| |
|

This overlay will guide you through the buttons:

एवं तावत्प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा । ब्रह्मा भूयस्त्वत्त एवाप्य वेदान् सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥ 8.1 ॥
एवम् तावत् प्राकृत-प्रक्षय-अन्ते ब्राह्मे कल्पे हि आदिमे लब्ध-जन्मा । ब्रह्मा भूयस् त्वत्तः एवा आप्य वेदान् सृष्टिम् चक्रे पूर्व-कल्प-उपमानाम् ॥ ८।१ ॥
evam tāvat prākṛta-prakṣaya-ante brāhme kalpe hi ādime labdha-janmā . brahmā bhūyas tvattaḥ evā āpya vedān sṛṣṭim cakre pūrva-kalpa-upamānām .. 8.1 ..
सोऽयं चतुर्युगसहस्रमितान्यहानि तावन्मिताश्च रजनीर्बहुशो निनाय । निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर् नैमित्तिकप्रळयमाहुरतोऽस्य रात्रिम् ॥ 8.2 ॥
सः अयम् चतुर्-युग-सहस्र-मितानि अहानि तावत्-मिताः च रजनीः बहुशस् निनाय । निद्राति असौ त्वयि निलीय समम् स्व-सृष्टैः नैमित्तिक-प्रळयम् आहुः अतस् अस्य रात्रिम् ॥ ८।२ ॥
saḥ ayam catur-yuga-sahasra-mitāni ahāni tāvat-mitāḥ ca rajanīḥ bahuśas nināya . nidrāti asau tvayi nilīya samam sva-sṛṣṭaiḥ naimittika-pral̤ayam āhuḥ atas asya rātrim .. 8.2 ..
अस्मादृशां पुनरहर्मुखकृत्यतुल्यां सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् । प्राग्ब्रह्मकल्पजनुषां च परायुषां तु सुप्तप्रबोधनसमाऽस्ति तदाऽपि सृष्टिः ॥ 8.3 ॥
अस्मादृशाम् पुनर् अहर्-मुख-कृत्य-तुल्याम् सृष्टिम् करोति अनुदिनम् स भवत्-प्रसादात् । प्राक् ब्रह्म-कल्प-जनुषाम् च पर-आयुषाम् तु सुप्त-प्रबोधन-समा अस्ति तदा अपि सृष्टिः ॥ ८।३ ॥
asmādṛśām punar ahar-mukha-kṛtya-tulyām sṛṣṭim karoti anudinam sa bhavat-prasādāt . prāk brahma-kalpa-januṣām ca para-āyuṣām tu supta-prabodhana-samā asti tadā api sṛṣṭiḥ .. 8.3 ..
पञ्चाशदब्दमधुना स्ववयोऽर्धरूपम् एकं परार्धमतिवृत्य हि वर्ततेऽसौ । तत्रान्त्यरात्रिजनितान्कथयामि भूमन् पश्चाद्दिनावतरणे च भवद्विलासान् ॥ 8.4 ॥
पञ्चाशत्-अब्दम् अधुना स्व-वयः-अर्ध-रूपम् एकम् परार्धम् अतिवृत्य हि वर्तते असौ । तत्र अन्त्य-रात्रि-जनितान् कथयामि भूमन् पश्चात् दिन-अवतरणे च भवत्-विलासान् ॥ ८।४ ॥
pañcāśat-abdam adhunā sva-vayaḥ-ardha-rūpam ekam parārdham ativṛtya hi vartate asau . tatra antya-rātri-janitān kathayāmi bhūman paścāt dina-avataraṇe ca bhavat-vilāsān .. 8.4 ..
दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये । जगन्ति च त्वज्जठरं समीयु स्तदेदमेकार्णवमास विश्वम् ॥ 8.5 ॥
दिन-अवसाने अथ सरोजयोनिः सुषुप्ति-कामः त्वयि सन् निलिल्ये । जगन्ति च त्वद्-जठरम् समीयुः स्तदा इदम् एकार्णवम् आस विश्वम् ॥ ८।५ ॥
dina-avasāne atha sarojayoniḥ suṣupti-kāmaḥ tvayi san nililye . jaganti ca tvad-jaṭharam samīyuḥ stadā idam ekārṇavam āsa viśvam .. 8.5 ..
तवैव वेषे फणिराज शेषे जलैकशेषे भुवने स्म शेषे । आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥ 8.6 ॥
तव एव वेषे फणिराज शेषे जल-एक-शेषे भुवने स्म शेषे । ॥ ८।६ ॥
tava eva veṣe phaṇirāja śeṣe jala-eka-śeṣe bhuvane sma śeṣe . .. 8.6 ..
कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ । त्वया प्रसुप्तं परिसुप्तशक्ति व्रजेन तत्राखिलजीवधाम्ना ॥ 8.7 ॥
काल-आख्य-शक्तिम् प्रलय-अवसाने प्रबोधय इति आदिशता किल आदौ । त्वया प्रसुप्तम् परिसुप्त-शक्ति व्रजेन तत्र अखिल-जीव-धाम्ना ॥ ८।७ ॥
kāla-ākhya-śaktim pralaya-avasāne prabodhaya iti ādiśatā kila ādau . tvayā prasuptam parisupta-śakti vrajena tatra akhila-jīva-dhāmnā .. 8.7 ..
चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये । कालाख्यशक्तिः प्रथमप्रबुद्धा प्राबोधयत्त्वां किल विश्वनाथ ॥ 8.8 ॥
चतुर्-युगाणाम् च सहस्रम् एवम् त्वयि प्रसुप्ते पुनर् अद्वितीये । काल-आख्य-शक्तिः प्रथम-प्रबुद्धा प्राबोधयत् त्वाम् किल विश्वनाथ ॥ ८।८ ॥
catur-yugāṇām ca sahasram evam tvayi prasupte punar advitīye . kāla-ākhya-śaktiḥ prathama-prabuddhā prābodhayat tvām kila viśvanātha .. 8.8 ..
विबुध्य च त्वं जलगर्भशायिन् विलोक्य लोकानखिलान्प्रलीनान् । तेष्वेव सूक्ष्मात्मतया निजान्तः स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ 8.9 ॥
विबुध्य च त्वम् जलगर्भ-शायिन् विलोक्य लोकान् अखिलान् प्रलीनान् । तेषु एव सूक्ष्म-आत्म-तया निज-अन्तर् स्थितेषु विश्वेषु दद अथ दृष्टिम् ॥ ८।९ ॥
vibudhya ca tvam jalagarbha-śāyin vilokya lokān akhilān pralīnān . teṣu eva sūkṣma-ātma-tayā nija-antar sthiteṣu viśveṣu dada atha dṛṣṭim .. 8.9 ..
ततस्त्वदीयादयि नाभिरन्ध्रा दुदञ्चितं किञ्चन दिव्यपद्मम । निलीननिश्शेषपदार्थमाला सङ्क्षेपरूपं मुकुलायमानम् ॥ 8.10 ॥
ततस् त्वदीया अदयि नाभि-रन्ध्रा दुदञ्चितम् किञ्चन दिव्य-पद्मम् । निलीन-निश्शेष-पदार्थ-माला सङ्क्षेप-रूपम् मुकुलायमानम् ॥ ८।१० ॥
tatas tvadīyā adayi nābhi-randhrā dudañcitam kiñcana divya-padmam . nilīna-niśśeṣa-padārtha-mālā saṅkṣepa-rūpam mukulāyamānam .. 8.10 ..
तदेतदंभोरुहकुड्मळं ते कळेबरात्तोयपथे प्ररूढम् । बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ 8.11 ॥
तत् एतत् अंभोरुह-कुड्मळम् ते कळेबरात् तोयपथे प्ररूढम् । बहिस् निरीतम् परितस् स्फुरद्भिः स्व-धामभिः ध्वान्त-मलम् न्यकृन्तत् ॥ ८।११ ॥
tat etat aṃbhoruha-kuḍmal̤am te kal̤ebarāt toyapathe prarūḍham . bahis nirītam paritas sphuradbhiḥ sva-dhāmabhiḥ dhvānta-malam nyakṛntat .. 8.11 ..
संफुल्लपत्रे नितरां विचित्रे तस्मिन्भवद्वीर्यधृते सरोजे । स पद्मजन्मा विधिराविरासीत् स्वयंप्रबुद्धाखिलवेदराशिः ॥ 8.12 ॥
संफुल्ल-पत्रे नितराम् विचित्रे तस्मिन् भवत्-वीर्य-धृते सरोजे । स पद्मजन्मा विधिः आविरासीत् स्वयंप्रबुद्ध-अखिल-वेदराशिः ॥ ८।१२ ॥
saṃphulla-patre nitarām vicitre tasmin bhavat-vīrya-dhṛte saroje . sa padmajanmā vidhiḥ āvirāsīt svayaṃprabuddha-akhila-vedarāśiḥ .. 8.12 ..
अस्मिन्परात्मन् ननु पद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः । अनन्तभूमा मम रोगराशिं निरुन्धि वातालयवास विष्णो ॥ 8.13 ॥
अस्मिन् परात्मन् ननु पद्म-कल्पे त्वम् इत्थम् उत्थापित-पद्मयोनिः । अनन्त-भूमा मम रोग-राशिम् निरुन्धि वात-आलय-वास विष्णो ॥ ८।१३ ॥
asmin parātman nanu padma-kalpe tvam ittham utthāpita-padmayoniḥ . ananta-bhūmā mama roga-rāśim nirundhi vāta-ālaya-vāsa viṣṇo .. 8.13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In