣaṣṭi-mātraiḥ ahobhiḥ sarvajñaḥ tvam saha musalinā sarva-vidyām gṛhītvā . putram naṣṭam yama-nilayanāt āhṛtam dakṣiṇā-artham dattvā tasmai nija-puram agāḥ nādayan pāñcajanyam .. 76.1 ..
स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाःकारुण्येन त्वमपि विवशः प्रहिणोरुद्धवं तम् । किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासांभक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥ 76.2 ॥
स्मृत्वा स्मृत्वा पशुप-सुदृशः प्रेम-भार-प्रणुन्नाः कारुण्येन त्वम् अपि विवशः प्रहिणोः उद्धवम् तम् । किञ्च अमुष्मै परम-सुहृदे भक्त-वर्याय तासाम् भक्ति-उद्रेकम् सकल-भुवने दुर्लभम् दर्शयिष्यन् ॥ ७६।२ ॥
smṛtvā smṛtvā paśupa-sudṛśaḥ prema-bhāra-praṇunnāḥ kāruṇyena tvam api vivaśaḥ prahiṇoḥ uddhavam tam . kiñca amuṣmai parama-suhṛde bhakta-varyāya tāsām bhakti-udrekam sakala-bhuvane durlabham darśayiṣyan .. 76.2 ..
त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायंत्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् । प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यःश्रुत्वौ प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥ 76.3 ॥
त्वद्-माहात्म्य-प्रथिम-पिशुनम् गोकुलम् प्राप्य सायम् त्वद्-वार्ताभिः बहु स रमयामास नन्दम् यशोदाम् । प्रातर् दृष्ट्वा मणि-मय-रथम् शङ्किताः पङ्कज-अक्ष्यः श्रुत्वौ प्राप्तम् भवत्-अनुचरम् त्यक्त-कार्याः समीयुः ॥ ७६।३ ॥
tvad-māhātmya-prathima-piśunam gokulam prāpya sāyam tvad-vārtābhiḥ bahu sa ramayāmāsa nandam yaśodām . prātar dṛṣṭvā maṇi-maya-ratham śaṅkitāḥ paṅkaja-akṣyaḥ śrutvau prāptam bhavat-anucaram tyakta-kāryāḥ samīyuḥ .. 76.3 ..
दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामंस्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि । रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुःसौजन्यादीन्निजपरभिदामप्यलं विस्मरन्त्यः ॥ 76.4 ॥
दृष्ट्वा च एनम् त्वद्-उपम-लसत्-वेष-भूषा-अभिरामम् स्मृत्वा स्मृत्वा तव विलसितानि उच्चकैस् तानि तानि । रुद्ध-आलापाः कथम् अपि पुनर् गद्गदाम् वाचम् ऊचुः सौजन्य-आदीन् निज-पर-भिदाम् अपि अलम् विस्मरन्त्यः ॥ ७६।४ ॥
dṛṣṭvā ca enam tvad-upama-lasat-veṣa-bhūṣā-abhirāmam smṛtvā smṛtvā tava vilasitāni uccakais tāni tāni . ruddha-ālāpāḥ katham api punar gadgadām vācam ūcuḥ saujanya-ādīn nija-para-bhidām api alam vismarantyaḥ .. 76.4 ..
श्रीमन् किं त्वं पितृजनकृते प्रेषितो निर्दयेनक्वासौ कान्तो नगरसुदृशां हा हरे नाथ पायाः । आश्लेषाणाममृतवपुषो हन्त ते चुम्बनानामुन्मादानां कुहकवचसां विस्मरेत्कान्त का वा ॥ 76.5 ॥
श्रीमन् किम् त्वम् पितृ-जन-कृते प्रेषितः निर्दयेन क्व असौ कान्तः नगर-सुदृशाम् हा हरे नाथ पायाः । आश्लेषाणाम् अमृत-वपुषः हन्त ते चुम्बनानाम् उन्मादानाम् कुहक-वचसाम् विस्मरेत् कान्त का वा ॥ ७६।५ ॥
śrīman kim tvam pitṛ-jana-kṛte preṣitaḥ nirdayena kva asau kāntaḥ nagara-sudṛśām hā hare nātha pāyāḥ . āśleṣāṇām amṛta-vapuṣaḥ hanta te cumbanānām unmādānām kuhaka-vacasām vismaret kānta kā vā .. 76.5 ..
रासक्रीडालुलितललितं विश्लथत्केशपाशंमन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गम् । कारुण्याब्धे सकृदपि समालिङ्गितुं दर्शयेतिप्रेमोन्मादाद्भुवनमदन त्वत्प्रियास्त्वां विलेपुः ॥ 76.6 ॥
रास-क्रीडा-लुलित-ललितम् विश्लथत्-केशपाशम् मन्द-उद्भिन्न-श्रमजल-कणम् लोभनीयम् त्वद्-अङ्गम् । कारुण्य-अब्धे सकृत् अपि समालिङ्गितुम् दर्शय इति प्रेम-उन्मादात् भुवन-मदन त्वद्-प्रियाः त्वाम् विलेपुः ॥ ७६।६ ॥
rāsa-krīḍā-lulita-lalitam viślathat-keśapāśam manda-udbhinna-śramajala-kaṇam lobhanīyam tvad-aṅgam . kāruṇya-abdhe sakṛt api samāliṅgitum darśaya iti prema-unmādāt bhuvana-madana tvad-priyāḥ tvām vilepuḥ .. 76.6 ..
