| |
|

This overlay will guide you through the buttons:

सैरन्ध्र्यास्तदनु चिरं स्मरातुरायायातोऽभूः सललितमुद्धवेन सार्धम् । आवासं त्वदुपगमोत्सवं सदैवध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ 77.1 ॥
सैरन्ध्र्याः तदनु चिरम् स्मर-आतुराय अयातः अभूः स ललितम् उद्धवेन सार्धम् । आवासम् त्वद्-उपगम-उत्सवम् सदा एव ध्यायन्त्याः प्रति दिन-वास-सज्जिकायाः ॥ ७७।१ ॥
sairandhryāḥ tadanu ciram smara-āturāya ayātaḥ abhūḥ sa lalitam uddhavena sārdham . āvāsam tvad-upagama-utsavam sadā eva dhyāyantyāḥ prati dina-vāsa-sajjikāyāḥ .. 77.1 ..
उपगते त्वयि पूर्णमनोरथांप्रमदसम्भ्रमकम्प्रपयोधराम् । विविधमाननमादधतीं मुदारहसि तां रमयञ्चकृषे सुखम् ॥ 77.2 ॥
उपगते त्वयि पूर्ण-मनोरथाम् प्रमद-सम्भ्रम-कम्प्र-पयोधराम् । विविधम् आननम् आदधतीम् मुदा-रहसि ताम् रमयन् चकृषे सुखम् ॥ ७७।२ ॥
upagate tvayi pūrṇa-manorathām pramada-sambhrama-kampra-payodharām . vividham ānanam ādadhatīm mudā-rahasi tām ramayan cakṛṣe sukham .. 77.2 ..
पृष्टा वरं पुनरसाववृणोद्वराकीभूयस्त्वया सुरतमेव निशान्तरेषु । सायुज्यमस्त्विति वदेत् बुध एव कामंसामीप्यमस्त्वनिशमित्यपि नाब्रवीत्किम् ॥ 77.3 ॥
पृष्टा वरम् पुनर् असौ अवृणोत् वराकी-भूयस् त्वया सुरतम् एव निशा-अन्तरेषु । सायुज्यम् अस्तु इति वदेत् बुधः एव कामम् सामीप्यम् अस्तु अनिशम् इति अपि न अब्रवीत् किम् ॥ ७७।३ ॥
pṛṣṭā varam punar asau avṛṇot varākī-bhūyas tvayā suratam eva niśā-antareṣu . sāyujyam astu iti vadet budhaḥ eva kāmam sāmīpyam astu aniśam iti api na abravīt kim .. 77.3 ..
ततो भवान्देव निशासु कासुचिन्मृगीदृशं तां निभृतं विनोदयन् । अदादुपश्लोक इति श्रुतं सुतंस नारदात्सात्त्वततन्त्रविद्बभौ ॥ 77.4 ॥
ततस् भवान् देव निशासु कासुचिद् मृगी-दृशम् ताम् निभृतम् विनोदयन् । अदात् उपश्लोकः इति श्रुतम् सुतम् स नारदात् सात्त्वत-तन्त्र-विद् बभौ ॥ ७७।४ ॥
tatas bhavān deva niśāsu kāsucid mṛgī-dṛśam tām nibhṛtam vinodayan . adāt upaślokaḥ iti śrutam sutam sa nāradāt sāttvata-tantra-vid babhau .. 77.4 ..
अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्यामभ्यर्चितो बहु नुतो मुदितेन तेन । एनं विसृज्य विपिनागतपाण्डवेयवृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ॥ 77.5 ॥
अक्रूर-मन्दिर-मितः अथ बल-उद्धवाभ्याम् अभ्यर्चितः बहु नुतः मुदितेन तेन । एनम् विसृज्य विपिन-आगत-पाण्डवेय-वृत्तम् विवेदिथ तथा धृतराष्ट्र-चेष्टाम् ॥ ७७।५ ॥
akrūra-mandira-mitaḥ atha bala-uddhavābhyām abhyarcitaḥ bahu nutaḥ muditena tena . enam visṛjya vipina-āgata-pāṇḍaveya-vṛttam viveditha tathā dhṛtarāṣṭra-ceṣṭām .. 77.5 ..
विघाताज्जामातुः परमसुहृदो भोजनृपतेर्जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम् । रथाद्यैर्द्योलब्धैः कतिपयबलस्त्वं बलयुतस्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥ 77.6 ॥
विघातात् जामातुः परम-सुहृदः भोज-नृपतेः जरासन्धे रुन्धति अनवधि-रुषा-अन्धे अथ मथुराम् । रथ-आद्यैः द्यः-लब्धैः कतिपय-बलः त्वम् बल-युतः त्रयोविंशति-अक्षौहिणि तत् उपनीतम् समहृथाः ॥ ७७।६ ॥
vighātāt jāmātuḥ parama-suhṛdaḥ bhoja-nṛpateḥ jarāsandhe rundhati anavadhi-ruṣā-andhe atha mathurām . ratha-ādyaiḥ dyaḥ-labdhaiḥ katipaya-balaḥ tvam bala-yutaḥ trayoviṃśati-akṣauhiṇi tat upanītam samahṛthāḥ .. 77.6 ..
