| |
|

This overlay will guide you through the buttons:

प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षांकांक्षन्त्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् । धातुश्शापाद्धिरण्यान्वितकशिपुभवान्शौरिजान् कंसभग्नानानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान्मरीचेः ॥ 88.1 ॥
प्राक् एव आचार्य-पुत्र-आहृति-निशमनया स्वीय-षष्-सूनु-वीक्षाम् कांक्षन्त्या मातुः उक्त्या सु तल-भुवि बलिम् प्राप्य तेन अर्चितः त्वम् । धातुः शापात् हिरण्य-अन्वित-कशिपु-भवान् शौरि-जान् कंस-भग्नान् आनीय एनान् प्रदर्श्य स्व-पदम् अनयथाः पूर्व-पुत्रात् मरीचेः ॥ ८८।१ ॥
prāk eva ācārya-putra-āhṛti-niśamanayā svīya-ṣaṣ-sūnu-vīkṣām kāṃkṣantyā mātuḥ uktyā su tala-bhuvi balim prāpya tena arcitaḥ tvam . dhātuḥ śāpāt hiraṇya-anvita-kaśipu-bhavān śauri-jān kaṃsa-bhagnān ānīya enān pradarśya sva-padam anayathāḥ pūrva-putrāt marīceḥ .. 88.1 ..
श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् । युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ॥ 88.2 ॥
श्रुतदेवः इति श्रुतम् द्विजेन्द्रम् बहुलाश्वम् नृपतिम् च भक्ति-पूर्णम् । युगपद् त्वम् अनुग्रहीतु-कामः मिथिलाम् प्रापिथ तापसैः समेतः ॥ ८८।२ ॥
śrutadevaḥ iti śrutam dvijendram bahulāśvam nṛpatim ca bhakti-pūrṇam . yugapad tvam anugrahītu-kāmaḥ mithilām prāpitha tāpasaiḥ sametaḥ .. 88.2 ..
गच्छन्द्विमूर्तिरुभयोर्युगपन्निकेतम्एकेन भूरिविभवैर्विहितोपचारः । अन्येन तद्दिनभृतैश्च फलौदनाद्यैस्तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ॥ 88.3 ॥
गच्छन् द्विमूर्तिः उभयोः युगपद् निकेतम् एकेन भूरि-विभवैः विहित-उपचारः । अन्येन तद्-दिन-भृतैः च फल-ओदन-आद्यैः तुल्यम् प्रसेदिथ दद अथ च मुक्तिम् आभ्याम् ॥ ८८।३ ॥
gacchan dvimūrtiḥ ubhayoḥ yugapad niketam ekena bhūri-vibhavaiḥ vihita-upacāraḥ . anyena tad-dina-bhṛtaiḥ ca phala-odana-ādyaiḥ tulyam praseditha dada atha ca muktim ābhyām .. 88.3 ..
भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वंको वा दैवं निरुन्ध्यादिति किल कथयन्विश्ववोढाऽप्यसोढाः । जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिंतत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये ॥ 88.4 ॥
भूयस् अथ द्वारवत्याम् द्विज-तनय-मृतिम् तद्-प्रलापान् अपि त्वं कः वा दैवम् निरुन्ध्यात् इति किल कथयन् विश्ववोढा अपि असोढाः । जिष्णोः गर्वम् विनेतुम् त्वयि मनुज-धिया कुण्ठिताम् च अस्य बुद्धिं तत्त्व-आरूढाम् विधातुम् परम-तम-पद-प्रेक्षणेन इति मन्ये ॥ ८८।४ ॥
bhūyas atha dvāravatyām dvija-tanaya-mṛtim tad-pralāpān api tvaṃ kaḥ vā daivam nirundhyāt iti kila kathayan viśvavoḍhā api asoḍhāḥ . jiṣṇoḥ garvam vinetum tvayi manuja-dhiyā kuṇṭhitām ca asya buddhiṃ tattva-ārūḍhām vidhātum parama-tama-pada-prekṣaṇena iti manye .. 88.4 ..
नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादःस्पष्टो जातो जनानामथ तदवसरे द्वारकामाप पार्थः । मैत्र्या तत्रोषितोऽसौ नवमसुतमृतौ विप्रवर्यप्ररोदंश्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतस्सन्निवेक्ष्ये कृशानुम् ॥ 88.5 ॥
नष्टाः अष्ट अस्य पुत्राः पुनर् अपि तव तु उपेक्षया कष्ट-वादः स्पष्टः जातः जनानाम् अथ तद्-अवसरे द्वारकाम् आप पार्थः । मैत्र्या तत्र उषितः असौ नवम-सुत-मृतौ विप्र-वर्य-प्ररोदम् श्रुत्वा चक्रे प्रतिज्ञाम् अनुपहृत-सुतः सन् निवेक्ष्ये कृशानुम् ॥ ८८।५ ॥
naṣṭāḥ aṣṭa asya putrāḥ punar api tava tu upekṣayā kaṣṭa-vādaḥ spaṣṭaḥ jātaḥ janānām atha tad-avasare dvārakām āpa pārthaḥ . maitryā tatra uṣitaḥ asau navama-suta-mṛtau vipra-varya-prarodam śrutvā cakre pratijñām anupahṛta-sutaḥ san nivekṣye kṛśānum .. 88.5 ..
मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रैरुन्धानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे । याम्यामैन्द्रीं तथायास्सुरवरनगरीर्विद्ययाऽसाद्य सद्योमोघोद्योगः पतिष्यन्हुतभुजि भवता सस्मितं वारितोऽभूत् ॥ 88.6 ॥
मानी स त्वाम् अ पृष्ट्वा द्विज-निलय-गतः बाण-जालैः महा-अस्त्रैः उन्धानः सूति-गेहम् पुनर् अपि सहसा दृष्ट-नष्टे कुमारे । याम्याम् ऐन्द्रीम् तथा अयास् सुर-वर-नगरीः विद्यया असाद्य सद्यस् मोघ-उद्योगः पतिष्यन् हुतभुजि भवता स स्मितम् वारितः अभूत् ॥ ८८।६ ॥
mānī sa tvām a pṛṣṭvā dvija-nilaya-gataḥ bāṇa-jālaiḥ mahā-astraiḥ undhānaḥ sūti-geham punar api sahasā dṛṣṭa-naṣṭe kumāre . yāmyām aindrīm tathā ayās sura-vara-nagarīḥ vidyayā asādya sadyas mogha-udyogaḥ patiṣyan hutabhuji bhavatā sa smitam vāritaḥ abhūt .. 88.6 ..
सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातोलोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् । चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारांपारे त्वं प्राददशः किमपि हि तमसां दूरदूरं पदं ते ॥ 88.7 ॥
सार्धम् तेन प्रतीचीम् दिशम् अति जविना स्यन्दनेन अभियातः लोक-अलोकम् व्यतीतः तिमिर-भरम् अथो चक्र-धाम्ना निरुन्धन् । चक्र-अंशु-क्लिष्ट-दृष्टिम् स्थितम् अथ विजयम् पश्य पश्य इति वारांपारे त्वम् प्राददशः किम् अपि हि तमसाम् दूर-दूरम् पदम् ते ॥ ८८।७ ॥
sārdham tena pratīcīm diśam ati javinā syandanena abhiyātaḥ loka-alokam vyatītaḥ timira-bharam atho cakra-dhāmnā nirundhan . cakra-aṃśu-kliṣṭa-dṛṣṭim sthitam atha vijayam paśya paśya iti vārāṃpāre tvam prādadaśaḥ kim api hi tamasām dūra-dūram padam te .. 88.7 ..
तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यैरावीतं पीतचेलं प्रतिनवजलदश्यामळं श्रीमदङ्गम् । मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनांत्वामेव त्वं परात्मन् प्रियसखसहितो नेमिथ क्षेमरूपम् ॥ 88.8 ॥
तत्र आसीनम् भुजङ्ग-अधिप-शयन-तले दिव्य-भूषा-आयुध-आद्यैः आवीतम् पीत-चेलम् प्रतिनव-जलद-श्यामलम् श्रीमत्-अङ्गम् । मूर्तीनाम् ईशितारम् परम् इह तिसृणाम् एकम् अर्थम् श्रुतीनाम् त्वाम् एव त्वम् परात्मन् प्रिय-सख-सहितः क्षेम-रूपम् ॥ ८८।८ ॥
tatra āsīnam bhujaṅga-adhipa-śayana-tale divya-bhūṣā-āyudha-ādyaiḥ āvītam pīta-celam pratinava-jalada-śyāmalam śrīmat-aṅgam . mūrtīnām īśitāram param iha tisṛṇām ekam artham śrutīnām tvām eva tvam parātman priya-sakha-sahitaḥ kṣema-rūpam .. 88.8 ..
