| |
|

This overlay will guide you through the buttons:

बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः । द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥ 79.1 ॥
बल-समेत-बल-अनुगतः भवान् पुरम् अगाहत भीष्मक-मानितः । द्विज-सुतम् त्वद्-उपागम-वादिनम् धृत-रसा तरसा प्रणनाम सा ॥ ७९।१ ॥
bala-sameta-bala-anugataḥ bhavān puram agāhata bhīṣmaka-mānitaḥ . dvija-sutam tvad-upāgama-vādinam dhṛta-rasā tarasā praṇanāma sā .. 79.1 ..
भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् । विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥ 79.2 ॥
भुवन-कान्तम् अवेक्ष्य भवत्-वपुः नृप-सुतस्य निशम्य च चेष्टितम् । विपुल-खेद-जुषाम् पुर-वासिनाम् स रुदितैः उदितैः अगमत् निशा ॥ ७९।२ ॥
bhuvana-kāntam avekṣya bhavat-vapuḥ nṛpa-sutasya niśamya ca ceṣṭitam . vipula-kheda-juṣām pura-vāsinām sa ruditaiḥ uditaiḥ agamat niśā .. 79.2 ..
तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा । निरगमद्भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥ 79.3 ॥
तदनु वन्दितुम् इन्दु-मुखी शिवाम् विहित-मङ्गल-भूषण-भासुरा । निरगमत् भव-दर्पित-जीविता स्व-पुरतस् पुरतस् सु भट-आवृता ॥ ७९।३ ॥
tadanu vanditum indu-mukhī śivām vihita-maṅgala-bhūṣaṇa-bhāsurā . niragamat bhava-darpita-jīvitā sva-puratas puratas su bhaṭa-āvṛtā .. 79.3 ..
कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् । मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलम् ॥ 79.4 ॥
कुल-वधूभिः उपेत्य कुमारिका गिरिसुताम् परिपूज्य च स आदरम् । मुहुर् अयाचत तद्-पद-पङ्कजे निपतिता पतिताम् तव केवलम् ॥ ७९।४ ॥
kula-vadhūbhiḥ upetya kumārikā girisutām paripūjya ca sa ādaram . muhur ayācata tad-pada-paṅkaje nipatitā patitām tava kevalam .. 79.4 ..
समवलोक कुतुहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते । नृपसुता निरगात् ग्रिजालयात् सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥ 79.5 ॥
समवलोक कुतुहल-सङ्कुले नृप-कुले निभृतम् त्वयि च स्थिते । नृप-सुता निरगात् ग्रिज-आलयात् सु रुचिरम् रुचि-रञ्जित-दिङ्मुखा ॥ ७९।५ ॥
samavaloka kutuhala-saṅkule nṛpa-kule nibhṛtam tvayi ca sthite . nṛpa-sutā niragāt grija-ālayāt su ruciram ruci-rañjita-diṅmukhā .. 79.5 ..
भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया । त्वमपि देव कटाक्षविमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् ॥ 79.6 ॥
भुवन-मोहन-रूप-रुचा तदा विवशित-अखिल-राज-कदम्बया । त्वम् अपि देव कटाक्ष-विमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् ॥ ७९।६ ॥
bhuvana-mohana-rūpa-rucā tadā vivaśita-akhila-rāja-kadambayā . tvam api deva kaṭākṣa-vimokṣaṇaiḥ pramadayā madayāñcakṛṣe manāk .. 79.6 ..
क्व तु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् । समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ॥ 79.7 ॥
क्व तु गमिष्यसि चन्द्र-मुखी इति ताम् सरसम् एत्य करेण हरन् क्षणात् । समधिरोप्य रथम् त्वम् अपाहृथाः भुवि ततस् विततः निनदः द्विषाम् ॥ ७९।७ ॥
kva tu gamiṣyasi candra-mukhī iti tām sarasam etya kareṇa haran kṣaṇāt . samadhiropya ratham tvam apāhṛthāḥ bhuvi tatas vitataḥ ninadaḥ dviṣām .. 79.7 ..
क्वनु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः । न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥ 79.8 ॥
क्वनु गतः पशुपालः इति क्रुधा कृत-रणाः यदुभिः च जिताः नृपाः । न तु भवान् उदचाल्यत तैः अहो पिशुनकैः शुनकैः इव केसरी ॥ ७९।८ ॥
kvanu gataḥ paśupālaḥ iti krudhā kṛta-raṇāḥ yadubhiḥ ca jitāḥ nṛpāḥ . na tu bhavān udacālyata taiḥ aho piśunakaiḥ śunakaiḥ iva kesarī .. 79.8 ..
तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् । हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥ 79.9 ॥
तदनु रुक्मिणम् आगतम् आहवे वधम् उपेक्ष्य निबध्य विरूपयन् । हृत-मदम् परिमुच्य बल-उक्तिभिः पुरमया रमया सह कान्तया ॥ ७९।९ ॥
tadanu rukmiṇam āgatam āhave vadham upekṣya nibadhya virūpayan . hṛta-madam parimucya bala-uktibhiḥ puramayā ramayā saha kāntayā .. 79.9 ..
नवसमागमलज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् । अरमयः खलु नाथ यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥ 79.10 ॥
नव-समागम-लज्जित-मानसाम् प्रणय-कौतुक-जृम्भित-मन्मथाम् । अरमयः खलु नाथ यथासुखम् रहसि ताम् हसित-अंशु-लसत्-मुखीम् ॥ ७९।१० ॥
nava-samāgama-lajjita-mānasām praṇaya-kautuka-jṛmbhita-manmathām . aramayaḥ khalu nātha yathāsukham rahasi tām hasita-aṃśu-lasat-mukhīm .. 79.10 ..
विविधनर्मभिरेवमहर्निशं प्रमदमाकलयन्पुनरेकदा । ऋजुमतेः किल वक्रागिरा भवान् वरतनोरतनोदतिलोलताम् ॥ 79.11 ॥
विविध-नर्मभिः एवम् अहर्निशम् प्रमदम् आकलयन् पुनर् एकदा । ऋजुमतेः किल वक्रा-गिरा भवान् ॥ ७९।११ ॥
vividha-narmabhiḥ evam aharniśam pramadam ākalayan punar ekadā . ṛjumateḥ kila vakrā-girā bhavān .. 79.11 ..
तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं रमयन्निमाम् । अयि मुकुन्द भवच्चरितानि नः प्रगदतां गदतान्तिमपाकुरु ॥ 79.12 ॥
तद्-अधिकैः अथ लालन-कौशलैः प्रणयिनीम् अधिकम् रमयन् इमाम् । अयि मुकुन्द भवत्-चरितानि नः प्रगदताम् गद-तान्तिम् अपाकुरु ॥ ७९।१२ ॥
tad-adhikaiḥ atha lālana-kauśalaiḥ praṇayinīm adhikam ramayan imām . ayi mukunda bhavat-caritāni naḥ pragadatām gada-tāntim apākuru .. 79.12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In