तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यंसौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत्ते । मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धंनाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥ 86.2 ॥
PADACHEDA
तावत् त्वम् रामशाली त्वरितम् उपगतः खण्डित-प्राय-सैन्यम् सौभ-ईशम् तम् न्यरुन्धाः स च किल गदया शार्ङ्गम् अभ्रंशयत् ते । माया-तातम् व्यहिंसीत् अपि तव पुरतस् तत् त्वया अपि क्षणार्धम् न अज्ञायि इति आहुः एके तत् इदम् अवमतम् व्यासः एव न्यषेधीत् ॥ ८६।२ ॥
TRANSLITERATION
tāvat tvam rāmaśālī tvaritam upagataḥ khaṇḍita-prāya-sainyam saubha-īśam tam nyarundhāḥ sa ca kila gadayā śārṅgam abhraṃśayat te . māyā-tātam vyahiṃsīt api tava puratas tat tvayā api kṣaṇārdham na ajñāyi iti āhuḥ eke tat idam avamatam vyāsaḥ eva nyaṣedhīt .. 86.2 ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.