| |
|

This overlay will guide you through the buttons:

ततो मगधभूमृता चिरनिरोधसंक्लेशितंशताष्टकयुतायुतद्वितयमीश भूमीभृताम् । अनाथशरणाय ते कमपि पूरुषं प्राहिणोदयाचत स मागधक्षपणमेव किं भूयसा ॥ 85.1 ॥
ततस् मगध-भू-मृता चिर-निरोध-संक्लेशितम् शत-अष्टक-युत-अयुत-द्वितयम् ईश भूमीभृताम् । अनाथ-शरणाय ते कम् अपि पूरुषम् प्राहिणोत् अयाचत स मागध-क्षपणम् एव किम् भूयसा ॥ ८५।१ ॥
tatas magadha-bhū-mṛtā cira-nirodha-saṃkleśitam śata-aṣṭaka-yuta-ayuta-dvitayam īśa bhūmībhṛtām . anātha-śaraṇāya te kam api pūruṣam prāhiṇot ayācata sa māgadha-kṣapaṇam eva kim bhūyasā .. 85.1 ..
यियासुरभिमागधं तदनु नारदोदीरिताद्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः । विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवेशशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ 85.2 ॥
यियासुः अभिमागधम् तदनु नारद-उदीरितात् युधिष्ठिर-मख-उद्यमात् उभय-कार्य-पर्याकुलः । विरुद्ध-जयिनः अध्वरात् उभय-सिद्धिः इति उद्धवेश-शंसुषि निजैः समम् पुरम् इयेथ यौधिष्ठिरीम् ॥ ८५।२ ॥
yiyāsuḥ abhimāgadham tadanu nārada-udīritāt yudhiṣṭhira-makha-udyamāt ubhaya-kārya-paryākulaḥ . viruddha-jayinaḥ adhvarāt ubhaya-siddhiḥ iti uddhaveśa-śaṃsuṣi nijaiḥ samam puram iyetha yaudhiṣṭhirīm .. 85.2 ..
अशेषदयितायुते त्वयि समागते धर्मजोविजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः । श्रियं निरुपमां वहन्नहह भक्तदासायितंभवन्तमयि मागधे प्रहितवान्सभीमार्जुनम् ॥ 85.3 ॥
अशेष-दयिता-युते त्वयि समागते धर्मजः विजित्य सहजैः महीम् भवत्-अपाङ्ग-संवर्धितैः । श्रियम् निरुपमाम् वहन् अहह भक्त-दासायितम् भवन्तम् अयि मागधे प्रहितवान् स भीम-अर्जुनम् ॥ ८५।३ ॥
aśeṣa-dayitā-yute tvayi samāgate dharmajaḥ vijitya sahajaiḥ mahīm bhavat-apāṅga-saṃvardhitaiḥ . śriyam nirupamām vahan ahaha bhakta-dāsāyitam bhavantam ayi māgadhe prahitavān sa bhīma-arjunam .. 85.3 ..
गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयोययाच समरोत्सवं द्विजमिषेण तं मागधम् । अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन्निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ॥ 85.4 ॥
गिरिव्रज-पुरम् गताः तदनु देव यूयम् त्रयः ययाच समर-उत्सवम् द्विज-मिषेण तम् मागधम् । अ पूर्ण-सुकृतम् तु अमुम् पवनजेन निरीक्ष्य सह जिष्णुना त्वम् अपि राज-युध्वा स्थितः ॥ ८५।४ ॥
girivraja-puram gatāḥ tadanu deva yūyam trayaḥ yayāca samara-utsavam dvija-miṣeṇa tam māgadham . a pūrṇa-sukṛtam tu amum pavanajena nirīkṣya saha jiṣṇunā tvam api rāja-yudhvā sthitaḥ .. 85.4 ..
अशान्तसमरोद्धतं विटपपाटनासंज्ञयानिपात्य जरसस्सुतं पवनजेन निष्पाटितम् । विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परांदिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥ 85.5 ॥
अशान्त-समर-उद्धतम् विटप-पाटन-अ संज्ञया अ निपात्य जरसः सुतम् पवन-जेन निष्पाटितम् । विमुच्य नृपतीन् मुदा समनुगृह्य भक्तिम् पराम् दिदेशिथ गत-स्पृहान् अपि च धर्म-गुप्त्यै भुवः ॥ ८५।५ ॥
aśānta-samara-uddhatam viṭapa-pāṭana-a saṃjñayā a nipātya jarasaḥ sutam pavana-jena niṣpāṭitam . vimucya nṛpatīn mudā samanugṛhya bhaktim parām dideśitha gata-spṛhān api ca dharma-guptyai bhuvaḥ .. 85.5 ..
प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरंप्रसन्नभृतकीभवत्सकलराजकव्याकुलम् । त्वमप्ययि जगत्पते द्विजपदावनेजादिकंचकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ 85.6 ॥
प्रचक्रुषि युधिष्ठिरे तदनु राजसूय-अध्वरम् प्रसन्न-भृतकीभवत्-सकल-राजक-व्याकुलम् । त्वम् अपि अयि जगत्पते द्विज-पद-अवनेज-आदिकं चकर्थ किमु कथ्यते नृप-वरस्य भाग्य-उन्नतिः ॥ ८५।६ ॥
pracakruṣi yudhiṣṭhire tadanu rājasūya-adhvaram prasanna-bhṛtakībhavat-sakala-rājaka-vyākulam . tvam api ayi jagatpate dvija-pada-avaneja-ādikaṃ cakartha kimu kathyate nṛpa-varasya bhāgya-unnatiḥ .. 85.6 ..
