| |
|

This overlay will guide you through the buttons:

सत्राजितस्त्वमथ लुब्धवदर्कलब्धंदिव्यं स्यमन्तकमणिं भगवन्नयाचीः । तत्कारणं बहुविधं मम भाति नूनंतस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥ 80.1 ॥
सत्राजितः त्वम् अथ लुब्ध-वत् अर्क-लब्धम् दिव्यम् स्यमन्तक-मणिम् भगवत् नयाचीः । तद्-कारणम् बहुविधम् मम भाति नूनम् तस्य आत्मजाम् त्वयि रताम् छलतः विवोढुम् ॥ ८०।१ ॥
satrājitaḥ tvam atha lubdha-vat arka-labdham divyam syamantaka-maṇim bhagavat nayācīḥ . tad-kāraṇam bahuvidham mama bhāti nūnam tasya ātmajām tvayi ratām chalataḥ vivoḍhum .. 80.1 ..
अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसाप्रसेनस्तद्()भ्राता गलभुवि वहन्प्राप मृगयाम् । अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात्कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥ 80.2 ॥
अदत्तम् तम् तुभ्यम् मणि-वरम् अनेन अल्प-मनसा अप्रसेनः तत्भ्राता गलभुवि वहन् प्राप मृगयाम् । अहन् एनम् सिंहः मणि-महसि मांस-भ्रम-वशात् कपीन्द्रः तम् हत्वा मणिम् अपि च बालाय ददिवान् ॥ ८०।२ ॥
adattam tam tubhyam maṇi-varam anena alpa-manasā aprasenaḥ tatbhrātā galabhuvi vahan prāpa mṛgayām . ahan enam siṃhaḥ maṇi-mahasi māṃsa-bhrama-vaśāt kapīndraḥ tam hatvā maṇim api ca bālāya dadivān .. 80.2 ..
शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरंजनानां पीयूषं भवति गुणिनां दोषकणिका । ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरःप्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥ 80.3 ॥
शशंसुः सत्राजित्-गिरम् अनु जनाः त्वाम् मणि-हरंजनानाम् पीयूषम् भवति गुणिनाम् दोष-कणिका । ततस् सर्वज्ञः अपि स्व-जन-सहितः मार्गण-परःप्रसेनम् तम् दृष्ट्वा हरिम् अपि गतः अभूः कपि-गुहाम् ॥ ८०।३ ॥
śaśaṃsuḥ satrājit-giram anu janāḥ tvām maṇi-haraṃjanānām pīyūṣam bhavati guṇinām doṣa-kaṇikā . tatas sarvajñaḥ api sva-jana-sahitaḥ mārgaṇa-paraḥprasenam tam dṛṣṭvā harim api gataḥ abhūḥ kapi-guhām .. 80.3 ..
भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान्मुकुन्दशरणं हि मां क इह रोद्धुमित्यालपन् । विभो रघुपते हरे जय जयेत्यलं मुष्टिभिश्चिरं तव समर्चनं व्यधित भक्तचूडामणिः ॥ 80.4 ॥
भवन्तम् अ वितर्कयन् अति वयाः स्वयम् जाम्बवान् मुकुन्द-शरणम् हि माम् कः इह रोद्धुम् इति आलपन् । विभो रघुपते हरे जय जय इति अलम् मुष्टिभिः चिरम् तव समर्चनम् व्यधित भक्त-चूडामणिः ॥ ८०।४ ॥
bhavantam a vitarkayan ati vayāḥ svayam jāmbavān mukunda-śaraṇam hi mām kaḥ iha roddhum iti ālapan . vibho raghupate hare jaya jaya iti alam muṣṭibhiḥ ciram tava samarcanam vyadhita bhakta-cūḍāmaṇiḥ .. 80.4 ..
बुद्ध्वाथ तेन दत्तां नवरमणीं वरमणीं च परिगृह्णन् । अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥ 80.5 ॥
बुद्ध्वा अथ तेन दत्ताम् नवरमणीम् वरमणीम् च परिगृह्णन् । अनुगृह्णन् अमुम् आगाः सपदि च सत्राजिते मणिम् प्रादाः ॥ ८०।५ ॥
buddhvā atha tena dattām navaramaṇīm varamaṇīm ca parigṛhṇan . anugṛhṇan amum āgāḥ sapadi ca satrājite maṇim prādāḥ .. 80.5 ..
तदनु स खलु व्रीडालोलो विलोलविलोचनांदुहितरमहो धीमान्भामां गिरैव परार्पिताम् । अदित मणिना तुभ्यं लभ्यं समेत्य भवानपिप्रमुदितमनास्तस्यैवादान्मणीं गहनाशयः ॥ 80.6 ॥
तदनु स खलु व्रीडा-लोलः विलोल-विलोचनाम् दुहितरम् अहो धीमान् भामाम् गिरा एव पर-अर्पिताम् । अदित मणिना तुभ्यम् लभ्यम् समेत्य भवान् अपिप्रमुदित-मनाः तस्य एव अदात् मणीम् गहन-आशयः ॥ ८०।६ ॥
tadanu sa khalu vrīḍā-lolaḥ vilola-vilocanām duhitaram aho dhīmān bhāmām girā eva para-arpitām . adita maṇinā tubhyam labhyam sametya bhavān apipramudita-manāḥ tasya eva adāt maṇīm gahana-āśayaḥ .. 80.6 ..
