| |
|

This overlay will guide you through the buttons:

क्वचिदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू । यदुकुलमहिळावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ 84.1 ॥
क्वचिद् अथ तपन-उपराग-काले पुरि निदधत् कृतवर्म-काम-सूनू । यदु-कुल-महिळ-आवृतः सु तीर्थम् समुपगतः असि समन्तपञ्चक-आख्यम् ॥ ८४।१ ॥
kvacid atha tapana-uparāga-kāle puri nidadhat kṛtavarma-kāma-sūnū . yadu-kula-mahil̤a-āvṛtaḥ su tīrtham samupagataḥ asi samantapañcaka-ākhyam .. 84.1 ..
बहुतरजनताहिताय तत्र त्वमपि पुनन्विनिमज्ज्य तीर्थतोयं । द्विजगणपरिमुक्तवित्तराशिः सममिळथाः कुरुपाण्डवादिमित्रैः ॥ 84.2 ॥
बहुतर-जनता-हिताय तत्र त्वम् अपि पुनन् विनिमज्ज्य तीर्थ-तोयम् । द्विज-गण-परिमुक्त-वित्त-राशिः सममिळथाः कुरु-पाण्डव-आदि-मित्रैः ॥ ८४।२ ॥
bahutara-janatā-hitāya tatra tvam api punan vinimajjya tīrtha-toyam . dvija-gaṇa-parimukta-vitta-rāśiḥ samamil̤athāḥ kuru-pāṇḍava-ādi-mitraiḥ .. 84.2 ..
तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा । तदुदितभवदाहृतिप्रकारैरतिमुमुदे सममन्यभामिनीभिः ॥ 84.3 ॥
तव खलु दयिता-जनैः समेता द्रुपद-सुता त्वयि गाढ-भक्ति-भारा । तद्-उदित-भवत्-आहृति-प्रकारैः अतिमुमुदे समम् अन्य-भामिनीभिः ॥ ८४।३ ॥
tava khalu dayitā-janaiḥ sametā drupada-sutā tvayi gāḍha-bhakti-bhārā . tad-udita-bhavat-āhṛti-prakāraiḥ atimumude samam anya-bhāminībhiḥ .. 84.3 ..
तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा । चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥ 84.4 ॥
तदनु च भगवत् निरीक्ष्य गोपान् अति कुतुकात् उपगम्य मानयित्वा । चिरतर-विरह-आतुर-अङ्ग-रेखाः पशुप-वधूः सरसम् त्वम् अन्वयासीः ॥ ८४।४ ॥
tadanu ca bhagavat nirīkṣya gopān ati kutukāt upagamya mānayitvā . ciratara-viraha-ātura-aṅga-rekhāḥ paśupa-vadhūḥ sarasam tvam anvayāsīḥ .. 84.4 ..
सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् । अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥ 84.5 ॥
सपदि च भवत्-ईक्षण-उत्सवेन प्रमुषित-मान-हृदाम् नितम्बिनीनाम् । अति रस-परिमुक्त-कञ्चुलीके परिचय-हृद्यतरे कुचे न्यलैषीः ॥ ८४।५ ॥
sapadi ca bhavat-īkṣaṇa-utsavena pramuṣita-māna-hṛdām nitambinīnām . ati rasa-parimukta-kañculīke paricaya-hṛdyatare kuce nyalaiṣīḥ .. 84.5 ..
रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बन्ऽआभूत् । इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ॥ 84.6 ॥
रिपु-जन-कलहैः पुनर् पुनर् मे समुपगतैः इयती । इति कृत-परिरम्भणे त्वयि द्राक् अति विवशा खलु राधिका निलिल्ये ॥ ८४।६ ॥
ripu-jana-kalahaiḥ punar punar me samupagataiḥ iyatī . iti kṛta-parirambhaṇe tvayi drāk ati vivaśā khalu rādhikā nililye .. 84.6 ..
अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् । परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥ 84.7 ॥
अपगत-विरह-व्यथाः तदा ताः रहसि विधाय तत्त्व-बोधम् । परम-सुख-चित्-आत्मकः अहम् आत्मा इति उदयतु वः स्फुटम् एव चेतसि इति ॥ ८४।७ ॥
apagata-viraha-vyathāḥ tadā tāḥ rahasi vidhāya tattva-bodham . parama-sukha-cit-ātmakaḥ aham ātmā iti udayatu vaḥ sphuṭam eva cetasi iti .. 84.7 ..
सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः । समभवदमुतः परं तु तासां परमसुखैक्यमयी भवद्विचिन्ता ॥ 84.8 ॥
सुख-रस-परिमिश्रितः वियोगः किम् अपि पुरा भवत् उद्धव-उपदेशैः । समभवत् अमुतस् परम् तु तासाम् परम-सुख-ऐक्य-मयी भवत्-विचिन्ता ॥ ८४।८ ॥
sukha-rasa-parimiśritaḥ viyogaḥ kim api purā bhavat uddhava-upadeśaiḥ . samabhavat amutas param tu tāsām parama-sukha-aikya-mayī bhavat-vicintā .. 84.8 ..
मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः । त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥ 84.9 ॥
मुनि-वर-निवहैः तव अथ पित्रा दुरित-शमाय शुभानि पृच्छ्यमानैः । त्वयि सति किम् इदम् शुभ-अन्तरैः इति उरु-हसितैः अपि याजितः तदा असौ ॥ ८४।९ ॥
muni-vara-nivahaiḥ tava atha pitrā durita-śamāya śubhāni pṛcchyamānaiḥ . tvayi sati kim idam śubha-antaraiḥ iti uru-hasitaiḥ api yājitaḥ tadā asau .. 84.9 ..
सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः । यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥ 84.10 ॥
सु महति यजने वितायमाने प्रमुदित-मित्र-जने सह एव गोपाः । यदु-जन-महिताः त्रि-मास-मात्रम् भवत्-अनुषङ्ग-रसम् पुरा इव भेजुः ॥ ८४।१० ॥
su mahati yajane vitāyamāne pramudita-mitra-jane saha eva gopāḥ . yadu-jana-mahitāḥ tri-māsa-mātram bhavat-anuṣaṅga-rasam purā iva bhejuḥ .. 84.10 ..
व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् । प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर पाहि मां गदेभ्यः ॥ 84.11 ॥
व्यपगम-समये समेत्य राधाम् दृढम् उपगूह्य निरीक्ष्य वीत-खेदाम् । प्रमुदित-हृदयः पुरम् प्रयातः पवनपुर-ईश्वर पाहि माम् गदेभ्यः ॥ ८४।११ ॥
vyapagama-samaye sametya rādhām dṛḍham upagūhya nirīkṣya vīta-khedām . pramudita-hṛdayaḥ puram prayātaḥ pavanapura-īśvara pāhi mām gadebhyaḥ .. 84.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In