एवम्प्रायैर्विवशवचनैराकुला गोपिकास्तास्त्वत्सन्देशैः प्रकृतिमनयत्सोऽथ विज्ञानगर्भैः । भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभिस्तत्तद्वार्तासरसमनयत्कानिचिद्वासराणि ॥ 76.7 ॥
एवम्प्रायैः विवश-वचनैः आकुलाः गोपिकाः ताः त्वद्-सन्देशैः प्रकृतिम् अनयत् सः अथ विज्ञान-गर्भैः । भूयस् ताभिः मुदित-मतिभिः त्वद्-मयीभिः वधूभिः तद्-तद्-वार्त्ता-सरसम् अनयत् कानिचिद् वासराणि ॥ ७६।७ ॥
evamprāyaiḥ vivaśa-vacanaiḥ ākulāḥ gopikāḥ tāḥ tvad-sandeśaiḥ prakṛtim anayat saḥ atha vijñāna-garbhaiḥ . bhūyas tābhiḥ mudita-matibhiḥ tvad-mayībhiḥ vadhūbhiḥ tad-tad-vārttā-sarasam anayat kānicid vāsarāṇi .. 76.7 ..
त्वत्प्रोद्गाणैः सहितमनिशं सर्वतो गेहकृत्यंत्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः । चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवंदृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥ 76.8 ॥
त्वद्-प्रोद्गाणैः सहितम् अनिशम् सर्वतस् गेह-कृत्यम् त्वद्-वार्ता एव प्रसरति मिथस् सा एव च उत्स्व-अपलापाः । चेष्टाः प्रायस् त्वद्-अनुकृतयः त्वद्-मयम् सर्वम् एवम् दृष्ट्वा तत्र व्यमुहत् अधिकम् विस्मयात् उद्धवः अयम् ॥ ७६।८ ॥
tvad-prodgāṇaiḥ sahitam aniśam sarvatas geha-kṛtyam tvad-vārtā eva prasarati mithas sā eva ca utsva-apalāpāḥ . ceṣṭāḥ prāyas tvad-anukṛtayaḥ tvad-mayam sarvam evam dṛṣṭvā tatra vyamuhat adhikam vismayāt uddhavaḥ ayam .. 76.8 ..
राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीतित्वं किं मौनं कलयसि सखे मानिनी मत्प्रियेव । इत्याद्येव प्रवदति सखि त्वत्प्रियो निर्जने मामित्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीम् ॥ 76.9 ॥
राधायाः मे प्रियतमम् इदम् मद्-प्रिया एवम् ब्रवीति त्वम् किम् मौनम् कलयसि सखे मानिनी मद्-प्रिया इव । इत्यादि एव प्रवदति सखि त्वद्-प्रियः निर्जने माम् इत्थंवादैः अरमयत् अयम् त्वद्-प्रियाम् उत्पल-अक्षीम् ॥ ७६।९ ॥
rādhāyāḥ me priyatamam idam mad-priyā evam bravīti tvam kim maunam kalayasi sakhe māninī mad-priyā iva . ityādi eva pravadati sakhi tvad-priyaḥ nirjane mām itthaṃvādaiḥ aramayat ayam tvad-priyām utpala-akṣīm .. 76.9 ..
एष्यामि द्रागनुपगमनं केवलं कार्यभाराद्विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः । ब्रह्मानन्दे मिलति नचिरात्सङ्गमो वा वियोगस्तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥ 76.10 ॥
एष्यामि द्राक् अनुपगमनम् केवलम् कार्य-भारात् विश्लेषे अपि स्मरण-दृढ-ता-सम्भवात् मा अस्तु खेदः । ब्रह्मानन्दे मिलति नचिरात् सङ्गमः वा वियोगः तुल्यः वः स्यात् इति तव गिरा सः अकरोत् निर्व्यथाः ताः ॥ ७६।१० ॥
eṣyāmi drāk anupagamanam kevalam kārya-bhārāt viśleṣe api smaraṇa-dṛḍha-tā-sambhavāt mā astu khedaḥ . brahmānande milati nacirāt saṅgamaḥ vā viyogaḥ tulyaḥ vaḥ syāt iti tava girā saḥ akarot nirvyathāḥ tāḥ .. 76.10 ..
एवं भक्तिः सकलभुवने नेशिता न श्रुता वाकिं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु । इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तंदृष्ट्वा हृष्टो गुरुपुरपते पाहि मामामयौघात् ॥ 76.11 ॥
एवम् भक्तिः सकल-भुवने न ईशिता न श्रुता वा किम् शास्त्र-ओघैः किम् इह तपसा गोपिकाभ्यः नमः अस्तु । इति आनन्द-आकुलम् उपगतम् गोकुलात् उद्धवम् तम् दृष्ट्वा हृष्टः गुरु-पुर-पते पाहि माम् आमय-ओघात् ॥ ७६।११ ॥
evam bhaktiḥ sakala-bhuvane na īśitā na śrutā vā kim śāstra-oghaiḥ kim iha tapasā gopikābhyaḥ namaḥ astu . iti ānanda-ākulam upagatam gokulāt uddhavam tam dṛṣṭvā hṛṣṭaḥ guru-pura-pate pāhi mām āmaya-oghāt .. 76.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In