व्रीलाकुलां रमयति त्वयि सत्यभामांकौन्तेयदाहकथयाथ कुरून्प्रयाते । ही गान्दिनेयकृतवर्मगिरा निपात्यसत्राजितं शतधनुर्मणिमाजहार ॥ 80.7 ॥
व्री-लाकुलाम् रमयति त्वयि सत्यभामाम् कौन्तेय-दाह-कथया अथ कुरून् प्रयाते । ही गान्दिनेय-कृतवर्म-गिरा निपात्य-सत्राजितम् शतधनुः-मणिम् आजहार ॥ ८०।७ ॥
vrī-lākulām ramayati tvayi satyabhāmām kaunteya-dāha-kathayā atha kurūn prayāte . hī gāndineya-kṛtavarma-girā nipātya-satrājitam śatadhanuḥ-maṇim ājahāra .. 80.7 ..
शोकात्कुरूनुपगतामवलोक्य कान्तांहत्वा द्रुतं शतधुनं समहर्षयस्ताम् । रत्ने सशङ्क इव मैथिलगेहमेत्यरामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥ 80.8 ॥
शोकात् कुरून् उपगताम् अवलोक्य कान्ताम् हत्वा द्रुतम् शतधुनम् स महा-ऋषयः ताम् । रत्ने स शङ्कः इव मैथिल-गेहम् एत्य रामः गदाम् समशिशिक्षत धार्तराष्ट्रम् ॥ ८०।८ ॥
śokāt kurūn upagatām avalokya kāntām hatvā drutam śatadhunam sa mahā-ṛṣayaḥ tām . ratne sa śaṅkaḥ iva maithila-geham etya rāmaḥ gadām samaśiśikṣata dhārtarāṣṭram .. 80.8 ..
अक्रूर एष भगवन् भवदिच्छयैवसत्राजितः कुचरितस्य युयोज हिंसाम् । अक्रूरतो मणिमनाहृतवान्पुनस्त्वंतस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥ 80.9 ॥
अक्रूरः एष भगवन् भवत्-इच्छया एव सत्राजितः कु चरितस्य युयोज हिंसाम् । अक्रूरतः मणिम् अन् आहृतवान् पुनर् त्वम् तस्य एव भूतिम् उपधातुम् इति ब्रुवन्ति ॥ ८०।९ ॥
akrūraḥ eṣa bhagavan bhavat-icchayā eva satrājitaḥ ku caritasya yuyoja hiṃsām . akrūrataḥ maṇim an āhṛtavān punar tvam tasya eva bhūtim upadhātum iti bruvanti .. 80.9 ..
भक्तस्त्वयि स्थिरतरः स हि गान्दिनेयस्तस्यैव कापथमतिः कथमीश जाता । विज्ञानवान्प्रशमवानहमित्युदीर्णंगर्वं ध्रुवं शमयितुं भवता कृतैव ॥ 80.10 ॥
भक्तः त्वयि स्थिरतरः स हि गान्दिनेयः तस्य एव कापथ-मतिः कथम् ईश जाता । विज्ञानवान् प्रशमवान् अहम् इति उदीर्णम् गर्वम् ध्रुवम् शमयितुम् भवता कृता एव ॥ ८०।१० ॥
bhaktaḥ tvayi sthirataraḥ sa hi gāndineyaḥ tasya eva kāpatha-matiḥ katham īśa jātā . vijñānavān praśamavān aham iti udīrṇam garvam dhruvam śamayitum bhavatā kṛtā eva .. 80.10 ..
यातं भयेन कृतवर्मयुतं पुनस्तमाहूय तद्विनिहितं च मणिं प्रकाश्य । तत्रैव सुव्रतधरे विनिधाय तुष्यन्भामाकुचान्तरशयः पवनेश पायाः ॥ 80.11 ॥
यातम् भयेन कृतवर्म-युतम् पुनर् तम् आहूय तद्-विनिहितम् च मणिम् प्रकाश्य । तत्र एव सुव्रत-धरे विनिधाय तुष्यन् भामा-कुच-अन्तर-शयः पवनेश पायाः ॥ ८०।११ ॥
yātam bhayena kṛtavarma-yutam punar tam āhūya tad-vinihitam ca maṇim prakāśya . tatra eva suvrata-dhare vinidhāya tuṣyan bhāmā-kuca-antara-śayaḥ pavaneśa pāyāḥ .. 80.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In