ततस्सवनकर्मणि प्रवरमग्र्यपूजाविधिंविचार्य सहदेववागनुगतस्स धर्मात्मजः । व्यधत्त भवते मुदा सदसि विश्वभूतात्मनेतदा ससुरमानुषं भुवनमेव तृप्तिः दधौ ॥ 85.7 ॥
ततस् सवन-कर्मणि प्रवरम् अग्र्य-पूजा-विधिम् विचार्य सहदेव-वाच्-अनुगतः स धर्मात्मजः । व्यधत्त भवते मुदा सदसि विश्वभूत-आत्मना इतदा स सुर-मानुषम् भुवनम् एव तृप्तिः ॥ ८५।७ ॥
tatas savana-karmaṇi pravaram agrya-pūjā-vidhim vicārya sahadeva-vāc-anugataḥ sa dharmātmajaḥ . vyadhatta bhavate mudā sadasi viśvabhūta-ātmanā itadā sa sura-mānuṣam bhuvanam eva tṛptiḥ .. 85.7 ..
ततस्सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहोसभाजयति को जडः पशुपदुर्दुरूटं वटुम् । इति त्वयि स दुर्वचोविततिमुद्वमन्नासनादुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ 85.8 ॥
ततस् सपदि चेदिपः मुनि-नृपेषु तिष्ठत्सु अहोसभाजयति कः जडः वटुम् । इति त्वयि स दुर्वचः-विततिम् उद्वमन् आसनात् उदापतत् उदायुधः समपतन् अमुम् पाण्डवाः ॥ ८५।८ ॥
tatas sapadi cedipaḥ muni-nṛpeṣu tiṣṭhatsu ahosabhājayati kaḥ jaḍaḥ vaṭum . iti tvayi sa durvacaḥ-vitatim udvaman āsanāt udāpatat udāyudhaḥ samapatan amum pāṇḍavāḥ .. 85.8 ..
निवार्य निजपक्षगानभिमुखस्य विद्वेषिणस्त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा । जनुस्त्रितयलब्धया सततचिन्तया शुद्धधीस्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ 85.9 ॥
निवार्य निज-पक्ष-गान् अभिमुखस्य विद्वेषिणः त्वम् एव जहृषे शिरः दनुज-दारिणा सु आरिणा । जनुः-त्रितय-लब्धया सतत-चिन्तया शुद्ध-धीः त्वया स परम् एकताम् अधृत योगिनाम् दुर्लभाम् ॥ ८५।९ ॥
nivārya nija-pakṣa-gān abhimukhasya vidveṣiṇaḥ tvam eva jahṛṣe śiraḥ danuja-dāriṇā su āriṇā . januḥ-tritaya-labdhayā satata-cintayā śuddha-dhīḥ tvayā sa param ekatām adhṛta yoginām durlabhām .. 85.9 ..
ततस्सुमहितो त्वया क्रतुवरे निरूढे जनोययौ जयति धर्मजो जयति कृष्ण इत्यालपन् । खलः स तु सुयोधनो धुतमनास्सपत्नश्रियामयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥ 85.10 ॥
ततस् सु महितः त्वया क्रतु-वरे निरूढे जनः ययौ जयति धर्मजः जयति कृष्णः इति आलपन् । खलः स तु सुयोधनः धुत-मनाः सपत्न-श्रिया आमय-अर्पित-सभा-मुखे स्थल-जल-भ्रमात् अभ्रमीत् ॥ ८५।१० ॥
tatas su mahitaḥ tvayā kratu-vare nirūḍhe janaḥ yayau jayati dharmajaḥ jayati kṛṣṇaḥ iti ālapan . khalaḥ sa tu suyodhanaḥ dhuta-manāḥ sapatna-śriyā āmaya-arpita-sabhā-mukhe sthala-jala-bhramāt abhramīt .. 85.10 ..
तदा हसितमुत्थितं द्रुपदन्दनाभीमयोरपाङ्गकलया विभो किमपि तावदुज्जृम्भयन् । धराभरनिराकृतौ सपदि नाम बीजं वपन्जनार्दन मरुत्पुरीनिलय पाहि मामामयात् ॥ 85.11 ॥
तदा हसितम् उत्थितम् द्रुप-दन्दना-भीमयोः अपाङ्ग-कलया विभो किम् अपि तावत् उज्जृम्भयन् । धरा-भर-निराकृतौ सपदि नाम बीजम् वपन् जनार्दन मरुत्-पुरी-निलय पाहि माम् आमयात् ॥ ८५।११ ॥
tadā hasitam utthitam drupa-dandanā-bhīmayoḥ apāṅga-kalayā vibho kim api tāvat ujjṛmbhayan . dharā-bhara-nirākṛtau sapadi nāma bījam vapan janārdana marut-purī-nilaya pāhi mām āmayāt .. 85.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In