बद्धं बलादथ बलेन बलोत्तरं त्वंभूयो बलोद्यमरसेन मुमोचिथैनम् । निश्शेषदिग्जयसमाहृतविश्वसैन्यात्कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥ 77.7 ॥
बद्धम् बलात् अथ बलेन बल-उत्तरम् त्वम् भूयस् बल-उद्यम-रसेन मुमोचिथ एनम् । निश्शेष-दिग्जय-समाहृत-विश्व-सैन्यात् कः अन्यः ततस् हि बल-पौरुषवान् तदानीम् ॥ ७७।७ ॥
baddham balāt atha balena bala-uttaram tvam bhūyas bala-udyama-rasena mumocitha enam . niśśeṣa-digjaya-samāhṛta-viśva-sainyāt kaḥ anyaḥ tatas hi bala-pauruṣavān tadānīm .. 77.7 ..
भग्नस्स लग्नहृदयोऽपि नृपैः प्रणुन्नोयुद्धं त्वया व्यधित षोडशकृत्व एवम् । अक्षौहिणीः शिव शिवास्य जघन्थ विष्णोसम्भूय सैकनवतित्रिशतं तदानीम् ॥ 77.8 ॥
भग्नः स लग्न-हृदयः अपि नृपैः प्रणुन्नः युद्धम् त्वया व्यधित षोडश-कृत्वस् एवम् । अक्षौहिणीः शिव शिव अस्य जघन्थ विष्णो सम्भूय स एकनवति-त्रिशतम् तदानीम् ॥ ७७।८ ॥
bhagnaḥ sa lagna-hṛdayaḥ api nṛpaiḥ praṇunnaḥ yuddham tvayā vyadhita ṣoḍaśa-kṛtvas evam . akṣauhiṇīḥ śiva śiva asya jaghantha viṣṇo sambhūya sa ekanavati-triśatam tadānīm .. 77.8 ..
अष्टादशेऽस्य समरे समुपेयुषि त्वंदृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या । त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्येतत्राथ योगबलतः स्वजनाननैषीः ॥ 77.9 ॥
अष्टादशे अस्य समरे समुपेयुषि त्वम् दृष्ट्वा पुरस् अथ यवनम् यवन-त्रिकोट्या । त्वष्ट्रा विधाप्य पुरम् आशु पयोधि-मध्ये तत्र अथ योग-बलतः स्व-जनान् अनैषीः ॥ ७७।९ ॥
aṣṭādaśe asya samare samupeyuṣi tvam dṛṣṭvā puras atha yavanam yavana-trikoṭyā . tvaṣṭrā vidhāpya puram āśu payodhi-madhye tatra atha yoga-balataḥ sva-janān anaiṣīḥ .. 77.9 ..
पद्भ्यां त्वं पद्ममाली चकितिव पुरान्निर्गतो धावमानोम्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः । सुप्तेनाङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन्भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥ 77.10 ॥
पद्भ्याम् त्वम् पद्ममाली पुरात् निर्गतः धावमानः म्लेच्छ-ईशेन अनुयातः वध-सुकृत-विहीनेन शैले न्यलैषीः । सुप्तेन अङ्घ्रि-आहतेन द्रुतम् अथ मुचुकुन्देन भस्मीकृते अस्मिन् भूपाय अस्मै गुहा-अन्ते सु ललित-वपुषा तस्थिषे भक्ति-भाजे ॥ ७७।१० ॥
padbhyām tvam padmamālī purāt nirgataḥ dhāvamānaḥ mleccha-īśena anuyātaḥ vadha-sukṛta-vihīnena śaile nyalaiṣīḥ . suptena aṅghri-āhatena drutam atha mucukundena bhasmīkṛte asmin bhūpāya asmai guhā-ante su lalita-vapuṣā tasthiṣe bhakti-bhāje .. 77.10 ..
एक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षीहा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् । मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वाकार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रास्थ लोकप्रतीत्यै ॥ 77.11 ॥
एक्ष्वाकः अहम् विरक्तः अस्मि अखिल-नृप-सुखे त्वद्-प्रसाद-एक-काङ्क्षी-हा देव इति स्तुवन्तम् वर-विततिषु तम् निस्पृहम् वीक्ष्य हृष्यन् । मुक्तेः तुल्याम् च भक्तिम् धुत-सकल-मलम् मोक्षम् अपि आशु दत्त्वा अकार्यम् हिंसा-विशुद्ध्यै तपः इति च तदा प्रास्थ लोक-प्रतीत्यै ॥ ७७।११ ॥
ekṣvākaḥ aham viraktaḥ asmi akhila-nṛpa-sukhe tvad-prasāda-eka-kāṅkṣī-hā deva iti stuvantam vara-vitatiṣu tam nispṛham vīkṣya hṛṣyan . mukteḥ tulyām ca bhaktim dhuta-sakala-malam mokṣam api āśu dattvā akāryam hiṃsā-viśuddhyai tapaḥ iti ca tadā prāstha loka-pratītyai .. 77.11 ..
तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतांमगधपतिना मार्गे सैन्यैः पुरेव निवारितः । चरमविजयं दर्पायास्मै प्रदाय पलायितोजलधिनगरीं यातो वातालयेश्वर पाहि माम् ॥ 77.12 ॥
तदनु मथुराम् गत्वा हत्वा चमूम् यवन-आहृताम् मगध-पतिना मार्गे सैन्यैः पुरा इव निवारितः । चरम-विजयम् दर्पाय अस्मै प्रदाय पलायितः जलधि-नगरीम् यातः वातालय-ईश्वर पाहि माम् ॥ ७७।१२ ॥
tadanu mathurām gatvā hatvā camūm yavana-āhṛtām magadha-patinā mārge sainyaiḥ purā iva nivāritaḥ . carama-vijayam darpāya asmai pradāya palāyitaḥ jaladhi-nagarīm yātaḥ vātālaya-īśvara pāhi mām .. 77.12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In