युवां मामेवद्वावधिकविवृतान्तर्हिततयाविभिन्नौ सुन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् । नयेतं द्रागेनानिति खलु वितीर्णान्पुनरमून्द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥ 88.9 ॥
युवाम् माम् एव द्वौ अधिक-विवृत-अन्तर्हित-तया अ विभिन्नौ सुन् द्रष्टुम् स्वयम् अहम् अहार्षम् द्विज-सुतान् । नयेतम् द्राक् एनान् इति खलु वितीर्णान् पुनर् अमून् द्विजायाः दायादाः प्रणुत-महिमा पाण्डु-जनुषा ॥ ८८।९ ॥
yuvām mām eva dvau adhika-vivṛta-antarhita-tayā a vibhinnau sun draṣṭum svayam aham ahārṣam dvija-sutān . nayetam drāk enān iti khalu vitīrṇān punar amūn dvijāyāḥ dāyādāḥ praṇuta-mahimā pāṇḍu-januṣā .. 88.9 ..
एवं नानाविहारैर्जगदभिरमयन्वृष्णिवंशं प्रपुष्णन्नीजानो यज्ञभेदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः । भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णःपूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥ 88.10 ॥
एवम् नाना विहारैः जगत् अभिरमयन् वृष्णि-वंशम् प्रपुष्णन् ईजानः यज्ञभेदैः अतुल-विहृतिभिः प्रीणयन् एण-नेत्राः । भू-भार-क्षेप-दम्भात् पद-कमल-जुषाम् मोक्षणाय अवतीर्णः पूर्णम् ब्रह्म एव साक्षात् यदुषु मनुज-तारु-उषितः त्वम् व्यलासीः ॥ ८८।१० ॥
evam nānā vihāraiḥ jagat abhiramayan vṛṣṇi-vaṃśam prapuṣṇan ījānaḥ yajñabhedaiḥ atula-vihṛtibhiḥ prīṇayan eṇa-netrāḥ . bhū-bhāra-kṣepa-dambhāt pada-kamala-juṣām mokṣaṇāya avatīrṇaḥ pūrṇam brahma eva sākṣāt yaduṣu manuja-tāru-uṣitaḥ tvam vyalāsīḥ .. 88.10 ..
प्रायेण द्वारवत्यामवृतदयि तदी नारदस्त्वद्रसार्द्रस्तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् । भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एवप्राप्तो विज्ञानसारं स किल जनहितायाधुनाऽस्ते वदर्याम् ॥ 88.11 ॥
प्रायेण द्वारवत्याम् अवृत-दयि तदी नारदः त्वद्-रस-आर्द्रः तस्मात् लेभे कदाचिद् खलु सुकृत-निधिः त्वद्-पिता तत्त्व-बोधम् । भक्तानाम् अग्र-यायी स च खलु मतिमान् उद्धवः त्वत्तः एव प्राप्तः विज्ञान-सारम् स किल जन-हिताय अधुना आस्ते वदर्याम् ॥ ८८।११ ॥
prāyeṇa dvāravatyām avṛta-dayi tadī nāradaḥ tvad-rasa-ārdraḥ tasmāt lebhe kadācid khalu sukṛta-nidhiḥ tvad-pitā tattva-bodham . bhaktānām agra-yāyī sa ca khalu matimān uddhavaḥ tvattaḥ eva prāptaḥ vijñāna-sāram sa kila jana-hitāya adhunā āste vadaryām .. 88.11 ..
सोऽयं कृष्णावतारो जयति तव विभो यत्र सौहार्दभीतिस्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः । आर्तिं तीर्वा समस्ताममृतपदमगुस्सर्वतः सर्वलोकाःस त्वं विश्वार्तिशान्त्यै पवनपुरपते भक्तिपूर्त्यै च भूयाः ॥ 88.12 ॥
सः अयम् कृष्ण-अवतारः जयति तव विभो यत्र सौहार्द-भीति-स्नेह-द्वेष-अनुराग-प्रभृतिभिः अतुलैः अश्रमैः योग-भेदैः । आर्तिम् तीः वा समस्ताम् अमृत-पदम् अगुः सर्वतस् सर्व-लोकाः स त्वम् विश्व-आर्ति-शान्त्यै पवनपुर-पते भक्ति-पूर्त्यै च भूयाः ॥ ८८।१२ ॥
saḥ ayam kṛṣṇa-avatāraḥ jayati tava vibho yatra sauhārda-bhīti-sneha-dveṣa-anurāga-prabhṛtibhiḥ atulaiḥ aśramaiḥ yoga-bhedaiḥ . ārtim tīḥ vā samastām amṛta-padam aguḥ sarvatas sarva-lokāḥ sa tvam viśva-ārti-śāntyai pavanapura-pate bhakti-pūrtyai ca bhūyāḥ .. 88.12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In