| |
|

This overlay will guide you through the buttons:

रामेऽथगोकुलगते प्रमदाप्रसक्ते हूतानुपेतयमुनादमने मदान्धे । स्वैरं समारमति सेवकवादमूढो दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥ 83.1 ॥
रामे अथ गोकुल-गते प्रमदा-प्रसक्ते हूत-अन् उपेत-यमुना-दमने मद-अन्धे । स्वैरम् समारमति सेवक-वाद-मूढः दूतम् न्ययुङ्क्त तव पौण्ड्रक-वासुदेवः ॥ ८३।१ ॥
rāme atha gokula-gate pramadā-prasakte hūta-an upeta-yamunā-damane mada-andhe . svairam samāramati sevaka-vāda-mūḍhaḥ dūtam nyayuṅkta tava pauṇḍraka-vāsudevaḥ .. 83.1 ..
नारायणोऽहमवतीर्ण इहास्मि भूमौधत्से किल त्वमपि मामकलक्षणानि । उत्सृज्य तानि शरणं व्रज मामिति त्वांदूतो जगाद सकलैर्हसितः सभायाम् ॥ 83.2 ॥
नारायणः अहम् अवतीर्णः इह अस्मि भूमौ धत्से किल त्वम् अपि मामक-लक्षणानि । उत्सृज्य तानि शरणम् व्रज माम् इति त्वांदूतः जगाद सकलैः हसितः सभायाम् ॥ ८३।२ ॥
nārāyaṇaḥ aham avatīrṇaḥ iha asmi bhūmau dhatse kila tvam api māmaka-lakṣaṇāni . utsṛjya tāni śaraṇam vraja mām iti tvāṃdūtaḥ jagāda sakalaiḥ hasitaḥ sabhāyām .. 83.2 ..
दूतेऽथ यातवति यादवसैनिकस्त्वंयातो ददर्शिथ वपुः किल पौण्ड्रकीयम् । तापेन वक्षसि कृताङ्कमनल्पमूल्यश्रीकौस्तुभं मकरकुण्डलपीतचेलम् ॥ 83.3 ॥
दूते अथ यातवति यादव-सैनिकः त्वंयातः ददर्शिथ वपुः किल पौण्ड्रकीयम् । तापेन वक्षसि कृत-अङ्कम् अनल्प-मूल्य-श्री-कौस्तुभम् मकर-कुण्डल-पीत-चेलम् ॥ ८३।३ ॥
dūte atha yātavati yādava-sainikaḥ tvaṃyātaḥ dadarśitha vapuḥ kila pauṇḍrakīyam . tāpena vakṣasi kṛta-aṅkam analpa-mūlya-śrī-kaustubham makara-kuṇḍala-pīta-celam .. 83.3 ..
कालायसं निजसुदर्शनमस्यतोऽस्यकालानलोत्करकिरेण सुदर्शनेन । शीर्षं चकर्तिथ ममर्दिथ चास्य सेनांतन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥ 83.4 ॥
कालायसम् निज-सुदर्शनम् अस्यतः अस्य अकाल-अनल-उत्कर-किरेण सुदर्शनेन । शीर्षम् चकर्तिथ ममर्दिथ च अस्य सेनांतत् मित्र-काशिप-शिरः अपि चकर्थ काश्याम् ॥ ८३।४ ॥
kālāyasam nija-sudarśanam asyataḥ asya akāla-anala-utkara-kireṇa sudarśanena . śīrṣam cakartitha mamarditha ca asya senāṃtat mitra-kāśipa-śiraḥ api cakartha kāśyām .. 83.4 ..
जाड्येन बालकगिराऽपि किलाहमेवश्रीवासुदेव इति रूढमतिश्चिरं सः । सायुज्यमेव भवदैक्यधिया गतोऽभूत्को नाम कस्य सुकृतं कथमित्यवेयात् ॥ 83.5 ॥
जाड्येन बालक-गिरा अपि किल अहम् एव श्री-वासुदेवः इति रूढ-मतिः चिरम् सः । सायुज्यम् एव भवत्-ऐक्य-धिया गतः अभूत् कः नाम कस्य सुकृतम् कथम् इति अवेयात् ॥ ८३।५ ॥
jāḍyena bālaka-girā api kila aham eva śrī-vāsudevaḥ iti rūḍha-matiḥ ciram saḥ . sāyujyam eva bhavat-aikya-dhiyā gataḥ abhūt kaḥ nāma kasya sukṛtam katham iti aveyāt .. 83.5 ..
काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः शर्वं प्रपूज्य भवते विहिताभिचारः । कृत्यानलं कमपि बाणरणातिभीतैर्भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ॥ 83.6 ॥
काशि-ईश्वरस्य तनयः अथ सुदक्षिण-आख्यः शर्वम् प्रपूज्य भवते विहित-अभिचारः । कृत्या-अनलम् कम् अपि बाण-रण-अति भीतैः भूतैः कथञ्चन वृतैः समम् अभ्यमुञ्चत् ॥ ८३।६ ॥
kāśi-īśvarasya tanayaḥ atha sudakṣiṇa-ākhyaḥ śarvam prapūjya bhavate vihita-abhicāraḥ . kṛtyā-analam kam api bāṇa-raṇa-ati bhītaiḥ bhūtaiḥ kathañcana vṛtaiḥ samam abhyamuñcat .. 83.6 ..
तालप्रमाणचरणामखिलं दहन्तींकृत्यां विलोक्य चकितैः कथितोऽपि पौरैः । द्यूतोत्सवे कमपि नो चलितो विभो त्वंपार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥ 83.7 ॥
ताल-प्रमाण-चरणाम् अखिलम् दहन्तीम् कृत्याम् विलोक्य चकितैः कथितः अपि पौरैः । द्यूत-उत्सवे कम् अपि नो चलितः विभो त्वं पार्श्व-स्थम् आशु विससर्जिथ कालचक्रम् ॥ ८३।७ ॥
tāla-pramāṇa-caraṇām akhilam dahantīm kṛtyām vilokya cakitaiḥ kathitaḥ api pauraiḥ . dyūta-utsave kam api no calitaḥ vibho tvaṃ pārśva-stham āśu visasarjitha kālacakram .. 83.7 ..
अभ्यापतत्यमितधाम्नि भवन्महास्त्रे हा हेति विद्रुतवती खलु घोरकृत्या । रोषात्सुदक्षिणमदक्षिणचेष्टितं तं पुप्लोष चक्रमपि काशिपुरामधाक्षीत् ॥ 83.8 ॥
अभ्यापतति अमित-धाम्नि भवत्-महा-अस्त्रे हा हा इति विद्रुतवती खलु घोर-कृत्या । रोषात् सु दक्षिणम् अदक्षिण-चेष्टितम् तम् पुप्लोष चक्रम् अपि काशि-पुराम् अधाक्षीत् ॥ ८३।८ ॥
abhyāpatati amita-dhāmni bhavat-mahā-astre hā hā iti vidrutavatī khalu ghora-kṛtyā . roṣāt su dakṣiṇam adakṣiṇa-ceṣṭitam tam puploṣa cakram api kāśi-purām adhākṣīt .. 83.8 ..
स खलु विविदो रक्षोघाते कृतोपकृतिः पुरातव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः । नरकसचिवो देशक्लेशं सृजन् नगरान्तिकेझटिति हलिना युध्यन्नद्धा पपात तलाहतः ॥ 83.9 ॥
स खलु विविदः रक्षः-घाते कृत-उपकृतिः पुरा तव तु कलया मृत्युम् प्राप्तुम् तदा खल-ताम् गतः । नरक-सचिवः देश-क्लेशम् सृजन् नगर-अन्तिके झटिति हलिना युध्यन् नद्धा पपात तल-आहतः ॥ ८३।९ ॥
sa khalu vividaḥ rakṣaḥ-ghāte kṛta-upakṛtiḥ purā tava tu kalayā mṛtyum prāptum tadā khala-tām gataḥ . naraka-sacivaḥ deśa-kleśam sṛjan nagara-antike jhaṭiti halinā yudhyan naddhā papāta tala-āhataḥ .. 83.9 ..
साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणांयातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः । ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानींतं त्वां दुर्बोधलीलं पवनपुरपते तापशान्त्यै निषेवे ॥ 83.10 ॥
साम्बम् कौरव्य-पुत्री-हरण-नियमितम् सान्त्वन-अर्थी कुरूणाम् यातः तद्-वाक्य-रोष-उद्धृत-करि-नगरः मोचयामास रामः । ते घात्याः पाण्डवेयैः इति यदु-पृतनाम् न अमुचः त्वम् तदानीम् तम् त्वाम् दुर्बोध-लीलम् पवनपुर-पते ताप-शान्त्यै निषेवे ॥ ८३।१० ॥
sāmbam kauravya-putrī-haraṇa-niyamitam sāntvana-arthī kurūṇām yātaḥ tad-vākya-roṣa-uddhṛta-kari-nagaraḥ mocayāmāsa rāmaḥ . te ghātyāḥ pāṇḍaveyaiḥ iti yadu-pṛtanām na amucaḥ tvam tadānīm tam tvām durbodha-līlam pavanapura-pate tāpa-śāntyai niṣeve .. 83.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In