| |
|

This overlay will guide you through the buttons:

प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तंहत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् । तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रींतत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥ 82.1 ॥
प्रद्युम्नः रौक्मिणेयः स खलु तव कला शम्बरेण आहृतः तम् हत्वा रत्या सह आप्तः निज-पुरम् अहरत् रुक्मि-कन्याम् च धन्याम् । तद्-पुत्रः अथ अनिरुद्धः गुण-निधिः अवहत् रोचनाम् रुक्मि-पौत्रीम् तत्र उद्वाहे गतः त्वम् न्यवधि मुसलिना रुक्मी अपि द्यूत-वैरात् ॥ ८२।१ ॥
pradyumnaḥ raukmiṇeyaḥ sa khalu tava kalā śambareṇa āhṛtaḥ tam hatvā ratyā saha āptaḥ nija-puram aharat rukmi-kanyām ca dhanyām . tad-putraḥ atha aniruddhaḥ guṇa-nidhiḥ avahat rocanām rukmi-pautrīm tatra udvāhe gataḥ tvam nyavadhi musalinā rukmī api dyūta-vairāt .. 82.1 ..
बाणस्य सा बलिसुतस्य सहस्रबाहोर्माहेश्वरस्य महिता दुहिता किलोषा । त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं स्वप्नेऽनुभूय भगवन् विरहातुराऽभूत् ॥ 82.2 ॥
बाणस्य सा बलि-सुतस्य सहस्रबाहोः माहेश्वरस्य महिता दुहिता किल उषा । त्वद्-पौत्रम् एनम् अनिरुद्धम् अदृष्ट-पूर्वम् स्वप्ने अनुभूय भगवन् विरह-आतुरा अभूत् ॥ ८२।२ ॥
bāṇasya sā bali-sutasya sahasrabāhoḥ māheśvarasya mahitā duhitā kila uṣā . tvad-pautram enam aniruddham adṛṣṭa-pūrvam svapne anubhūya bhagavan viraha-āturā abhūt .. 82.2 ..
योगिन्यतीव कुशला खलु चित्रलेखातस्याः सखी विलिखती तरुणानशेषान् । तत्रानिरुद्धमुषया विदितं निशायामानेष्ट योगबलतो भवतो निकेतात् ॥ 82.3 ॥
योगिनी अतीव कुशला खलु चित्रलेखा तस्याः सखी विलिखती तरुणान् अशेषान् । तत्र अनिरुद्ध-मुषया विदितम् निशायाम् आनेष्ट योग-बलतः भवतः निकेतात् ॥ ८२।३ ॥
yoginī atīva kuśalā khalu citralekhā tasyāḥ sakhī vilikhatī taruṇān aśeṣān . tatra aniruddha-muṣayā viditam niśāyām āneṣṭa yoga-balataḥ bhavataḥ niketāt .. 82.3 ..
कन्यापुरे दयितया सुखमारमन्तं चैनं कथञ्चन बबन्धुषि शर्वबन्धौ । श्रीनारदोक्ततदुदन्तदुरन्तरोषैस्त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥ 82.4 ॥
कन्यापुरे दयितया सुखम् आरमन्तम् च एनम् कथञ्चन बबन्धुषि शर्वबन्धौ । श्री-नारद-उक्त-तद्-उदन्त-दुरन्त-रोषैः त्वम् तस्य शोणित-पुरम् यदुभिः न्यरुन्धाः ॥ ८२।४ ॥
kanyāpure dayitayā sukham āramantam ca enam kathañcana babandhuṣi śarvabandhau . śrī-nārada-ukta-tad-udanta-duranta-roṣaiḥ tvam tasya śoṇita-puram yadubhiḥ nyarundhāḥ .. 82.4 ..
पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान्समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे । महाप्राणो बाणो जटिति युयुधानेन युयुधेगुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥ 82.5 ॥
पुरीपालः शैलप्रिय-दुहितृ-नाथः अस्य भगवान् समम् भूत-व्रातैः यदु-बलम् अशङ्कम् निरुरुधे । महा-प्राणः बाणः जटिति युयुधानेन युयुधेगुहः प्रद्युम्नेन त्वम् अपि पुर-हन्त्रा जघटिषे ॥ ८२।५ ॥
purīpālaḥ śailapriya-duhitṛ-nāthaḥ asya bhagavān samam bhūta-vrātaiḥ yadu-balam aśaṅkam nirurudhe . mahā-prāṇaḥ bāṇaḥ jaṭiti yuyudhānena yuyudheguhaḥ pradyumnena tvam api pura-hantrā jaghaṭiṣe .. 82.5 ..
निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशेद्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः । परास्कन्दत्स्कन्दः कुसुमशरबाणैश्च सचिवःस कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥ 82.6 ॥
निरुद्ध-अशेष-अस्त्रे मुमुहुषि तव अस्त्रेण गिरिशे द्रुताः भूताः भीताः प्रमथ-कुल-वीराः प्रमथिताः । परास्कन्दत् स्कन्दः कुसुम-शर-बाणैः च सचिवः स कुम्भाण्डः भाण्डम् नवम् इव बलेन आशु बिभिदे ॥ ८२।६ ॥
niruddha-aśeṣa-astre mumuhuṣi tava astreṇa giriśe drutāḥ bhūtāḥ bhītāḥ pramatha-kula-vīrāḥ pramathitāḥ . parāskandat skandaḥ kusuma-śara-bāṇaiḥ ca sacivaḥ sa kumbhāṇḍaḥ bhāṇḍam navam iva balena āśu bibhide .. 82.6 ..
चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणेव्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण । ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं सज्वरोऽगात्प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥ 82.7 ॥
चापानाम् पञ्चशत्या प्रसभम् उपगते छिन्न-चापे अथ बाणे व्यर्थे याते समेतः ज्वरपतिः अशनैस् अज्वरि त्वद्-ज्वरेण । ज्ञानी स्तुत्वा अथ दत्त्वा तव चरित-जुषाम् विज्वरम् स ज्वरः अगात् प्रायस् अन्तर् ज्ञानवन्तः अपि च बहु-तमसा रौद्र-चेष्टाः हि रौद्राः ॥ ८२।७ ॥
cāpānām pañcaśatyā prasabham upagate chinna-cāpe atha bāṇe vyarthe yāte sametaḥ jvarapatiḥ aśanais ajvari tvad-jvareṇa . jñānī stutvā atha dattvā tava carita-juṣām vijvaram sa jvaraḥ agāt prāyas antar jñānavantaḥ api ca bahu-tamasā raudra-ceṣṭāḥ hi raudrāḥ .. 82.7 ..
बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद्वितन्वन्निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः । तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तंमुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥ 82.8 ॥
बाणम् नाना आयुध-उग्रम् पुनर् अभिपतितम् दुर्प-दोषात् वितन्वन् निर्लून-अशेष-दोषम् सपदि बुबुधुषा शङ्करेण उपगीतः । तद्-वाचा शिष्ट-बाहु-द्वितयम् उभयतस् निर्भयम् तद्-प्रियम् तम् मुक्त्वा तद्-दत्त-मानः निज-पुरम् अगमः स अनिरुद्धः सह उषः ॥ ८२।८ ॥
bāṇam nānā āyudha-ugram punar abhipatitam durpa-doṣāt vitanvan nirlūna-aśeṣa-doṣam sapadi bubudhuṣā śaṅkareṇa upagītaḥ . tad-vācā śiṣṭa-bāhu-dvitayam ubhayatas nirbhayam tad-priyam tam muktvā tad-datta-mānaḥ nija-puram agamaḥ sa aniruddhaḥ saha uṣaḥ .. 82.8 ..
मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणेयमं बालानीतौ दवदहनपानेऽनिलसखम् । विधिं वत्सस्तेये गिरिशमिह बाणस्य समरेविभो विश्वोत्कर्षी तदयमवतारो जयति ते ॥ 82.9 ॥
मुहुर् तावत् शक्रम् वरुणम् अजयः नन्द-हर-णेयमम् बाल-आनीतौ दव-दहन-पाने अनिलसखम् । विधिम् वत्स-स्तेये गिरिशम् इह बाणस्य समरे विभो विश्व-उत्कर्षी तत् अयम् अवतारः जयति ते ॥ ८२।९ ॥
muhur tāvat śakram varuṇam ajayaḥ nanda-hara-ṇeyamam bāla-ānītau dava-dahana-pāne anilasakham . vidhim vatsa-steye giriśam iha bāṇasya samare vibho viśva-utkarṣī tat ayam avatāraḥ jayati te .. 82.9 ..
द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् । निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर पाहि माम् ॥ 82.10 ॥
द्विज-रुषा कृकलास-वपुः-धरम् नृग-नृपम् त्रिदिव-आलयम् आपयन् । निज-जने द्विज-भक्तिम् अनुत्तमाम् उपदिशन् पवनेश्वर पाहि माम् ॥ ८२।१० ॥
dvija-ruṣā kṛkalāsa-vapuḥ-dharam nṛga-nṛpam tridiva-ālayam āpayan . nija-jane dvija-bhaktim anuttamām upadiśan pavaneśvara pāhi mām .. 82.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In